कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दर

daraपुं · masc.

In 17 kośas: 25 synonym verses, 11 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.301 · p. 16
भयं भीर्भीतिरातङ्क आशङ्का साध्वसं दरः ।भिया च तच्चाहिभयं भूपतीनां स्वपक्षजम् ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य नरककाण्डः Abhidhānacintāmaṇi 5.1364 · p. 52
गर्तश्वभ्रावटागाधदरास्तु विवरे भुवः ॥ १३६४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.28
चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.624 · p. 71
निम्नमगाधो गर्तः श्वभ्रं शुषिरं वपा बिलं विवरम् ।अन्तरमवटुच्छिद्रं निर्व्यथनं रन्ध्ररोककुहरदराः ॥ ६२४ ॥
गीतिः
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.725 · p. 83
आतङ्को भयमाशङ्का दरस्त्रासश्च साध्वसम् ।मर्षः क्षमा तितिक्षा च क्षान्तिरुक्ता सहिष्णुता ॥ ७२५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.197 · p. 42
नाभिर्द्वयोः स्त्रियां नाभी तुन्तोदिर्दीदिडिः पुमान् ।दरोऽपि स्याच्छिरामूलं देहवृन्तार्थमित्यपि ॥ १९७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.125 · p. 357
शम्बुकोऽपि च शम्बूकः शाम्बूकः शम्बुको दरः ।शङ्खोऽर्णवभवः कम्बुरस्त्रियां पावनध्वनिः ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.3 · p. 361
स्वभ्रं दरं च वा पुंसि सुषी सुषिरुभे स्त्रियौ ।अतलं वितलं चैव सुतलं च तलातलम् ॥ ३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.102 · p. 428
दरोऽस्त्रियां साध्वसं च दार उत्त्रास इत्यपि ।त्रासातङ्कौ च भयनं क्लीबे चाथ भयानकम् ॥ १०२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.127 · p. 88
कृपानुकम्पा करुणा घृणा च दयया सह ।शूकोऽस्त्री ना न्वनुक्रोशः कारुण्यं च दरस्त्रिषु ॥ १२७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.5 · p. 302
शुषिरं सुषिरं चास्त्री पुंस्यगाधो वपा-शुषी ।द्वयोर्गर्ता दरस्त्रय्यामवटो युजि भूबिले ॥ ५ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.77 · p. 19
दभ्राणू तलिनं तुच्छं क्षुल्लकं क्षुद्रकं दरम् ।सूक्ष्मं श्लक्ष्णं पेलवं च लव-लेश-कणा नरि ॥ ७७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वतस्त्रिलिङ्गाधिकारः Koṣakalpataru 4.7.88 · p. 117
genderपुंस्त्रीक्लीm. f. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.212 · p. 31
भयं दरः साध्वसं भीराशङ्कातङ्कभीतयः ।भीषणं दारुणं रौद्रं भीष्मं प्रतिभयं तथा ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.121 · p. 226
तुषानले कुकूलोऽथ वर्षेऽब्दः पुंनपुंसकः ।दरस्त्रासे परीवादे जन्यो राहौ तमस्तथा ॥ १२१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.167 · p. 23
रौद्रे तूग्रं दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।तिरस्क्रिया तिरस्कारे लीढावज्ञावहेलनम् ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.90 · p. 28
माया तु शठता शाठ्यं वञ्चनं विप्रतारणम् ।शङ्कातङ्कौ दरस्त्रासो भीतिर्भीः साध्वसं भयम् ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.440 · p. 55
पुनश्चाऽध्यवसायोऽथ वीर्यं सोऽतिशयान्वितः ।आतङ्कस्तु भयं भीतिः भिया भीः साध्वसं दरः ॥ ४४० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि नारकविभागः Suśīlanāmamālā 6.2480 · p. 401
गर्तो वटोऽवटिः श्वभ्रं दरोऽगाधश्च खातकम् ।एतन्नामानि गर्तस्य मन्यन्ते हि महीतले ॥ २४८० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.466 · p. 33
दरस्त्रासः भयं भीतिरुत्त्रासः साध्वसं भयम् ।दरदो भीः प्रतिभयं भय पर्याय ईरितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.3 · p. 37
रन्ध्रं निर्व्यथनं श्वभ्रं च्छिद्रं रोकं दरो बिलम् ।विवरं कुहरञ्चैव शुषिरञ्च वपाशुषिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.72 · p. 224
कन्दरोऽपि दरो, दर्याः प्रस्थे प्रष्ठोऽपि सानुयुक् ।स्नुर्ना तालव्यमूर्धन्यमध्यौ पाषाणयुग्दृषत् ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि पञ्चमः काण्डः Śabdaratnākara 5.4 · p. 249
तालव्यदन्त्यः शुषिरम्, गर्ते गर्ता दरस्त्रिषु ।स्वभ्रं तालव्यदन्त्याद्यमवटोऽवटिरित्युभौ ॥ ४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.971 · p. 121
दशामूनि त्रिषूमे तु बीभत्सविकृते त्रिषु ।साध्वसं तु भयं त्रासो दरो भीर्भीतिरित्यपि ॥ ९७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 66 · p. 535
स्यादर्तनमृतीया च गर्हा चाथ भयं भिया ।त्रासोत्त्रासौ दरो भीतमातङ्को भीश्च साध्वसम् ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.348
दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.16 · p. 181
दरो भये च ग[86]र्ते च आङ्पूर्वो गौरवे स्मृतः ।दरी तु कन्दरे प्रोक्ता किञ्चिदर्थे दराव्ययम् ॥
अनुष्टुप्
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.137 · p. 476
अब्दो वर्षे दरस्त्रासे कुकूलस्तु तुषानले ।स्याज्जन्यस्तु परीवादे पर्यङ्के तल्प इत्यपि ॥ १३७ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.5 · p. 303
दरी पुनः कन्दरवाचिका स्या-दथेषदर्थे दरमव्ययं च ।क्षुरश्छिदावस्तुनि कोकिलाक्षेत्रिकण्टकेऽथ त्रितये पुरं स्यात् ॥ ५ ॥
उपेन्द्रवज्रा
meaningsईषत्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.575 · p. 92
पुंसि स्त्री तु द्रवा नद्यां त्रिर्घनप्रतियोगिनि ।दरः शङ्खे भये श्वभ्रे छिद्रमात्रे तु सज्जनः ॥ ५७५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.576 · p. 92
नृशण्डः कन्दरे तु स्त्री दरी स्वल्पार्थके पुनः ।दरोऽव्ययमिति प्राहुर्दलं तु क्ली तरुच्छदे ॥ ५७६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास दकारादयः Paramānandīyanāmamālā 5.16.239 · p. 192
दानं हस्तिमदे शुद्धौ रक्षणे च विसर्जने ।दरो गर्ते भये देवः सुरराजजिगीषुषु ॥ २३९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.14 · p. 266
तारस्त्रिषूच्चनिनादमुक्तार्कशुद्धमुक्तयोः (?) ।ऋक्षाक्षिमध्ययोर्न ना रजते च नपुंसकम् ।स्त्रियां बुद्धदेवतायां वालिदेवगुरुस्त्रियोः ।ताम्रन्तु शुल्वारुणयोर्दरोऽस्त्रीभयगर्त्तयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्न (wrong syllable); pāda 3, syllable 4 द्ध (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.15 · p. 266
दरी तु कन्दरे स्त्री तु मनागर्थे दराव्ययम् ।दस्रः खरेऽश्विनीपुत्रे दारु पिचलकाष्ठयोः ॥देवदारुणि च द्वारं निर्गमोपाययोरपि ।धरी गिरौ कूर्मराजे वसुकार्यासतूलयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 रु (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1939 · p. 236
अव्यये दरमल्पार्थे दरः शङ्खे भये बिले ।दुर्गा तु पार्वती दुर्गो राष्ट्रे दुर्गं वने पुरे ॥ १९३९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.39 · p. 233
मिथ्याज्ञायां सैन्यभेदे दलो भागे दलं छदे ।दरोऽस्त्री शंखभीगर्तेष्वल्पार्थे त्वव्ययं दरम् ॥ ३९ ॥
अनुष्टुप्

दर as a meaning in nānārtha verses