कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुरवक

kuravakaपुं · masc.

In 8 kośas: 16 synonym verses, 3 as a nānārtha head word, 8 as a meaning of another word.

जपा जवा कुरुवकौ प्रोक्तौ कुरवकावपि ।प्रतिहासः प्रतीहासो वसूको वसुको वसुः ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.22 · p. 135
गौरो महान् कुरवकः प्रमोदोसनपुष्पकः ।कुमुदः कालकः पीतः केदारस्तूर्णकाङ्गुभौ ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.277 · p. 279
सुवर्णपुष्पकोऽम्लातोऽथान्यो रक्तामिलातकः ।प्रसवः स्यात् कुरवको रक्तात्सभसलोत्सवः ॥ २७७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.279 · p. 279
कुरण्टकश्च फलकः पीताम्लानश्च पीतनः ।कुसुमः स्यात्कुरवकः सादासी नीलपुष्पिका ॥ २७९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.281 · p. 280
सैव शोणा कुरवकः कण्टकिन्यथ रक्तका ।उष्ट्रभाण्डी रक्तवर्णलोहितेभ्यश्च पुष्पिका ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.88 · p. 159
परिम्लानश्चोरटोऽथ रक्तः कुरवकश्च सः ।पीतपुष्पः किंकिरातः किंकिरीटश्च पीतकः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.43 · p. 13
कृष्णे मरुङ्गी रक्तेऽस्मिन्मधुशिग्रुः सुभञ्जनः ।वासन्ते स्यात्कुरवको मदनो धूर्तनामकः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.176 · p. 41
कुटन्नटस्तु ना गुण्डुसंज्ञवृक्षे नपि त्वदः ।गोनर्दसंज्ञके मुस्ताभेदे कुरवकः पुनः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.145 · p. 68
रक्ताम्लाने कुरुवकस्तथा कुरवकोऽपि च ।पीतवर्णे तु तत्रैव कुरुण्टक-कुरण्टकौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.254 · p. 34
मरुवककर्णिकारबकुलाम्रामधूकतुष-क्रमुकनमेरुसालतिलकागुरुदन्तशठाः ।कुरवकसिन्धुवारकृतमालतमालयुगच्छद-करकप्रियालघननागसमित्तरवः ॥ २५४ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.521 · p. 68
एकाष्ठीलः पाशुपतालर्को च शिवमल्ल्यपि ।शुक्लपुष्पः कुरवको नागरो मदनोऽपि सः ॥ ५२१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.522 · p. 68
महासहायामम्लानः शोणे तस्मिन् कुरण्टकः ।पीते तस्मिन् कुरवकस्तज्झाटे कलशोदकः ॥ ५२२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.61 · p. 50
वासन्ते स्यात् कुरवकस्तिलकः कुवको मधुः ।शुक्लपुष्पः कुरवको मदनो धूर्तनागरौ ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.189 · p. 60
शोणे बली कुरवको झाटेऽस्मिन् कलशोदकः ।किंकिराते किंकिराटः प्रलोभी चापि लातकः ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.190 · p. 60
सैरेयके तु झिण्टी स्त्री तस्मिन् कुरवकोऽरुणे ।दासी सहाऽप्यार्तगलः कुरण्डश्च सनीलकः ॥ १९० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.191 · p. 60
पीतेऽव्यथः कुरवकः सहा स्त्री सहचर्यषण् ।कुन्दे माध्यः शुक्लपुष्पो वासोऽथ करवीरकः ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.177 · p. 41
पुमानरुणझिण्ट्यां स्यात् पीतझिण्ट्यां तथैव च ।शोणाम्लाने च केचित् तु प्राहुः कुरवकेऽपि तम् ॥ १७७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.178 · p. 41
क्लीबं त्वेषां भवेत् पुष्पे स्त्रियां तु स्यात् कुलत्थिका ।कुलाल्यादिपदैः ख्याते भेषजे नृस्त्रियोः पुनः ॥ १७८ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.164 · p. 186
निःशेषु चाम्लानझिण्टीभिदोः कुरवको भवेत् ।पीतपुष्पाम्लानझिण्ठीद्रुमयोस्तु कुरुण्ठकः ॥
अनुष्टुप्

कुरवक as a meaning in nānārtha verses