कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भय

bhayaक्ली · neut.

In 20 kośas: 28 synonym verses, 7 as a nānārtha head word, 43 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.301 · p. 16
भयं भीर्भीतिरातङ्क आशङ्का साध्वसं दरः ।भिया च तच्चाहिभयं भूपतीनां स्वपक्षजम् ॥ ३०१ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.28
चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.91 · p. 11
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.725 · p. 83
आतङ्को भयमाशङ्का दरस्त्रासश्च साध्वसम् ।मर्षः क्षमा तितिक्षा च क्षान्तिरुक्ता सहिष्णुता ॥ ७२५ ॥
अनुष्टुप्
genderक्लीneut.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात सप्तसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 7.17 · p. 200
राज्याङ्ग-धान्य-भुवन-स्वर-कुलपर्वत-नयाः समं तानाः ।भय-सप्तपर्णपर्णा गोदावर्यस्त्वमी सप्त ॥ १७ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.304 · p. 54
स्त्री ग्लानिरर्त्तिरार्त्तिः स्याद्रुग्रुजा षणपाटवम् ।भयं मान्द्यं च पुंसि स्यादामयोथ महागदः ॥ ३०४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.104 · p. 100
कारः करो नाथोद्दानं बन्धनं शुल्कमस्त्रियाम् ।घट्टादिदेये द्रव्ये स्यादथापि द्विविधं भयम् ॥ १०४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.93 · p. 427
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्सा विस्मयश्चेति स्थायिभावाः क्रमादमी ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.101 · p. 428
पुंस्यूर्जोतिशये तत्र न ना वीर्यमथ स्त्रियाम् ।भिया भीर्भीतिराशङ्का क्लीबे प्रतिभयं भयम् ॥ १०१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.103 · p. 428
भयङ्करं प्रतिभयं भयं भीष्मं भयावहम् ।भीषणं भैरवं घोरमाभीलं डमरं पुनः ॥ १०३ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.100 · p. 472
सायेन्द्रियकिशलयखेयद्रुवययोरपि ।भयद्वापरयोः क्षेत्रसत्रयोरजिरस्य च ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.128 · p. 89
आतङ्कोऽस्त्री पुमांस्त्रासो भयं साध्वसमन्तिमे ।आशङ्का-भी-भीति-भियाः[57b] स्त्रियोऽथाग्न्यादिजन्म तत् ॥ १२८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.5 · p. 107
द्रुवयं भयं त्रिसंध्यंकिसलय-शयनीय-साय-खेयानि ।********इन्द्रिय-धान्ये लवङ्गके दिव्यम् ।धर्मं दानादिकेऽध्यात्मं सीम स्यादुपशल्यके ।अनुमत्यां तथा कामं पद्मं च गजबिन्दुषु ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
एते शब्दा स्त्रियां भवन्ति । स्नायुः शरीरस्य । श्रद्धा आदरः । उल्का आकाशोत्पातः ज्वाला च । खट्वा शयनीयम् । त्रेता युगम् । ताणा सूत्ररचना । वाणा वाणी । प्राणा श्रद्धा । विश्वाणा लीला । सङ्क्रुणा नासिका । विकोणा नेत्रविक्षु[च्छु]ब्धिः ।भयबीजसिध्मपदबर्हशुक्रतक्रसुखदुःखशिखराणाम् ।विद्यान्नपुंसकत्वमसृगित्यस्य सदैव ॥ ५३ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.212 · p. 31
भयं दरः साध्वसं भीराशङ्कातङ्कभीतयः ।भीषणं दारुणं रौद्रं भीष्मं प्रतिभयं तथा ॥ २१२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.94 · p. 222
शयनीयं त्रिसन्ध्यं च सायखेयेन्द्रियाण्यपि ।भयं किशलयं सत्रकलत्रद्वापराणि च ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.167 · p. 23
रौद्रे तूग्रं दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।तिरस्क्रिया तिरस्कारे लीढावज्ञावहेलनम् ॥ १६७ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.90 · p. 28
माया तु शठता शाठ्यं वञ्चनं विप्रतारणम् ।शङ्कातङ्कौ दरस्त्रासो भीतिर्भीः साध्वसं भयम् ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.440 · p. 55
पुनश्चाऽध्यवसायोऽथ वीर्यं सोऽतिशयान्वितः ।आतङ्कस्तु भयं भीतिः भिया भीः साध्वसं दरः ॥ ४४० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.447 · p. 56
वीरे स्थायी समुत्साहो भयानके भयं भवेत् ।स्थायीभावश्च बीभत्से जुगुप्सा च घृणाथवा ॥ ४४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.466 · p. 33
दरस्त्रासः भयं भीतिरुत्त्रासः साध्वसं भयम् ।दरदो भीः प्रतिभयं भय पर्याय ईरितः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.118 · p. 186
उद्योगोऽप्यभियोगश्च वीर्यं त्वतिशयान्विते ।वीर्यापि, साध्वसे भीतिर्भीर्भिया भयमप्यथो ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.957 · p. 120
भयं च स्थायिनो भावा विभावो भावदर्शकः ।स्युः स्तम्भस्वेदरोमाञ्चाः स्वरसंभेदवेपथू ॥ ९५७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.958 · p. 120
वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः ।निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्थाव्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः ।तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादोगर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥
अनुष्टुप्two metres in one verse
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.971 · p. 121
दशामूनि त्रिषूमे तु बीभत्सविकृते त्रिषु ।साध्वसं तु भयं त्रासो दरो भीर्भीतिरित्यपि ॥ ९७१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 66 · p. 535
स्यादर्तनमृतीया च गर्हा चाथ भयं भिया ।त्रासोत्त्रासौ दरो भीतमातङ्को भीश्च साध्वसम् ॥ ६६ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.185 · p. 98
तंकोऽस्त्री भीर्भिया भीतिः साध्वसं भयनं भयम् ।विप्रतिसारेऽनुशयः पश्चात्तापोऽनुतापवत् ॥ १८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 प्र (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.93 · p. 45
लेट्यति स्याल्लोट्यति[च]धातू द्वौ धौर्त्यकर्मणि ।बिभेति भ्यसते भेषत्युद्विनक्ति च भेषते ।त्रसति त्रस्यति भ्रीणात्यपि चोद्विजते मतम् ॥ ९३ ॥
अनुष्टुप्metre not read in every line
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.84 · p. 45
खेटति केटति दर्भतिदृणाति दर्भयति तत्र च व्यथते ।श्राम्यति ताम्यति खिन्तेग्लेपत इह खिद्यते दैन्ये ॥ ८४ ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.89 · p. 54
वङ्कतिः स्याच्च चलने समो भ्राम्यतिरादरे ।संवेगे च भये व्युद्भ्यां पुनर्मोह-विलासयोः ॥ ८९ ॥
अनुष्टुप्
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.78 · p. 63
परेः कम्पि[201b]र्भये चाले कृपायामनुतः परः ।धविरुत्तः परो हर्षेऽथारोहे वडतीति च ॥ ७८ ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.4 · p. 286
भयं तु घोरे कथितं च भीतौकुब्जप्रसूनेऽथ मयस्तथोष्ट्रे ।स्याद्दैत्यतक्ष्ण्यश्वतरे लयस्तुसंश्लेषतौर्यत्रिकसाम्ययोश्च ॥ ४ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.20 · p. 259
भयं घोरे प्रतिभये कुसुमे कुब्जकस्य च ।भव्यं त्रिषु भाविनि स्याद् योग्ये च शुभसत्ययोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.318 · p. 202
वीर्य्यं प्रधानधातौ च भयं भीकुब्जपुष्पयोः ।अनधीनेऽसहाये च भुजिष्यो हस्तसूत्रके ॥ ३१८ ॥
अनुष्टुप्

भय as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् दरदरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ । Amarakośa 3.3.348
  • धरणिकोश परिकम्पप्रतापस्तेजसि स्वेदे विकल्पौ पक्षसंशयौ । आकल्पः कल्पने वेशे उडुपश्चन्द्रभेलयोः । परिकम्पो भये कम्पे वृषाकपी हरीश्वरौ ॥ Dharaṇikośa 20.1.3
  • धरणिकोश संभ्रमसंभ्रमं भ्रममिच्छन्ति भयं संवेगमादरम् । आश्रमो ब्रह्मचर्यादावाश्रमो मठ इष्यते ॥ Dharaṇikośa 24.2.17
  • धरणिकोश दरदरो भये च ग[86]र्ते च आङ्पूर्वो गौरवे स्मृतः । दरी तु कन्दरे प्रोक्ता किञ्चिदर्थे दराव्ययम् ॥ Dharaṇikośa 26.3.16
  • कोषकल्पतरु शङ्कालङ्का तु रक्षःपुरपत्तनस्त्री शाखासु शङ्का तु भये वितर्के । राका तु कच्छ्वां प्रथमार्तवायां नद्यन्तरे पूर्णविधौ तिथौ च ॥ १८ ॥ Koṣakalpataru 6.1.18
  • कोषकल्पतरु भीतप्रीतं पुनः स्याद्धृषिते च[287a]मर्म- ण्यसारहस्त्यश्वमुखेषु वीतम् । सृणीक्रियायामथ भीतमाहु- र्भये भयेनापि युतेऽन्यलिङ्गम् ॥ १४ ॥ Koṣakalpataru 6.16.14
  • कोषकल्पतरु परीकम्पस्याद्विप्रलापोऽपि विरुद्धवाके ऽपार्थोदिते ना तु वृषाकपिः स्यात् । हरे हरौ च ज्वलनेऽथ कम्पे भये परीकम्पमुशन्ति सन्तः ॥ २० ॥ Koṣakalpataru 6.22.20
  • कोषकल्पतरु रुरः पावके रागसमीरयोः स्या- च्छब्देऽथ तीक्ष्णे परवत्प्रदिष्टः । रास्तु द्वयोः स्याद्धनहेममेघे- रुः स्याद्भये रक्षणवाचकश्च ॥ ९४ ॥ Koṣakalpataru 6.27.94
  • कोषकल्पतरु त्रासत्रासो भये स्यान्मणिदोषकेऽथ हंसः परात्माच्युतभास्करेषु । निर्लोभभूपे तुरगप्रभे[दे] विहंगभेदेऽपि च योगिभेदे ॥ ८० ॥ Koṣakalpataru 6.31.80
  • नानार्थार्णवसंक्षेप अप्वाअप्वा नद्यां भये रागेऽप्यभ्वा तु व्योमतोययोः । अश्रिस्तु कोट्यां धारायामष्ठी तु स्यात् फलास्थनि ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 2.1.5
  • नानार्थार्णवसंक्षेप शङ्काशङ्का वितर्कभययोः शंसा तूक्तौ स्तुतावपि । इच्छायां चाजयः प्राह तदसत् स्मर्यते यतः ॥ १०४ ॥ Nānārthārṇavasaṃkṣepa 2.1.104
  • नानार्थार्णवसंक्षेप त्रासशेफस्यपीति शब्दज्ञास्त्रिष्वर्थेषु स्मरन्त्यमुम् । त्रासो भये मणेर्दोषे त्यागो दाने समुज्झने ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 2.2.59
  • नानार्थार्णवसंक्षेप तङ्कप्राहुर्जलाशयप्रान्ते तीरे त्वन्येऽद्रिसानुनि । तङ्कः सम्भावनायां च भयेऽप्यस्त्री ततं पुनः ॥ ५०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.504
  • नानार्थार्णवसंक्षेप दरपुंसि स्त्री तु द्रवा नद्यां त्रिर्घनप्रतियोगिनि । दरः शङ्खे भये श्वभ्रे छिद्रमात्रे तु सज्जनः ॥ ५७५ ॥ Nānārthārṇavasaṃkṣepa 2.5.575
  • नानार्थार्णवसंक्षेप दरद्न्यग्रोधीसंज्ञकस्तम्बे दरत् तु स्त्री भये हृदि । नद्यां प्रपाते चेत्येके विष्ठायामिति कश्चन ॥ ५८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.582
  • नानार्थार्णवसंक्षेप आशङ्कावाचि सम्भावनायां तु स्यादाशङ्का भयेऽपि च । आकृतिस्तु शरीरे स्यादाकारव्यक्तिजातिषु ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 3.1.8
  • नानार्थार्णवसंक्षेप उत्त्रासउत्त्रासस्तु भये सप्तदशारदरत्नेरत्निके । यूपस्य मूलादारभ्य द्वितीयेऽथ विवाहके ॥ ४८ ॥ Nānārthārṇavasaṃkṣepa 3.2.48
  • नानार्थार्णवसंक्षेप खिदिरखलीनोऽस्त्री तुरङ्गाणां मुखसंयमने त्रि तु । छिद्राकाशादिलीने स्यात् (ख?खि)दिरस्तु पुमान् भये ॥ ६२३ ॥ Nānārthārṇavasaṃkṣepa 4.623
  • नानार्थार्णवसंक्षेप वेजनभवेत् सप्तदशारत्नेर्यूपस्यारत्निके तथा । मूलात् सप्तदशे क्ली तु भये च चलनेऽपि च ॥ १७४५ ॥ Nānārthārṇavasaṃkṣepa 4.1745
  • नानार्थार्णवसंक्षेप अहिभयत(स्या?त्रा)पि स्यात् तु भूतानां स्वपक्षप्रभवे भये । भयमात्रेऽप्यहिभयमथो आयतनध्वनिः ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 6.6
  • नानार्थार्णवसंक्षेप प्रतिभयवैजयन्ती समाम्नासीद् द्यूते प्रतिभयं पुनः । भये नपुंसकं विद्यात् त्रिषु तु स्याद्भयानके ॥ ३३० ॥ Nānārthārṇavasaṃkṣepa 6.330
  • परमानन्दीयनाममाला रुरः कामवह्निशब्देषु तीव्रे रामे नरे पवौ । राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥ Paramānandīyanāmamālā 1.36
  • परमानन्दीयनाममाला डिम्बडिम्भो बाले जडेऽप्युक्तो डिम्बोऽथ डमरे भये । Paramānandīyanāmamālā 5.14.3
  • परमानन्दीयनाममाला दरदानं हस्तिमदे शुद्धौ रक्षणे च विसर्जने । दरो गर्ते भये देवः सुरराजजिगीषुषु ॥ २३९ ॥ Paramānandīyanāmamālā 5.16.239
  • शब्दरत्नावली भङ्गभङ्गा शस्यभेदे भङ्गः पराजयतरङ्गयोः । रोगभेदे भये पुंसि भङ्गिस्त्रियामनुक्रमे ॥ Śabdaratnāvalī 7.3.12
  • शब्दरत्नावली भीतभीतं भये क्लीबलिङ्गं भवेद्भीतियुते त्रिषु ॥ Śabdaratnāvalī 7.16.33
  • शब्दरत्नावली समाघातआहितेऽप्युक्तसिद्धान्ते समाधिस्थे शुचौ पुमान् । समाघातः शब्दभेदे वधे युद्धे भये पुमान् ॥ संख्यावान् पण्डिते पुंसि संख्यायुक्तेऽन्यलिङ्गकः । सुधासूतिः पुमान् यज्ञे पद्मे हिमकरेऽपि च ॥ सूर्यभक्तश्चार्कपणे बन्धुके च भवेत्पुमान् । सेनापतिः कुमारे स्यात्सैन्याधिकारिणि पुमान् ॥ हिमारातिर्वीतिहोत्रे पुमान् किरणमलिनि । हैमवती श्वेतवचास्वर्णक्षीर्यभयासु च ॥ Śabdaratnāvalī 7.16.176
  • शब्दरत्नावली सम्बाधसम्बाधः सङ्कटे योनौ भये नरकवर्त्मनि । सन्निधिर्ना सन्निधाने भवेदिन्द्रियगोचरे ॥ Śabdaratnāvalī 7.19.35
  • शब्दरत्नावली ध्वजिन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली डिम्बडिम्बो वारिप्लवप्लीहाफुस्फुसाण्डभयस्वने । दर्वी सर्पफणायान्तु खजाकायामपि स्त्रियाम् । पूर्वस्तु पूर्वजे पुंसि पूर्वं प्रागादपयोस्त्रिषु ॥ Śabdaratnāvalī 7.23.5
  • शब्दरत्नावली भीभः पुंसि भार्गवभ्रान्त्योर्भा दीप्तौ भीर्भये स्त्रियाम् ॥ Śabdaratnāvalī 7.24.1
  • शब्दरत्नावली दरतारस्त्रिषूच्चनिनादमुक्तार्कशुद्धमुक्तयोः (?) । ऋक्षाक्षिमध्ययोर्न ना रजते च नपुंसकम् । स्त्रियां बुद्धदेवतायां वालिदेवगुरुस्त्रियोः । ताम्रन्तु शुल्वारुणयोर्दरोऽस्त्रीभयगर्त्तयोः ॥ Śabdaratnāvalī 7.27.14
  • शब्दरत्नाकर त्रासधर्मेऽग्नौ नवनीते च तल्पं शयनजाययोः । रत्नदोषे भये त्रासस्तनुः स्त्री त्वक्शरीरयोः । त्रिष्वल्पे च कुशे चाथ तमो राहुस्तमः शुचि ॥ १९३३ ॥ Śabdaratnākara 4.1.1933
  • शब्दरत्नाकर दरअव्यये दरमल्पार्थे दरः शङ्खे भये बिले । दुर्गा तु पार्वती दुर्गो राष्ट्रे दुर्गं वने पुरे ॥ १९३९ ॥ Śabdaratnākara 4.1.1939
  • शब्दार्णव शङ्काशङ्का भयवितर्कयोः ॥ १८९ ॥ Śabdārṇava 189
  • शब्दार्णव उद्वेगउद्वेगः स्तिमिते क्लेशे भयेऽमन्थरगामिनि ॥ १९१ ॥ Śabdārṇava 191
  • तन्त्राभिधान एभयं ज्ञानं कृषा(शा) धीरा जङ्घा सर्वसमुद्भवः । वह्निर्विष्णुर्भगवती कुण्डली मोहिनी रसः ॥ ३६ ॥ Tantrābhidhāna 2.12.36
  • तन्त्राभिधान भीभा दीप्तिरपि भूर्भूमिर्भीर्भयं कथिता बुधैः । मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्त्तिता ॥ २७ ॥ Tantrābhidhāna 3.27
  • तन्त्राभिधान रुधने रा रीश्च रो धान्ये रुर्भये च प्रकीर्त्तितः । ल इन्द्रे लवणे लः स्याल्ला दाने श्लेषणेऽपि लीः ॥ ३० ॥ Tantrābhidhāna 3.30
  • वैजयन्ती त्रासतर्काः कांक्षावितर्कोहास्त्वष्टा तक्ष्णि द्युशिल्पिनि । मणिदोषे भये त्रासस्तिष्यः पुष्ये कलौ युगे ॥ २५ ॥ Vaijayantī 6.1.25
  • वैजयन्ती शङ्काशक्तिः कासूर्बलं लक्ष्मीः शरदावृतुवत्सरौ । शंका वितर्कभययोः श्रद्धास्तिक्याभिलाषयोः ॥ ३८ ॥ Vaijayantī 6.2.38
  • वैजयन्ती संभ्रमस्वीकारोच्छ्रायसंक्षेपाः संभ्रमोऽत्यादरे भये । संभवो जन्मसंहत्योराधारानतिरेचने ॥ ७९ ॥ Vaijayantī 7.1.79
  • वैजयन्ती प्रतिभयना त्वाम्रे दिग्गजे व्याघ्रे राजिलाहौ गजे ज्वरे । दीप्त्यां प्रद्योतनं नार्के घोरे प्रतिभयं भये ॥ १७ ॥ Vaijayantī 8.5.17