आनक
ānakaपुं · masc.In 14 kośas: 15 synonym verses, 6 as a nānārtha head word, 7 as a meaning of another word.
स्याद्यशःपटहो ढक्का भेरी दुन्दुभिरानकः ॥ २९३ ॥पटहोऽथ शारिका स्यात्कोणो वीणादिवादनम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
genderपुंmasc.
genderपुंmasc.
रङ्गः स्यान्नर्तनस्थानं मृदङ्गो मुरजः स्मृतः ।आनकः पटहो ज्ञेयो डिण्डिमः पणवस्तथा ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
गोपुच्छाकृतिरूर्ध्वाख्यः प्रोक्तः सर्वत्र टोककः ।स्याद्यशःपटहो ढक्का भंभा भेरी स्त्रियां पुमान् ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
आनकश्चापि भेरिः स्त्री दुन्दुभिश्चानकः पुमान् ।प्रणवः पणवस्तुल्यौ पटहोऽस्त्र्यथ मर्दलः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
हरीतक्याकृतिः सोऽङ्क्यो यवमध्यस्तथोर्द्ध्वकः ।अर्धकाभोगिकालिङ्ग्या आनकः पटहोऽस्त्रियौ ॥ २१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
ढक्का कुहकगुञ्जा च यशःपटह इत्यपि ।क्रोशध्वनिश्च निःस्वानो लम्पापटह इत्यपि ।प्रतिप[49b]त्पटहः क्रोकाना(?) लोटगुञ्जा तु सोल्पकः ।आनको दुन्दुभिः पुंसि भेरिर्भम्भा*हावुभौ ॥ २३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
लयः साम्यं पुमस्तालः क्रियया कालसम्मितिः ।मुरजस्तु मृदङ्गोऽथ समावानकदुन्दुभी ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
क्रोशतालः क्रोषरवो ढक्का विजयमर्द्दलः ।आताड्यो दुन्दुभिः भेरी भेरिका पटहानकौ ॥ २२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्रो (wrong syllable)
genderपुंmasc.
मृदङ्गो मुरजश्चैव मर्दलः पुष्करस्त्रिधा ।स्याद्यशःपटहो ढक्का भेरी दुन्दुभिरानकः ।वाद्यभेदाः शङ्खताला झल्लरीपटहादयः ॥ ११० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आनकः पटहश्चाथ दर्दरः कलशीमुखः ।ज्ञेयं वै सूत्रकोणश्च डमरुकं पुनस्ततः ॥ ४२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
genderपुंmasc.
स्याद्यशः पढहो ढक्का तथा विजयमङ्गलः ।आनको दुन्दुभिर्भेरी पढहोऽस्त्री तथानकः ॥
अनुष्टुप्
genderपुंmasc.
पटहस्त्वानकोऽस्त्रियाम् ॥ ५४ ॥
genderपुंक्लीm. n.
ते केकिचातकाजक्रुङ्पिकभेकगजस्वराः ।दुंदुभिस्त्वानको भेरी भंभा नासूश्च नान्द्यपि ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्यशःपटहों ढक्का पटहस्त्वानकोऽस्त्रियौ ।हुडुक्कस्तु हढक्कोऽस्त्री समौ पणवमर्द्दलौ ॥ १३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
आनक as a meaning in nānārtha verses
- कोषकल्पतरु मृदङ्गषिङ्गे भुजंगो भुजगे मृदङ्गो घोषे तथाचानकवाचकोऽपि । सङ्गे च तूणे च निषङ्ग उक्तो वेल्ले विडङ्गं त्रिषु नागरे स्यात् ॥ २० ॥ Koṣakalpataru 6.3.20
- कोषकल्पतरु कवचकवचस्तु गर्दभाण्डे संनाहे चानके न स्त्री । विकचः क्षपणे केतु- ग्रहे स्फुटे तु भेद्याभः ॥ १० ॥ Koṣakalpataru 6.5.10
- कोषकल्पतरु पटहपटहस्तु न स्त्री स्यादानके पुंसि उपक्रमे च ॥ ४४ ॥ Koṣakalpataru 6.32.44
- नानार्थार्णवसंक्षेप पटहपटहस्त्वानके न स्त्री निर्घोषे युद्धवाद्यजे । रभसस्तु समारम्भे प्रोक्तवाञ्छब्दवित्तमः ॥ १०८० ॥ Nānārthārṇavasaṃkṣepa 4.1080
- नानार्थार्णवसंक्षेप पूर्णानकउत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्र क्ली न तु स्त्री पूर्ण आनके ॥ ४०५ ॥ Nānārthārṇavasaṃkṣepa 6.405
- नानार्थार्णवसंक्षेप आनकदुन्दुबिअत्र त्वाम्नायते सद्भिः पुमानानकदुन्दुभिः । वसुदेवेऽथ तत् क्लीबमानकस्य च दुन्दुभेः ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 8.6
- शब्दरत्नावली आहतआहतन्तु मृषार्थे स्यात्ताडिते गुणितेऽपि च । पुरातनांशुके नूत्ने वस्त्रे स्यात्युंसि चानके ॥ Śabdaratnāvalī 7.16.84