कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ऋतीया

ṛtīyāस्त्री · fem.

In 6 kośas: 5 synonym verses, 1 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.32
अर्तनं च ऋतीया च हृणीया च घृणार्थकाः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.75 · p. 243
उपशायो विशायश्च शयनार्थाभिधायिनौ ।आर्त्तनं च ऋतीया च घृणीया च घृणार्थके ॥ ७५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.136 · p. 89
घृणा जुगुप्सा वीज्या स्यादृतीया च हृणीयमा(?) ।ऋतिर्ह्रणीयाथ शमः शमथोपशमावपि ।तृष्णा[58a]क्षयः स्त्रियां शीतिर्विस्मयश्चित्रमद्भुतम् ॥ १३६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.61 · p. 174
विशाय उपशायश्च पर्यायशयने द्वयम् ।स्यादर्तनं हृणीया च ऋतीया च घृणार्थके ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 66 · p. 535
स्यादर्तनमृतीया च गर्हा चाथ भयं भिया ।त्रासोत्त्रासौ दरो भीतमातङ्को भीश्च साध्वसम् ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1725 · p. 208
ऋतीया च हृणीया च घृणार्थेऽप्यर्तनं त्रयम् ।स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये ॥ १७२५ ॥
अनुष्टुप्
meaningsघृणा