All kośas › Suśīlanāmamālā
सुशीलनाममाला Suśīlanāmamālā
3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)
अव्ययप्रकरणम्
- अव्ययप्रकरणे -
अथाऽव्ययानि वक्ष्यन्ते तत्रादौ तस्य लक्षणम् ।श्रीसिद्धहेमचन्द्रादिव्याकृतौ प्रतिपादितम् ॥ २७८१ ॥
8.2781 · p. 454
अनुष्टुप्
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ २७८२ ॥
8.2782 · p. 455
अनुष्टुप्
* अव्ययसंग्रहनामानि *
स्वः स्वर्गे भूस्तु भूलोके भुवो व्योम्नि विहायसा ।द्यावाभूम्योस्तु द्यावाभूमी स्याद्रोदसी तथा ॥ २७८३ ॥
8.2783 · p. 455
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म्यो (syllables merged)
उपरि तथोपदिष्टाद् द्वयमूर्ध्वे प्रयुज्यते ।अधोऽधस्तात् तथाऽवाक् च सन्ति त्रयोऽप्यधःस्थले ॥ २७८४ ॥
8.2784 · p. 455
metre not recognised
वर्जने त्वन्तरेणर्ते नाना विना हिरुक् पृथक् ।सहार्थे स्यात् सह सत्रा साकं सार्द्धमऽमां समम् ॥ २७८५ ॥
8.2785 · p. 455
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable); pāda 3, syllable 6 ह (wrong syllable)
अलमऽस्तु कृतं किञ्च भवतु कथ्यते पुनः ।भवान्तरे ह्यमुत्र स्यात् प्रेत्याऽपि मन्यते किल ॥ २७८६ ॥
8.2786 · p. 455
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable); pāda 4, syllable 3 पि (wrong syllable)
तूष्णीं तथैव तूष्णीकां जोषं मौने हि मन्यते ।दिष्ट्या समुपजोषं वै सम्मदे कथ्यते द्वयम् ॥ २७८७ ॥
8.2787 · p. 455
अनुष्टुप्
समन्तात् सर्वतो विष्वक् परितश्च समन्ततः ।स्यादऽग्रतः पुरस्तात् च पुरश्च पुरतः पुनः ॥ २७८८ ॥
8.2788 · p. 455
अनुष्टुप्
प्रायो भूमनि भूमन् स्यात् सम्प्रति साम्प्रतं तथा ।एतर्हि च तथेदानीं तत्काले कथ्यतेऽधुना ॥ २७८९ ॥
8.2789 · p. 455
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
अञ्जसा झटिति द्राक् स्राक् सपदि सत्वरं पुनः ।आशु मङ्क्षु तथाऽह्नाय नामाऽरं दशमं भवेत् ॥ २७९० ॥
8.2790 · p. 456
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
अनिशं सर्वदा शश्वत् सदा सना सनत् सनात् ।भूयोऽभीक्ष्णं मुहुश्चैव स्यादऽसकृत् पुनःपुनः ॥ २७९१ ॥
8.2791 · p. 456
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable); pāda 4, syllable 3 स (wrong syllable)
सायंशब्दो दिनान्ते स्याद् दिवा तु दिवसे भवेत् ।सहसैकपदेऽकस्मात् सद्य सपदि तत्क्षणे ॥ २७९२ ॥
8.2792 · p. 456
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द्य (wrong syllable)
चिरस्य चिररात्राय चिराय च चिराच्चिरम् ।चिरेण दीर्घकालार्थे कोविदैः संप्रयुज्यते ॥ २७९३ ॥
8.2793 · p. 456
अनुष्टुप्
कदाचित् जातु कर्हिचित् समयस्यानिश्चये ।रात्रौ नक्तमुषा दोषा प्रगे प्रातरहर्मुखे ॥ २७९४ ॥
8.2794 · p. 456
अनुष्टुप्metre not read in every line
तिर्यगर्थे तिरः साचि निष्फले च मुधा वृथा ।मिथ्या स्याच्च मृषाऽसत्येऽभ्यर्णे तु निकषा हिरुक् ॥ २७९५ ॥
8.2795 · p. 456
अनुष्टुप्
समयापि समीपार्थे शं सुखार्थे हि मन्यते ।सु अति किमुताऽतीव बलवत् सुष्ठु निर्भरे ॥ २७९६ ॥
8.2796 · p. 456
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
प्राक् पुरा प्रथमे स्याद्वै संवत् संवत्सरे तथा ।मिथः परस्परं प्रोक्तं निशान्ते ज्ञायतामुषा ॥ २७९७ ॥
8.2797 · p. 456
अनुष्टुप्
ईषत् किञ्चिन् मनागऽल्पे किञ्चन कथ्यते पुनः ।उताहो किमुताऽऽहो च किमुत किं वितर्कके ॥ २७९८ ॥
8.2798 · p. 456
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
इतिह संप्रदाये स्यात् हेतौ यत् तद्यतस्ततः ।येन तेनाऽपि हेत्वर्थें कथ्यते पण्डितैरिह ॥ २७९९ ॥
8.2799 · p. 457
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
सम्बोधनेऽङ्ग रे रेरेऽररेऽरे भोस्तथाऽयि च ।हे है हंहो तथाऽहो च पाट् प्याट् पुन र्निगद्यते ॥ २८०० ॥
8.2800 · p. 457
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पु (wrong syllable)
श्रौषट् वौषट् वषट् स्वाहा स्वधा देवहविर्हुतौ ।देवतार्थे तु स्वाहा स्यात् स्वधा स्यात् पितृकर्मणि ॥ २८०१ ॥
8.2801 · p. 457
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
भवेदुपांशु गुप्तार्थे शब्दोऽयमिति ज्ञायताम् ।मध्येऽन्तरन्तरेण स्यादऽन्तरा च तथाऽन्तरे ॥ २८०२ ॥
8.2802 · p. 457
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ति (wrong syllable)
प्रकाशे प्रादुराविः स्यादऽभावे त्व न नो नहि ।बलात्कारे प्रसह्य स्याद् मा तु मास्म हि वारणे ॥ २८०३ ॥
8.2803 · p. 457
अनुष्टुप्
अस्तमऽदर्शने कामं त्वकामानुमतौ भवेत् ।ओं आं तथा च परमं सम्मते संप्रयुज्यते ॥ २८०४ ॥
8.2804 · p. 457
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मऽ (wrong syllable)
कच्चिदिष्टपरिप्रश्ने कथ्यते कोविदैः किल ।अवश्यमथ नूनं च निश्चये हि निगद्यते ॥ २८०५ ॥
8.2805 · p. 457
अनुष्टुप्
बहिर्भवे बहिः स्याद्ध्यस्त्वतीतेऽह्नि श्व एष्यति ।नीचैरऽल्पे पुनः प्रोक्तं महत्युच्चैस्तु मन्यते ॥ २८०६ ॥
8.2806 · p. 457
अनुष्टुप्
अस्ति सत्त्वे तथा दुष्ठु निन्दने हि निगद्यते ।स्यान्ननुच विरोधोक्तौ पक्षान्तरे तु चेद्यदि ॥ २८०७ ॥
8.2807 · p. 458
अनुष्टुप्metre not read in every line
शनैर्मन्देऽवरे त्वर्वाक् कथ्यते कोविदैस्तथा ।रोषोक्तावुं पुनः प्रोक्तं नतौ नमश्च मन्यते ॥ २८०८ ॥
8.2808 · p. 458
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
प्राध्वं स्यादनुकूलेऽर्थे चित् चन किञ्चिदर्थकम् ।पद्यानां पूरणार्थे स्यात् तु हि च स्म ह वै सदा ॥ २८०९ ॥
8.2809 · p. 458
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
अति सु शोभने वाच्यं तुल्यार्थे च यथा तथा ।वद्वा एव एवं चापि सदृशार्थस्य ज्ञापने ॥ २८१० ॥
8.2810 · p. 458
metre not recognised
निश्चयार्थे पुनरिति एव एवं तु वा च वै ।अहो ही विस्मयार्थे स्यादूम् च प्रश्नार्थवाचकः ॥ २८११ ॥
8.2811 · p. 458
अनुष्टुप्
प्राक् शब्दो पूर्वकाले स्यान् निश्चयेऽद्धाऽसञ्जा पुनः ।अतोऽस्मात् स्यात् तत स्तस्माद् महः आरम्भवाचकः ॥ २८१२ ॥
8.2812 · p. 458
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 स (wrong syllable)
स्वयमात्मनि जानीयात् प्रशंसार्थे हि सुष्ठु इति ।श्वः कल्ये कथ्यते लोके परश्वः तत्परेऽहनि ॥ २८१३ ॥
8.2813 · p. 458
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अस्मिन् दिनेऽद्य शब्दः स्यात् पूर्वेद्युः पूर्ववासरे ।आगामिनि दिने शब्द उत्तरेद्युश्च कथ्यते ॥ २८१४ ॥
8.2814 · p. 458
अनुष्टुप्
द्वितीयदिवसे श्वः परेद्युर्मन्यते बुधैः ।गते दिनेऽपरेद्युः स्यादऽन्येद्युस्त्वन्यवासरे ॥ २८१५ ॥
8.2815 · p. 458
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्यतरेद्युशब्दः स्यादुभयोरेकवासरे ।इतरेद्युश्च शब्दोऽयं द्वितीयदिवसे भवेत् ॥ २८१६ ॥
8.2816 · p. 459
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
समानदिवसे सद्यः परेद्यवि दिनान्तरे ।उभयद्युरुभयेद्यु द्वयोस्तु दिनयोर्भवेत् ॥ २८१७ ॥
8.2817 · p. 459
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भ (wrong syllable)
एकस्मिन् समये युगपत् चैकदा पि प्रयुज्यते ।तर्हि तदा तदानीञ्च तत्काले कथयन्ति वै ॥ २८१८ ॥
8.2818 · p. 459
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 युग (syllable split); pāda 3, syllable 3 त (wrong syllable)
यदा यर्हि च यत्काले गतवर्षे परुत् भवेत् ।परुत् पूर्वे परारिः स्यादऽस्मिन् वर्षे तथैषमः ॥ २८१९ ॥
8.2819 · p. 459
अनुष्टुप्
अन्यरीत्याऽन्यथा स्यादितरथाऽपि कथ्यते ।कथं केन प्रकारेण कथ्यते कोविदैः पुनः ॥ २८२० ॥
8.2820 · p. 459
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इत्थमऽनेन रीत्या स्यात् यथा तथा प्रकारके ।द्विधा द्वेधा द्विप्रकारैः कथ्यते पण्डितैरिह ॥ २८२१ ॥
8.2821 · p. 459
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मऽ (wrong syllable); pāda 2, syllable 3 त (wrong syllable)
त्रिप्रकारैस्त्रिधा त्रेधा मन्यते विबुधैः पुनः ।चतुर्द्धा पञ्चधा द्वैधं त्रैधं चापि च ज्ञायताम् ॥ २८२२ ॥
8.2822 · p. 459
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
द्विस्त्रिश्चतुस्तु वारार्थे पञ्चकृत्वः प्रयुज्यते ।षोढेत्यादयः शब्दाः ज्ञेयाः शब्दानुशासनात् ॥ २८२३ ॥
8.2823 · p. 459
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 षो (syllables merged)
उदक् प्रत्यक् तथा प्राक् च सर्वे दिग्वाचकाः स्मृताः ।विभिन्नप्रत्ययैरेते शब्दाः सिद्ध्यन्ति ह्यव्ययाः ॥ २८२४ ॥
8.2824 · p. 459
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न्ति (wrong syllable)
c{इति-श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति-भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरि-प्रमुखानेक-प्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासन-सम्राट्-जगद्गुरु-भट्टारकाचार्यमहाराजाधिराज-श्रीमद्विजय-नेमिसूरीश्वर-सुप्रसिद्ध-पट्टालङ्कार-व्याकरणवाचस्पति-शास्त्र-विशारद-कविरत्न-साहित्यसम्राट्-साधिकसप्तलक्षश्लोक-प्रमाण-नूतन-संस्कृत-साहित्यसर्जक-परमशासन-प्रभावकाचार्य-देवेश-श्रीमद्विजयलावण्यसूरीश्वर-पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्य-श्रीमद्विजयदक्षसूरीश्वर-पट्टधरसाहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्च-प्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां षष्ठः सामान्यविभागः समाप्तः ॥ ६ ॥}
8.6 · p. 460
Latin letters: c