उपरिष्टात्
upariṣṭātअ · indecl.In 8 kośas: 8 synonym verses, 1 as a meaning of another word.
उपरिष्टादुपर्यूर्ध्वं स्यादधस्तादधोऽप्यवाक् ॥ १५२६ ॥
अनुष्टुप्
genderअindecl.
अन्तराला दिशश्चान्या विदिशः प्रदिशः स्मृताः ।उपरिष्टादुपर्यूर्ध्वं तथाधस्तादवागधः ॥ १०२ ॥
अनुष्टुप्
genderअindecl.
भेदे स्यात्तूपधा भिन्ने पृथगर्धे तु सामि च ।प्रबाहुकमुपर्यूर्ध्वमुपरिष्टात्समार्थकम् ॥ १२ ॥
अनुष्टुप्
genderअindecl.
उपरि तथोपदिष्टाद् द्वयमूर्ध्वे प्रयुज्यते ।अधोऽधस्तात् तथाऽवाक् च सन्ति त्रयोऽप्यधःस्थले ॥ २७८४ ॥
metre not recognised
genderअindecl.doubtful
स्यात्पुरस्तादधस्ताच्च रिष्टातिरूर्द्धशब्दतः ।एतस्मिन्नुपभावे स्याद् उपरिष्टादुदाहृतम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
genderअindecl.
स्वः स्वर्गे सुखमार्तण्डपरलोकेष्वपि, शनैः ।शनैश्चरेऽप्यथोर्ध्वे तु उपरिष्ठादुपर्यपि ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 पि (wrong syllable)
genderअindecl.doubtful
प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा ।उपरिष्टादुपर्यूर्ध्वे स्यादधस्तादवागधः ॥ २३०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्य (wrong syllable)
genderअindecl.
उपरिष्टादुपर्यूर्ध्वे स्यादधस्तादवागधः ।तिरश्चि साच्युच्च उच्चैर्नीचैर्नीच्युच्चकैर्भृशे ॥ १९ ॥
अनुष्टुप्
genderअindecl.
उपरिष्टात् as a meaning in nānārtha verses
- कोषकल्पतरु ऊर्ध्व[77b]ऊर्ध्वं तु तुङ्गोत्थितयोः परस्मिं- स्तथोपरिष्टादपि कीर्तितं च । द्यौः स्वर्गलोके गगनेऽपि च स्त्री मेषे त्वविर्भूभृति भास्करे च ॥ ७ ॥ Koṣakalpataru 6.29.7