कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

अव्ययाध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाव्यये द्व्यक्षराध्यायः ॥

अव्ययाध्यायः

शीघ्रार्थे झटिति स्राग्द्राङ्मक्ष्वह्नाय सपद्यपि ।चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः ॥ २२७९ ॥
6.2279 · p. 277
अनुष्टुप्
मुहुर्भूयः पुनः शश्वदभीक्ष्णमसकृत्समाः ।आहो उताहो किमुत विकल्पे किं किमूत च ॥ २२८० ॥
6.2280 · p. 277
अनुष्टुप्
निर्भरे सुष्ठु किमुत बलवत्स्वस्त्य(त्य?)तीव च ।वर्जनार्थे पृथङ्नानान्तरेणर्ते हिरुग्वषट् ॥ २२८१ ॥
6.2281 · p. 277
अनुष्टुप्
सार्धं साकं समं सत्रा सह व्यर्थे वृथा मुधा ।स्यात् प्राध्वमानुकूल्यार्थे हेतौ यत्तद्यतस्ततः ॥ २२८२ ॥
6.2282 · p. 277
अनुष्टुप्
दिवाह्नि निशि दोषा च नक्तं स्यात् साचि तिर्यचि ।अल्पे किञ्चिन्मनागीषदसाकल्ये तु चिच्चन ॥ २२८३ ॥
6.2283 · p. 277
अनुष्टुप्
कदाचिज्जातु समया निकषा निकटार्थके ।समन्तात् सर्वतो विष्वक् परितश्च समन्ततः ॥ २२८४ ॥
6.2284 · p. 277
अनुष्टुप्
संबोधने ननु प्याट् फाट् हे है हो अङ्ग हन्त च ।विरोधोक्तावपि ननु प्रेत्यामुत्र भवान्तरे ॥ २२८५ ॥
6.2285 · p. 277
अनुष्टुप्
परमे मत ओमेवं कच्चित् कामप्रवेदने ।वितथे तु मृषा मिथ्या तत्त्वे त्वद्धाञ्जसापि च ॥ २२८६ ॥
6.2286 · p. 277
अनुष्टुप्
वौष श्रौष स्वष स्वाक्ष वौषट् श्रौषड्वषट्कृतौ ।देवानां च पितॄणां च प्रदाने हव्यकव्ययोः ॥ २२८७ ॥
6.2287 · p. 278
अनुष्टुप्
स्वाहा स्वधा क्रमाज्जोषं दिष्ट्या शं च सुखार्थके ।अतर्किते तु सहसा सद्यः सपदि तत्क्षणे ॥ २२८८ ॥
6.2288 · p. 278
अनुष्टुप्
द्विस्त्रिश्चतुःपञ्चकृत्वो द्वित्र्याद्यावर्तने कृते ।अस्मिन् कालेऽधुनेदानीं संप्रत्येतर्हि सांप्रतम् ॥ २२८९ ॥
6.2289 · p. 278
अनुष्टुप्
यदा यर्हि तदा तर्हि तदानीं सर्वदा सदा ।शश्वत् सनाक् सना ज्योक् च युगपत्त्वेकदा सकृत् ॥ २२९० ॥
6.2290 · p. 278
अनुष्टुप्
अन्यस्मिन्नन्यदा काले कस्मिन् काले कदेत्यदः ।अतीते वर्तमानेऽब्दे आगामिनि यथाक्रमम् ॥ २२९१ ॥
6.2291 · p. 278
अनुष्टुप्
परुत्परार्यैषमाः स्युर्ययार्थं तु यथातथम् ।अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २२९२ ॥
6.2292 · p. 278
अनुष्टुप्
तथाधरान्यान्यतरेतरात् पूर्वेद्युरादयः ।उभयेद्युस्तूभयेऽह्नि परे त्वह्नि परेद्यवि ॥ २२९३ ॥
6.2293 · p. 278
अनुष्टुप्
ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि ।स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः ॥ २२९४ ॥
6.2294 · p. 278
अनुष्टुप्
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ।असूयोपगमेऽप्यस्तु विरतौ रञ्जने रुषः ॥ २२९५ ॥
6.2295 · p. 278
अनुष्टुप्
अन्तरेणान्तरा मध्येऽप्यहहाद्भुतखेदयोः ।तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥ २२९६ ॥
6.2296 · p. 279
अनुष्टुप्
अहो चित्रेऽस्ति सत्तायां युक्ते स्थाने च सांप्रतम् ।यथा यद्वा तथैवैवं साम्ये स्यादद्रुते शनैः ॥ २२९७ ॥
6.2297 · p. 279
अनुष्टुप्
अकामानुमतौ कामं प्रायो भूम्नि नमो नतौ ।नीचाह्वाने त्वरे रे च मालं मा स्म च वारणे ॥ २२९८ ॥
6.2298 · p. 279
अनुष्टुप्
नह्य नो नाप्यभावेऽथ शीघ्रेऽरं स्वयमात्मना ।पक्षान्तरे चेद्यदि चाभीक्ष्णं शश्वदनारते ॥ २२९९ ॥
6.2299 · p. 279
अनुष्टुप्
बहिर्बाह्ये सना नित्ये स्मातीतेऽस्तमदर्शने ।तूष्णीं मौने च तूष्णीकं प्रादुराविः प्रकाश्यके ॥ २३०० ॥
6.2300 · p. 279
अनुष्टुप्
अङ्गीकृतौ स्यादथ किमप्यादि कथमित्यदः ।अप्यर्थे यदिवार्थे स्यात् प्रसह्य प्रसभार्थके ॥ २३०१ ॥
6.2301 · p. 279
अनुष्टुप्
प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा ।उपरिष्टादुपर्यूर्ध्वे स्यादधस्तादवागधः ॥ २३०२ ॥
6.2302 · p. 279
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्य (wrong syllable)
इति ह स्यात् संप्रदाय ऊं दुक्ते (उक्ते?) रोषसंभवे ॥ २३०३ ॥
6.2303 · p. 280