कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

थान्ताः · थार्धश्लोकः

॥ थार्धश्लोकः ॥

आस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः ।संस्था तु प्रणिधौ नाशे स्थितिसादृश्ययोरपि ॥
16.2.1 · p. 89
अनुष्टुप्
वीथी स्याद्रूपके पङ्क्तौ गृहाङ्गे च तथाध्वनि ।सिक्थं स्मृतं मधूच्छिष्टं सिक्थमोदनसंभवः ॥
16.2.2 · p. 90
अनुष्टुप्
पृथुरादिनृपे प्रोक्तः कृष्णजीरे महत्यपि ।ग्रन्थिर्व्याघिविशेषः स्याद्ग्रन्थिः कौटिल्यपर्वणोः ॥
16.2.3 · p. 90
अनुष्टुप्
मन्थौ साक्तवमन्थानौ मन्थो नेत्रमलेऽपि च ।कन्था मृद्घाटिता भित्तिः कन्था प्रावरणान्तरम् ॥
16.2.4 · p. 90
अनुष्टुप्
कोथो नेत्ररुजो भेदे कोथः स्याच्छटितेऽपि च ।प्रोथः स्यादश्वघोणायां कटिः प्रोथ उदाहृतः ॥
16.2.5 · p. 90
अनुष्टुप्
क्वाथः स्याद्द्रवनिष्पाके क्वाथो दुःख उदाहृतः ।समर्थः कथितः शक्ते संबद्धार्थे हितेऽपि च ॥
16.2.6 · p. 90
अनुष्टुप्
अश्वत्थस्तरुभेदे स्यादश्वत्थः पूर्णिमातिथिः ।उन्माथः पाशयन्त्रे स्यादुन्मा[47]थो वधघातयोः ॥
16.2.7 · p. 90
अनुष्टुप्
उपस्थः शिश्न उत्सङ्गे योनौ पायौ च कीर्तितः ।निशीथः स्यादर्धरात्रौ रात्रिमात्रे च कथ्यते ॥
16.2.8 · p. 91
अनुष्टुप्
वरूथो रथगुप्तिः स्याद्वरूथं चर्म निर्दिशेत् ।अनीकस्थो राजरक्षी गजशिक्षाविचक्षणः ॥
16.2.9 · p. 91
अनुष्टुप्
चतुष्पथं चतुर्वर्त्म संगमेऽपि च दृश्यते ।वानप्रस्थो मधूकेऽपि किंशुके आश्रमान्तरे ॥
16.2.10 · p. 91
अनुष्टुप्
चित्ररथो रविः प्रोक्तश्चित्ररथो नभश्चरः ।दशमीस्थं नष्टबीजं स्थविरं च विदुर्बुधाः ॥
16.2.11 · p. 91
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 2, syllable 3 र (wrong syllable)