कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आलिङ्ग्य

āliṅgyaपुं · masc.

In 8 kośas: 7 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.221 · p. 16
मृदङ्गो मुरजः सोङ्क्यालिङ्ग्यूर्ध्वक इति त्रिधा ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.5
चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ।मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.64 · p. 424
आलिङ्ग्य ऊर्ध्वकः पुंसि स्यादालिङ्गी स्त्रियामपि ।हरीतक्याकृतिश्चाङ्क्या स्यादालिङ्ग्या यवाकृतिः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.21 · p. 77
हरीतक्याकृतिः सोऽङ्क्यो यवमध्यस्तथोर्द्ध्वकः ।अर्धकाभोगिकालिङ्ग्या आनकः पटहोऽस्त्रियौ ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.425 · p. 54
मृदङ्गो मुरजश्चेति सोऽङ्क्यालिङ्ग्यूर्ध्वकस्त्रिधा ।स्याद्यशःपटहश्चैव ढक्का भेरी तु दुन्दुभिः ॥ ४२५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.415 · p. 30
मृदङ्गो मुरजेऽपि स्यादङ्काद्यास्तद्विशेषकाः ।अङ्क्यश्चाङ्की तथालिङ्ग्य आलिङ्गी चोर्ध्वकोद्धकौ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.129 · p. 146
दण्डिका कारवी सृष्टा किंखिरो जर्जरश्च सः ।मुरजास्तु मृदंगास्ते त्वङ्क्यालिंग्योर्ध्वकास्त्रयः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.208 · p. 64
आलिङ्ग्यः पटहे पुंसि मध्यमे भेद्यवत् पुनः ।आलिङ्गनीये विज्ञेय आञ्जनः पुनरुच्यते ॥ २०८ ॥
अनुष्टुप्