All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
तृतीयः काण्डः · संकीर्णाध्यायः
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे विशेष्यनिघ्नाध्यायस्त्रयोविंशः ॥
संकीर्णाध्यायः
अथाध्यायोऽत्र संकीर्णैः पदैरेवाभिधीयते ।संकीर्णे लिङ्गमुन्नेयं प्रकृतिप्रत्ययार्थतः ॥ १६९३ ॥
3.7.1693 · p. 204
अनुष्टुप्
साकल्यासङ्गयोः स्यातां पारायणपरायणे ।शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ॥ १६९४ ॥
3.7.1694 · p. 204
अनुष्टुप्
अनुप्रासोऽक्षरावृत्तिः स तु वीप्सा सकृत्कृतः ।ग्रहो ग्राहे भिदा भेदे छिदा छेदे क्षये क्षिया ॥ १६९५ ॥
3.7.1695 · p. 204
अनुष्टुप्
उपनायस्तूपनये भरो भारे भ्रमे भ्रमिः ।हसे हासः स्वने स्वानो व्यधो वेधे वरो वृतौ ॥ १६९६ ॥
3.7.1696 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
हवो हूतौ तथा गीर्णिर्गिरौ गुरणमुद्यमे ।क्षिपा क्षेपे नयो नाये रसे रासः स्नवः स्रवे ॥ १६९७ ॥
3.7.1697 · p. 204
अनुष्टुप्
स्पृष्टिः पृक्तौ विधा वृद्धौ क्लान्तिस्तु क्लमथः क्लमे ।उन्नाय उन्नये जूतिर्जव ईतिरुपप्लवे ॥ १६९८ ॥
3.7.1698 · p. 205
अनुष्टुप्
रीतिः प्रवृत्तौ वृद्धौ तु स्फातिर्ज्ञातिस्तु बान्धवे ।प्रमा तु प्रमितौ श्रायः श्रयणे मार्जने मृजा ॥ १६९९ ॥
3.7.1699 · p. 205
अनुष्टुप्
अतिशायस्त्वतिशये विशयो विचिकित्सने ।स्यादाच्छोटनमामर्दो मोटनं त्ववभञ्जनम् ॥ १७०० ॥
3.7.1700 · p. 205
अनुष्टुप्
संतोषणे हलहलो दाहचूर्णेऽवचूर्णनम् ।अवटे स्यादुपशयो मृगग्रहणनिर्मिते ॥ १७०१ ॥
3.7.1701 · p. 205
अनुष्टुप्
प्रस्तावे तु प्रसङ्गः स्यादभिषङ्गः पराभवे ।जपे जापस्त्विषिस्त्विट् स्यादागूः संवित् कृतिः क्रिया ॥ १७०२ ॥
3.7.1702 · p. 205
अनुष्टुप्
प्रीणनं तर्पणं तृप्तिर्धावनं परिशोधनम् ।सेवनं सीवनं स्यूती रक्ष्णस्त्राणे क्षुधा क्षुधि ॥ १७०३ ॥
3.7.1703 · p. 205
अनुष्टुप्
विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः ।प्रवहो वायुभेदे स्यात् प्रवाहस्तु प्रवर्तने ॥ १७०४ ॥
3.7.1704 · p. 205
अनुष्टुप्
आदीनवास्रवौ क्लेशे तेमस्तेमौ समुन्दने ।उत्कर्षश्च प्रकर्षश्च स्यातामतिशयार्थकौ ॥ १७०५ ॥
3.7.1705 · p. 205
अनुष्टुप्
प्रदाने स्पर्शनं क्षारे कर्शनं दर्शनं दृशि ।निदर्शनं तु दृष्टान्ते विचारे तु विमर्शनम् ॥ १७०६ ॥
3.7.1706 · p. 206
अनुष्टुप्
दारो विदारणे हारो हृतौ वारः कदम्बके ।प्रवासो दूरगमनं परिसर्पः परिक्रया ॥ १७०७ ॥
3.7.1707 · p. 206
अनुष्टुप्
विधुरं तु प्रविश्लेषे विनाशः स्याददर्शनम् ।प्रतिशासनमित्येतदाहूय प्रेषणं पुनः ॥ १७०८ ॥
3.7.1708 · p. 206
अनुष्टुप्
वियोगे विप्रलम्भः स्यादालम्भः प्रतिघातनम् ।उपलम्भस्त्वनुभवो विलम्भस्त्वतिसर्जनम् ॥ १७०९ ॥
3.7.1709 · p. 206
अनुष्टुप्
धृतिर्मुदि वशः कान्तौ मूलकर्म तु कार्मणम् ।वशीक्रिया संवननं विहारस्तु परिक्रमः ॥ १७१० ॥
3.7.1710 · p. 206
अनुष्टुप्
अनुहारोऽनुकरणं निर्हारोऽभ्यवकर्षणम् ।परित्राणं तु पर्याप्तिर्हस्तवारणमित्यपि ॥ १७११ ॥
3.7.1711 · p. 206
अनुष्टुप्
स्यान्निग्रहः परिभव आनुकूल्य उपग्रहः ।परिग्रहः परिकर आदानं तु प्रतिग्रहः ॥ १७१२ ॥
3.7.1712 · p. 206
अनुष्टुप्
अभिग्रहो निरोधः स्यात् प्रग्रहः प्रतिबन्धनम् ।समुच्चयः समाहारः संहारोऽपचयः समौ ॥ १७१३ ॥
3.7.1713 · p. 206
अनुष्टुप्
अभिहारोभिक्रमणमुपहारस्तु पूजनम् ।प्रत्याहार उपादानं संग्राहो मुष्टिबन्धनम् ॥ १७१४ ॥
3.7.1714 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भि (wrong syllable)
वियामो वियमो यामो यमः संयामसंयमौ ।निग्रहस्तु निकारेऽपि विग्रहः समरेऽपि च ॥ १७१५ ॥
3.7.1715 · p. 207
अनुष्टुप्
वित्तवृद्धौ कला द्वे तु वर्धनच्छेदने समे ।संक्षेपणं समसनं विकृतिर्विक्रिया समे ॥ १७१६ ॥
3.7.1716 · p. 207
अनुष्टुप्
परिणामो विकारः स्याच्छन्दोऽभिप्राय आशयः ।उपभोगस्तु निर्वेशः संनिधिः संनिकर्षणम् ॥ १७१७ ॥
3.7.1717 · p. 207
अनुष्टुप्
धोरा तु गतिचातुर्ये धारा तु जलसंततिः ।आरा प्रवयणे तारा रज्जौ कारा तु बन्धने ॥ १७१८ ॥
3.7.1718 · p. 207
अनुष्टुप्
विधूननं विधुवनं काम्यदानं प्रवारणम् ।नास्या तु नासिकारज्जुरास्या स्यादासना स्थितिः ॥ १७१९ ॥
3.7.1719 · p. 207
अनुष्टुप्
प्रतिबन्धः प्रतिष्टम्भः प्रस्तावावसरौ समौ ।विघ्नोऽन्तरायः प्रत्यूहः प्रणयस्त्वभियाचने ॥ १७२० ॥
3.7.1720 · p. 207
अनुष्टुप्
विरिब्धस्तु स्वरे क्षुब्धो मन्थे नेत्रं मथो गुणे ।अवदानं कर्म वृत्तं निर्भर्त्सनमलक्तम् ॥ १७२१ ॥
3.7.1721 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
महानिद्रा तु मरणं महातैलं तु शोणितम् ।विरतिस्त्ववसानं स्यादसतिर्मृतिलक्षणम् ॥ १७२२ ॥
3.7.1722 · p. 207
अनुष्टुप्
सूत्रं तु संग्रहोक्तौ स्यात् पोत्रं हलमुखेऽपि च ।कीर्तिः पङ्के ज्वरे जर्तिरार्तिस्तु धनुषोऽग्रके ॥ १७२३ ॥
3.7.1723 · p. 208
अनुष्टुप्
कोदण्डे तृणता ख्यातौ प्रथा पाण्डुवधूः पृथा ।श्च्योतप्रघारौ तु समाववनायस्त्वतिक्रमः ॥ १७२४ ॥
3.7.1724 · p. 208
अनुष्टुप्
ऋतीया च हृणीया च घृणार्थेऽप्यर्तनं त्रयम् ।स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये ॥ १७२५ ॥
3.7.1725 · p. 208
अनुष्टुप्
भ्रेषोऽधःपतने प्लोष ओषः स्यात् संभ्रमस्त्वरा ।यदृच्छा स्वैरताहेतुरिष्टिरिच्छा वृषा वृषे ॥ १७२६ ॥
3.7.1726 · p. 208
अनुष्टुप्
द्यूते दरोदरः संधिः श्लेषे शाणे भ्रमिर्भ्रमः ।स्फूर्च्छा तु विस्मृतौ मूर्च्छा व्याप्तिरूर्जा त्वरुंधती ॥ १७२७ ॥
3.7.1727 · p. 208
अनुष्टुप्
अथारतिश्चोपरतिर्विरतिः स्यादुपारतिः ।लवो लावश्च लवने निष्पावः पवने पवः ॥ १७२८ ॥
3.7.1728 · p. 208
अनुष्टुप्
चूलिका यूपशिरसि मालिका भवनान्तरे ।कालिका मेघसंघाते मधुव्यूहे मधूलिका ॥ १७२९ ॥
3.7.1729 · p. 208
अनुष्टुप्
कुटी गृहे वटी पाशे घटी नाड्यां पुटी पुटे ।यात्रा प्रवर्तने ध्वान्ते तमिस्रा संस्थितिर्मृतौ ॥ १७३० ॥
3.7.1730 · p. 209
अनुष्टुप्
स्यात् स्तम्बघ्नः स्तम्बघनः स्तम्बो येन निहन्यते ।हेलिरालिङ्गनेऽप्यङ्कपालिर्नाली तु मानके ॥ १७३१ ॥
3.7.1731 · p. 209
अनुष्टुप्
परिसर्या परीसार उपेक्षा प्रतिजागरः ।उपशायविशायौ द्वौ पर्यायौ शयनार्थकौ ॥ १७३२ ॥
3.7.1732 · p. 209
अनुष्टुप्
विस्तारो विग्रहो व्यासः स तु शब्दस्य विस्तरः ।इज्यायामपि दीक्षा स्यात् प्रतीक्षा प्रतिपालनम् ॥ १७३३ ॥
3.7.1733 · p. 209
अनुष्टुप्
वित्तत्यागे व्ययः स्त्री तु जागर्या जागरा द्वयोः ।स्यादाश्रय उपघ्नोऽथ डमरो डिम्बविमप्लवौ ॥ १७३४ ॥
3.7.1734 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 डम (syllable split)
स्यादुत्कारो निकारश्च धान्यस्योत्क्षेपणार्थके ।विलक्षणं तु शून्यार्थे प्रसूतिः प्रसवः स्रवः ॥ १७३५ ॥
3.7.1735 · p. 209
अनुष्टुप्
ज्यानिर्जीर्णौ क्षये हानिर्जामिस्तु कुलयोषिति ।तीर्णिस्तु तरणे चूर्णिर्ग्रन्थे चूर्णिः कपर्दके ॥ १७३६ ॥
3.7.1736 · p. 209
अनुष्टुप्
निष्ठीवस्तु द्वयोर्निष्ठीवननिष्ठेवने तथा ।निष्ठ्यूतिरथ जीवे स्याज्जीवा संधा प्रतिश्रवे ॥ १७३७ ॥
3.7.1737 · p. 210
अनुष्टुप्
संवाहनं मर्दनं स्यात् खल्या तु खलसंहतिः ।आपूपिकं शाष्कुलिकमित्याद्यं भूम्न्यचेतसाम् ॥ १७३८ ॥
3.7.1738 · p. 210
अनुष्टुप्
ग्रामता जनता गव्या धूम्या पाश्या सहायता ।माणव्यं बन्धुता च स्युर्ग्रामादीनां कदम्बके ॥ १७३९ ॥
3.7.1739 · p. 210
अनुष्टुप्
हल्या हलानां ब्राह्मण्यबाडव्ये तु द्विजन्मनाम् ।पृष्टानां पर्शुकानां च पृष्ठ्यं पार्श्वं कदम्बके ॥ १७४० ॥
3.7.1740 · p. 210
अनुष्टुप्
मानुष्यकं मनुष्याणां खलानां खलिनीति च ।क्रमात् साहस्रकारीषवार्मणाथर्वणानि तु ॥ १७४१ ॥
3.7.1741 · p. 210
अनुष्टुप्
सहस्राणां करीषाणां स्युर्वर्माथर्वणां गणे ।स्फुरणे स्यात् स्फुरस्फारौ द्वयोः पारिः सृणेर्गुणे ॥ १७४२ ॥
3.7.1742 · p. 210
अनुष्टुप्