All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
शेषकाण्डः · अव्ययपर्यायाध्यायः
इति त्र्यक्षराः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां शेषकाण्डे अनेकार्थाव्ययाध्यायः
शेषकाण्डे अव्ययपर्यायाध्यायः
शीघ्रार्थे झटिति स्राग्द्राक् मंक्ष्वह्नाय सपद्यपि ।चिरेण चिररात्राय दीर्घकाले चिराच्चिरम् ॥ १ ॥
8.8.1 · p. 287
अनुष्टुप्
विकल्पे किमुताहोस्वित् किमुताहो किमूत च ।संबोधने ननु प्याट् पाट् हे है भो अङ्ग हंत च ॥ २ ॥
8.8.2 · p. 287
अनुष्टुप्
वौषड्वोषाड्वषड्वौक्षड्वाक्षट् श्रौषड्वषट्कृतौ ।परितः सर्वतो विष्वक् समन्ताच्च समन्ततः ॥ ३ ॥
8.8.3 · p. 287
अनुष्टुप्
किमुतातीव बलवत् स्वति सुष्ठु च साधिके ।पृथग्विना हिरुङ्नानान्तरेणर्ते च वर्जने ॥ ४ ॥
8.8.4 · p. 287
अनुष्टुप्
कालेऽस्मिन्नधुनेदानीं संप्रत्येतर्हि सांप्रतम् ।यदा यर्हि तदा तर्हि तदानीं सर्वदा सदा ॥ ५ ॥
8.8.5 · p. 287
अनुष्टुप्
शश्वत्सनात् सना ज्योक् च युगपत्त्वेकदा सकृत् ।द्विस्त्रिश्चतुःपञ्चकृत्व इत्याद्यावर्तने कृतेः ॥ ६ ॥
8.8.6 · p. 287
अनुष्टुप्
कदाचिज्जातु सद्यस्तु तत्क्षणेऽन्यक्षणेऽन्यदा ।दोषा नक्तं च निश्यह्नि दिवाद्यैतदहर्निशम् ॥ ७ ॥
8.8.7 · p. 287
अनुष्टुप्
अपरेऽह्न्यपरेद्युः स्यादेवं पूर्वेतराधरे ।उत्तरेऽन्यान्यतरयोस्तर्क्याः पूर्वेद्युरादयः ॥ ८ ॥
8.8.8 · p. 287
अनुष्टुप्
उभयेद्युस्तूभयद्युः परे त्वह्नि परेद्यवि ।ह्यो गतेऽनागते तु श्वः परश्वस्तु ततः परे ॥ ९ ॥
8.8.9 · p. 287
अनुष्टुप्
सायं साये प्रगे प्रातः काल्ये संवत्तु वत्सरे ।अतीतानन्तरे वर्षे परारि परुदेषमः ॥ १० ॥
8.8.10 · p. 287
अनुष्टुप्
अतीते वर्तमाने च स्यादन्ते रजनेरुषा ।मुहुः पुनःपुनः शश्वत्पुरस्तु पुरतोऽग्रतः ॥ ११ ॥
8.8.11 · p. 287
अनुष्टुप्
संकोचे चिच्चन व्यर्थे मुधा शश्वत्तु शाश्वते ।किञ्चनेषन्मनाक्किञ्चिदल्पेऽवश्यं तु निश्चिते ॥ १२ ॥
8.8.12 · p. 288
अनुष्टुप्
निष्षमं दुष्षमं दुष्ठु गर्ह्ये सुष्ठु सु शोभने ।मिथ्या मृषा च वितथे यथार्थं तु यथातथम् ॥ १३ ॥
8.8.13 · p. 288
अनुष्टुप्
मतप्रदाने यदि चेद्यथास्वं तु यथायथम् ।युक्ते स्थाने रुषोक्ताबूम्बहिर्बाह्ये नमो नतौ ॥ १४ ॥
8.8.14 · p. 288
अनुष्टुप्
मौने तु तूष्णीं तृष्णीकां समया निकषा हिरुक् ।साम्ये व वैवमेवेव प्रेत्यामुत्र भवान्तरे ॥ १५ ॥
8.8.15 · p. 288
अनुष्टुप्
प्राध्वं स्यादानुकूल्यार्थमशीघ्रे शनकैः शनैः ।अहो ही विस्मये प्रायो भूमन्यस्तमदर्शने ॥ १६ ॥
8.8.16 · p. 288
अनुष्टुप्
समकं तु सजूः साकं सार्धं सत्रा समं सह ।सुखे दिष्ट्योपजोषं शमेवमां परमं मते ॥ १७ ॥
8.8.17 · p. 288
अनुष्टुप्
हठे प्रसह्य मध्ये स्यादन्तरेणान्तरेऽन्तरा ।प्रादुराविः प्रकाशेऽर्वागवरे स्वयमात्मनि ॥ १८ ॥
8.8.18 · p. 288
अनुष्टुप्
उपरिष्टादुपर्यूर्ध्वे स्यादधस्तादवागधः ।तिरश्चि साच्युच्च उच्चैर्नीचैर्नीच्युच्चकैर्भृशे ॥ १९ ॥
8.8.19 · p. 288
अनुष्टुप्
प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा ।द्विधा द्वेधा त्रिधा त्रेधा चतुर्धा द्वैधमादि च ॥ २० ॥
8.8.20 · p. 288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्य (wrong syllable)