कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आतोद्य

ātodyaक्ली · neut.

In 12 kośas: 11 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.208 · p. 16
वाद्यं वादित्रमातोद्यं तूर्यं तूरं स्मरध्वजः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.5
चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ।मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.93 · p. 12
गीतं गानमिति प्रोक्तं वाद्यमातोद्यमिष्यते ।नृत्यं तु ताण्डवं लास्यं त्रितयं नाट्यमुच्यते ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.57 · p. 423
वाद्यं वादित्रमातोद्यं तूर्यं तूरमथो ततम् ।वीणाप्रभृतिकं वाद्यं कांस्यतालादिकं घनम् ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.13 · p. 76
एकतालो गीतवाद्यनृत्यसाम्यसमन्वितः ।वाद्यं वादित्रमातोद्यं कटम्बश्च स्वरध्वजः ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.198 · p. 29
वाद्यं वादित्रमातोद्यं तूरतूर्ये स्मरध्वजः ।वीणा च वल्लकी कण्ठकूणिका घोषवत्यपि ॥ १९८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संगीतवर्गः Śāradīyākhyanāmamālā 2.3.108 · p. 30
वाद्यं वादित्रमातोद्यं तूर्यं तूरः स्मरध्वजः ।ततं वीणाप्रभृतिकं वंशतालादिकं घनम् ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.414 · p. 53
चतुर्विद्यावृत्तिरेषा काव्यनाटकयोः स्थिता ।तूर्यं वादित्रमातोद्यं तूरं वाद्यं स्मरध्वजः ॥ ४१४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.414 · p. 29
वंश्यादिवाद्यं सुषिरं घनं कांस्यादितालजम् ।एवं वादित्रमातोद्यं वाद्यमेतच्चतुर्विधम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.940 · p. 118
मुरजादिकमानद्धं सुषिरं वंशमुख्यकम् ।चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ॥ ९४० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.114 · p. 145
काकली तु कले सूक्ष्मे रागा गीतेर्विधाः पृथक ।वादित्रं वादनं वाद्यमातोद्यं तच्चतुर्विधम् ॥ ११४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.

आतोद्य as a meaning in nānārtha verses

  • कोषकल्पतरु पुटभेदविश्वासे च नियोजने निगदितो विद्वद्भिरुक्तस्तथा वीणावादनवस्तुनीह * परीवादः कलङ्केऽपि च । मर्यादासहिते तथा त्रिषु समर्यादः समीपे भवे- दातोद्ये पुटभेद एष नगरे चक्रे नदीनामपि ॥ ४३ ॥ Koṣakalpataru 6.19.43
  • नानार्थार्णवसंक्षेप वाद्यज्ञेयं हुडुक्कहिक्कायां वाणी तु गिरि सा स्त्रियाम् । वाद्यं तु क्लीबमातोद्ये त्रिर्वाद्ये वादनीयके ॥ १२३० ॥ Nānārthārṇavasaṃkṣepa 2.5.1230
  • शब्दरत्नावली पुटभेदपीठमर्दो नायके स्यात्सचिवे चातिधृष्टके । पुटभेदो नदीवक्रे आतोद्ये पत्तने पुमान् ॥ महानादो वर्षुकाब्दे कुञ्जरे स्यान्महास्वने । मेघनादस्त्विन्द्रजिति प्रचेतसि भवेत्पुमान् ॥ Śabdaratnāvalī 7.18.28