उपधा
upadhāस्त्री · fem.In 13 kośas: 15 synonym verses, 3 as a nānārtha head word, 6 as a meaning of another word.
genderस्त्रीfem.
genderस्त्रीfem.
genderस्त्रीfem.
विपरीतं पराचीनमपाचीनं पराङ्मुखम् ।स्मृतं कौसीद्यमालस्यमुपधा तु परीक्षणम् ॥ ७५७ ॥
अनुष्टुप्
genderस्त्रीfem.
दायो ना हरणं क्लीबे पुंसि भेदोपजापकौ ।त्रिवर्गेण भिया वापि परीक्षा सोपधा स्त्रियाम् ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं पुंस्युपाधिर्मिषं छलम् ॥ १२१ ॥
अनुष्टुप्
genderस्त्रीfem.
करो बलिर्भागधेयी द्वयोर्धर्मादितः पुनः ।शौचाशौचपरिज्ञानममात्यानां मतोपधा ॥मायोपेक्षेन्द्रजालानि क्षुद्रोपाया अमी त्रयः ।मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
भेदे स्यात्तूपधा भिन्ने पृथगर्धे तु सामि च ।प्रबाहुकमुपर्यूर्ध्वमुपरिष्टात्समार्थकम् ॥ १२ ॥
अनुष्टुप्
genderअindecl.
कोशदण्डोद्भवं तेजः प्रतापश्च प्रभाववत् ।परीक्षा सोपधा प्रोक्ता धर्मकामार्थसाध्वसैः ॥ ३६० ॥
अनुष्टुप्
genderस्त्रीfem.
धर्मकामभयार्थाद्यैरुपधेति प्रगीयते ।षडिन्द्रियाभावजनेऽषडक्षीण इतीष्यते ॥ २६५ ॥
अनुष्टुप्
genderस्त्रीfem.
उपाधिरुपधिश्छद्म व्याजो व्यपदेशो निभम् ।उपधा चेति मन्तव्याः कपटस्यैव वाचकाः ॥ ५६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दे (wrong syllable)
genderस्त्रीfem.
धर्मादर्थाच्च कामाच्च भित्यादेश्च पुनः खलु ।अमात्यादेः परीक्षा या सोपधा कथ्यते बुधैः ॥ १२०९ ॥
अनुष्टुप्
genderस्त्रीfem.
भेदोपजापावित्येषां पर्यायः परिकीर्तितः ।उपधाधर्मकामार्थैरमात्यादिपरीक्षणम् ॥
अनुष्टुप्
genderस्त्रीfem.
अष्टवर्गोऽथ धर्माद्यैरुपधा स्यात् परीक्षणम् ।अथोपायाः सामदानभेददण्डाश्चतुष्टये ॥ १२७५ ॥
अनुष्टुप्
genderस्त्रीfem.
व्याजो मिषं छलं छद्म निभं च कपटोऽस्त्रियाम् ।दंभो दंडाजिनं कूटं दौन्दुभिश्छन्दनोपधा ॥ १९५ ॥
अनुष्टुप्
genderस्त्रीfem.
उपधानक्रियाया चच्छन्दनाया च कीर्तिता ।माघस्य कोपधेत्यत्र मृग्योऽर्थ उपधापदे ॥ १४ ॥
अनुष्टुप्
आयतिर्दीर्घतायां स्यात् प्रभावागामिकालयोः ।उपधा सुपरीक्षापि कृपाण्यामपि कर्तरी ॥ ३ ॥
अनुष्टुप्
meaningsसुपरीक्षा
उपधा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् उपक्रमउपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ १३९ ॥ Amarakośa 3.3.139
- नानार्थार्णवसंक्षेप उपक्रमउपक्रमश्चिकित्सायामुपधारम्भयोरपि । उपायपूर्वे त्वारम्भेऽमरसिंहः शरेप्यथो ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 6.36
- परमानन्दीयनाममाला उपक्रमविक्रमे च चिकित्सायामुपधारम्भयोरपि । उपलब्धिर्मनीषायां प्राप्तौ ज्ञानेऽपि कथ्यते ॥ ७३ ॥ Paramānandīyanāmamālā 5.3.73
- शब्दरत्नाकर उपक्रमआच्छोटनं स्यादाघाते मृगयायां विमर्दने । आरम्भणे चिकित्सायामुपधायामुपक्रमः ॥ २२०४ ॥ Śabdaratnākara 4.1.2204
- वैजयन्ती शुचिभद्रे चाथोपधा शुद्धसचिवेऽग्नौ हरौ शुचिः । चन्द्रेऽर्के च त्रिषु त्वेष शुद्धेऽनुपहते सिते ॥ ८५ ॥ Vaijayantī 6.5.85
- वैजयन्ती उपक्रमउपक्रमश्चिकित्सायामुपधारंभयोरपि । उपग्रहस्तु बन्दौ स्याद्ग्रहणेऽप्यनुकूलने ॥ १८ ॥ Vaijayantī 8.1.18