कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

घृणा

ghṛṇāस्त्री · fem.

In 16 kośas: 24 synonym verses, 7 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.304 · p. 16
जुगुप्सा तु घृणाथ स्याद्विस्मयश्चित्रमद्भुतम् ॥ ३०३ ॥चोद्याश्चर्ये शमः शान्तिः शमथोपशमावपि ।तृष्णाक्षयः स्थायिनोऽमी रसानां कारणं क्रमात् ॥ ३०४ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.369 · p. 18
महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः ।महामना महात्मा च कृपणस्तु मितंपचः ॥ ३६७ ॥कीनाशस्तद्धनक्षुद्रकदर्यदृढमुष्टयः ।किंपचानो दयालुस्तु कृपालुः करुणापरः ॥ ३६८ ॥सूरतोऽथ दया शूकः कारुण्यं करुणा घृणा ।कृपानुकम्पानुक्रोशो हिंस्रे शरारुघातुकौ ॥ ३६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.18
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा ।कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.32
अर्तनं च ऋतीया च हृणीया च घृणार्थकाः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.724 · p. 83
अनुक्रोशः कृपा शूकं दया च करुणा घृणा ।प्रतिक्षणमभीक्ष्णं च भूयः स्यादसकृन्मुहुः ॥ ७२४ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.106 · p. 75
घृणाऽनुकम्पानुक्रोशश्च कारुण्यं च प्रगीयते ।मन्दाक्षं ह्रीस्त्रपा लज्जा व्रीडा सापत्रपान्यतः ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.105 · p. 428
अनुकम्पा तु करुणा दया चापि कृपा घृणा ।स्त्रियां स्युः पुंस्यनुक्रोशः कारुण्यं न स्त्रियामथ ॥ १०५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.19 · p. 463
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.127 · p. 88
कृपानुकम्पा करुणा घृणा च दयया सह ।शूकोऽस्त्री ना न्वनुक्रोशः कारुण्यं च दरस्त्रिषु ॥ १२७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.136 · p. 89
घृणा जुगुप्सा वीज्या स्यादृतीया च हृणीयमा(?) ।ऋतिर्ह्रणीयाथ शमः शमथोपशमावपि ।तृष्णा[58a]क्षयः स्त्रियां शीतिर्विस्मयश्चित्रमद्भुतम् ॥ १३६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.49 · p. 100
शाणीन्द्राणी द्रुणी[225a]गोणी कृपाणी चूर्णिरेषणी ।तूर्णिर्वेणिः करेणूर्णा ववर्णा दक्षिणा घृणा ॥ ४९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderस्त्रीfem.
एते नपुंसकलिङ्गे भवन्ति । इदं श्वभ्रं गर्त्तः । इदं तृणं गृहच्छादनद्रव्यविशेषः । रणं युद्धम् । ऋणमुद्धारः अधमर्णश्च । एतान् शब्दान् स्त्रियां नियतं निश्चितं विद्यात् । इयं वीणा वाद्यविशेषः । तूणा इषुधिः । इयं घोणा नासिका । इयं घृणा दयाबुद्धिः । तुशब्दः पादपूरणे ।यदनान्तमकर्त्तरि तन्नपुंसके विद्ध्यनिः स्त्रियामेव ।यौ?भावेऽणापौ तौ पुंस्युक्तौ मन्युमृत्यू च ॥ २८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.35 · p. 105
दयालुः करुणासक्तः कृपालुः सूरतोऽपि सः ।कृपा दया घृणा शूकोऽनुकम्पा करुणापि च ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.49 · p. 216
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.83 · p. 27
दयानुकम्पा करुणानुक्रोशश्च कृपा घृणा ।प्रसनता प्रसत्तिश्च प्रसादोऽनुग्रहो हितम् ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.443 · p. 56
भयङ्करं तथा भीष्मं प्रतिभयं च भासुरम् ।आभीलं डमरं चैव जुगुप्सा तु घृणा खलु ॥ ४४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.447 · p. 56
वीरे स्थायी समुत्साहो भयानके भयं भवेत् ।स्थायीभावश्च बीभत्से जुगुप्सा च घृणाथवा ॥ ४४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.61 · p. 70
अथ दया घृणा शूकः कारुण्यं करुणा कृपा ।अनुक्रोशोऽनुकम्पा स्याद्
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable); pāda 4, syllable 3 श (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.61 · p. 174
विशाय उपशायश्च पर्यायशयने द्वयम् ।स्यादर्तनं हृणीया च ऋतीया च घृणार्थके ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.966 · p. 121
एवमादीनि शृङ्गारवीक्षितानि मृगीदृशाम् ।रणोत्साहोद्धतो वीरः कारुण्यं तु कृपा घृणा ॥ ९६६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 186 · p. 541
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.192 · p. 99
उग्रता तूग्रिका रौद्री करुणा तु दया कृपा ।घृणानुकंपानुक्रोशः कारुण्यं चाथ कौक्कुटे ॥ १९२ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.193 · p. 99
क्लेशायासौ जुगुप्सा तु हृणीया हृणिया घृणा ।ऋतिः कुत्साप्युपक्रोशो गर्हा दोषश्च गर्हणा ॥ १९३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.51
तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे ॥ ५१ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.800 · p. 92
प्रतिपत्प्रतिपत्तावपि शादः शष्पे घृणा जुगुप्सायाम् ।उत्तालमुन्नतेऽपि श्रेष्ठेऽपि निगद्यते सुरभिः ॥ ८०० ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास णपादः Dharaṇikośa 14.1.2 · p. 48
घृणा कृपा जुगुप्सा च तृष्णा लिप्सापिपासयोः ।कर्णौ श्रवणराधेयावुष्णौ ग्रीष्मातपौ स्मृतौ ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.12 · p. 195
वीणा विद्युद्वल्लक्योः स्या-च्छ्राणं लोहे वाच्यवत्पक्ववाचि ।स्त्रीलिङ्गे तु स्याद्यवाग्वां जुगुप्सा-नुक्रोशार्थे त्वत्र शस्ता घृणापि ॥ १२ ॥
शालिनीmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.34 · p. 12
विष्वक्सेनप्रियासंज्ञस्थावरे चाप्यथो घृणा ।जुगुप्सायां दयायां च चारिस्तु मुखसंभवे ॥ ३४ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास घकारादयः Paramānandīyanāmamālā 5.10.173 · p. 184
घृतं दीप्तौ जलेऽथाज्ये घृणा निन्दा दया स्मृता ।घटा गोष्ठ्यां गजश्रेणौ घृणिर्ज्वालांशुवीचिषु ॥ १७३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.12 · p. 221
घृणा जुगुप्साकृपयोर्घोणापि रथकर्णिका ।चिन्ताचर्चिक्ययोश्चर्चा चूर्णिर्ग्रन्थे कपर्दके ॥ १२ ॥
अनुष्टुप्

घृणा as a meaning in nānārtha verses