गर्हा
garhāस्त्री · fem.In 11 kośas: 6 synonym verses, 12 as a meaning of another word.
निन्दा गर्हा जुगुप्साऽथाऽऽक्षारणा रतगालिषु ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
अपवाद उपक्रोशो निर्वादावर्णवादपरिवादाः ।एकार्थाः कथ्यन्ते गर्हा निन्दा जुगुप्सा च ॥ १४८ ॥
आर्या
genderस्त्रीfem.
उपक्रोशोऽपवादश्च गर्हा गर्हश्च गर्हणा ।जुगुप्सनं जुगुप्सा च निन्दा कुत्सा च धिक्क्रिया ॥ ३९२ ॥
अनुष्टुप्
genderस्त्रीfem.
शोकभीत्यादिभिः शब्दविकारे काकुरीरिता ।कुत्सा निन्दा जुगुप्सा च गर्हा गर्हणनिन्दने ॥
अनुष्टुप्
genderस्त्रीfem.
स्यादर्तनमृतीया च गर्हा चाथ भयं भिया ।त्रासोत्त्रासौ दरो भीतमातङ्को भीश्च साध्वसम् ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
क्लेशायासौ जुगुप्सा तु हृणीया हृणिया घृणा ।ऋतिः कुत्साप्युपक्रोशो गर्हा दोषश्च गर्हणा ॥ १९३ ॥
अनुष्टुप्
genderस्त्रीfem.
गर्हा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अपिगर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि । Amarakośa 3.3.486
- धरणिकोश अपिअपि संभावनाप्रश्नशङ्कागर्हासमुच्चये । अपि युक्तपदार्थे च कामचारक्रियासु च ॥ Dharaṇikośa 34.12.2
- कोषकल्पतरु अपिदाक्षिण्यात्ययदोषवादनमृतिव्याप्त्यंहतिप्रक्रमे पूजाचार्यविधानशक्तिषु भवेदुद्योगत( ? )द्योगयोः । गर्हाप्रश्नसमुच्चयेष्वपि भवेत्संभावने शङ्कने वीप्सेत्थंभवसंभवेषु गदितं विद्वद्भिरभ्यव्ययम् ॥ ५ ॥ Koṣakalpataru 5.1.5
- कोषकल्पतरु यत्रचतुष्कमूर्यादि तनौ मतौ परै * तु प्रदाने च तिरस्कृतौ च । यत्र त्वमर्षानवक्लृप्तिगर्हा- श्च[246a]र्येषु चार्याः समुदाहरन्ति ॥ १७ ॥ Koṣakalpataru 5.1.17
- परमानन्दीयनाममाला अधिअधि प्रश्नेऽधिके स्वामिशङ्कागर्हास्वपि स्मृतम् । अति स्मृतौ जवेऽथान्नं भक्ते भुक्तेऽपि दृश्यते ॥ १६ ॥ Paramānandīyanāmamālā 5.1.16
- शब्दरत्नावली जातुजात्वसम्भावितार्थे च गर्हा कदाचिदर्थयोः । निद्विकल्पे निषेधे च प्रतिज्ञालङ्घनेऽपि च ॥ प्रति प्रतिनिधौ वीप्सेत्थम्भूताख्यानलक्षणे । प्रतिदाने चाभिमुख्ये स्वभावमात्रयोरपि ॥ हन्त हर्षार्त्तिवादेषु वाक्यारम्भे च सम्भ्रमे । पश्यत स्यात्प्रशंसायां विस्मयाक्षेपभाषणे ॥ बत हर्षामन्त्रणयोः खेदानुक्रोशविस्मये । स्वस्ति स्यान्मङ्गलाशसापुण्यसन्तोषणेषु च ॥ Śabdaratnāvalī 8.1.26
- शब्दरत्नावली यत्तदप्रकाशे विभागे च शक्तौ प्राधान्यबन्धयोः । भावे मोक्षे च लाभे च स्यादाबद्धोर्द्ध्वकर्मणोः (?) ॥ यद्गर्हायामधृतौ च हेतावपि निगद्यते । यदि स्यात्तु विगर्हायां विकल्पे विस्मयेपि च ॥ Śabdaratnāvalī 8.1.37
- शब्दरत्नावली अपिअप चौर्ये च निर्देशे विकृतौ च विपर्यये । विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि ॥ अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । कामचारक्रियायुक्तपदार्थे च निगद्यते ॥ उप दाक्षिण्यसामर्थ्यहीवात्मय … । अधिकार्थे समीपे च दाषाख्याननिदर्शने । आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः ॥ उपमारम्भपूजासु भवेदुद्योग इत्यपि । Śabdaratnāvalī 8.1.44
- शब्दरत्नावली कथम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नाकर क्रोशहिंसाव्यापारवैकल्यपरतन्त्रत्वपर्वसु । क्षणोऽथ क्रोश आक्रन्दे गव्यूतिद्वयगर्हयोः ॥ १८९३ ॥ Śabdaratnākara 4.1.1893
- शब्दरत्नाकर अपिअलं तु शक्तौ पर्याप्तौ भूषणे विनिवारणे । अपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये ॥ २२६० ॥ Śabdaratnākara 5.2.2260
- वैजयन्ती अपिअपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये । अथाथोऽनन्तराप्यर्थविकल्पारंभमंगले ॥ १४ ॥ Vaijayantī 8.7.14