आलम्बन
ālambanaक्ली · neut.In 6 kośas: 1 synonym verse, 8 as a meaning of another word.
आर्भट्याडम्बराटोपाः व्यापप्रसरमूर्छनाः ।आधारः स्यादवष्टम्भः स्यादालम्बनमाश्रयः ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
आलम्बन as a meaning in nānārtha verses
- धरणिकोश आस्थाआस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः । संस्था तु प्रणिधौ नाशे स्थितिसादृश्ययोरपि ॥ Dharaṇikośa 16.2.1
- कोषकल्पतरु अवष्टभ्नातिअवष्टभ्नोत्यवष्टभ्नाति च संपरिकीर्त्यते । प्रारम्भाक्रमयोः स्तम्भिरवादालम्बने मतः ॥ ७७ ॥ Koṣakalpataru 3.5.77
- कोषकल्पतरु आतिष्ठतेप्रात्तिष्ठतिर्गतावाङः प्रतिज्ञालम्बनाक्रमे । आक्षेप-स्थान-यत्नेषु प्रत्यवाद्गदने गिरः ॥ ९३ ॥ Koṣakalpataru 3.5.93
- कोषकल्पतरु अग्रक्रूरेऽन्यवत्स्यात्कुटिलेऽप्यथाग्र- मालम्बने स्यान्निकरेऽधिके च । प्रान्ते पुरस्तादुपरि प्रधाने- ऽप्याद्ये तथा[48a]र्द्धे च पलप्रमाणे ॥ ४३ ॥ Koṣakalpataru 6.27.43
- नानार्थार्णवसंक्षेप आलम्बत्रिषु त्वञ्जनसम्बन्धिन्यथ क्ली मत्तवारणे । आलम्बमालम्बने तु पुंस्यालस्यं तु नप्यदः ॥ २१० ॥ Nānārthārṇavasaṃkṣepa 4.210
- शब्दरत्नावली आस्थाअथोऽर्थने च विषये धने वस्तुनि कारणे ॥ अभिधेये निवृत्तौ च कुशले च प्रयोजने । आस्था चालम्बनास्थानयत्नापेक्षास्वपि स्त्रियाम् ॥ कन्था मृण्मयभित्तौ तु स्त्रियां प्रावरणान्तरे । क्वाथोऽतिदुःखे मूर्छायां निष्काके च द्रवस्य च ॥ कुथो वर्णे कथने स्यान्न क्लीबं पुंसि बर्हिषि । कोथस्तु शाटिते नेत्ररोगभेदे च पुंस्ययम् ॥ Śabdaratnāvalī 7.17.2
- शब्दरत्नावली अग्रअराऽन्यवत् शीघ्रगे स्यात्क्लीबं चक्राङ्गशीघ्रयोः । अग्रमालम्बने वृन्दे परिमाणे पलस्य च ॥ पुरस्तादुपरिप्रान्ते एकाग्रे च नपुंसकम् । अतिरिक्ते प्रधाने च प्रमाणे चाभिधेयवत् ॥ अस्त्रं चापे प्रहरणे कृपाणे च नपुंसकम् । अभ्रं धातुभिदि स्वर्णे गगने स्याद्घनेऽपि च ॥ Śabdaratnāvalī 7.27.3
- त्रिकाण्डशेष आस्थाअपेक्षालम्बनं चास्था स्यादर्थो विषयेऽपि च । भटे पुंस्यप्रतिरथं यात्रामङ्गलसाम्नि च ॥ १९५ ॥ Trikāṇḍaśeṣa 3.3.195