वाणा
vāṇāस्त्री · fem.In 6 kośas: 4 synonym verses, 3 as a nānārtha head word.
एताः स्त्रियां विद्धि । इयं क्रोडा अङ्कः । घाटा ग्रीवा । शिरोधरा ग्रीवा । जिह्वा रसना । शष्कुली खण्डस्य भक्ष्यद्रव्यम् । स्पृहा वाञ्छा । माया जनवञ्चनेच्छा । इयं शाखा वृक्षस्य । शिखा चूडा । कला विज्ञानम् । मेखला काञ्ची । रेखाराजिर्घनस्य । पङ्क्तिर्दन्तानाम् ।स्नायुश्रद्धोल्का[त्का]श्च स्त्रियां खट्वा भवेत्त्रेता ।ताणा वाणा प्राणा विश्वाणा संक्रुणा विकोणा च ॥ ५२ ॥
metre not recognised
genderस्त्रीfem.
एते शब्दा स्त्रियां भवन्ति । स्नायुः शरीरस्य । श्रद्धा आदरः । उल्का आकाशोत्पातः ज्वाला च । खट्वा शयनीयम् । त्रेता युगम् । ताणा सूत्ररचना । वाणा वाणी । प्राणा श्रद्धा । विश्वाणा लीला । सङ्क्रुणा नासिका । विकोणा नेत्रविक्षु[च्छु]ब्धिः ।भयबीजसिध्मपदबर्हशुक्रतक्रसुखदुःखशिखराणाम् ।विद्यान्नपुंसकत्वमसृगित्यस्य सदैव ॥ ५३ ॥
metre not recognised
genderस्त्रीfem.
नीलझिण्टी द्वयोर्वाणा दासी चार्तगलोऽपि च ।सैरेयकश्च सैरेयः झिण्टी साधारणे द्वयम् ॥
अनुष्टुप्
genderस्त्रीfem.
झिण्ट्यां सैरेयश्च सैरीयकः सहचरान्वितः ।सहाचरो नीलझीण्ट्यां वाणो वाणाथ पीतिका ॥ २१९ ॥
अनुष्टुप्
genderस्त्रीfem.
शोणः कोकनदच्छवौ निगदितः शोणः समुद्रान्तरंशोणो लोहितघोटकोऽपि च तयोर्भेदे च शोणः स्मृतः ।वाणः स्यादसुरान्तरे कविवरे वाणी च वाग्देवतावाणौ केवलकाण्डयोश्च कथितौ वाणा स्मृता झिण्टिका ॥
शार्दूलविक्रीडितम्
meaningsझिण्टिका
ककुभाख्ये नृशण्डस्तु शरतद्भेदयोरथ ।वाणा नृस्त्री नीलझिण्ट्यां बालस्तु शिशुमूर्खयोः ॥ ८५० ॥
अनुष्टुप्
meaningsनीलझिण्टी
छागेऽपि लम्बकर्णः स्याद्वेणुर्वंशे नृपान्तरे ।वाणा झिण्ट्यां शरे वाणो वृष्णिर्यादवमेषयोः ॥ १३८ ॥
अनुष्टुप्
meaningsझिण्टी