एडगज
eḍagajaपुं · masc.In 11 kośas: 11 synonym verses.
प्रपुन्नाटस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ॥ ११५८ ॥
अनुष्टुप्
genderपुंmasc.
प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ।पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः ॥ १४७ ॥
अनुष्टुप्
genderपुंmasc.
एडगजः प्रपुनाटो दद्रुघ्नश्चक्रमर्दकः प्रोक्तः ।शतमूलिका त्वभीरुर्निदिग्धिका कण्टकारिका व्याघ्री ॥ ६१९ ॥
गीतिः
genderपुंmasc.
मत्स्याक्ष्यां लोहमारः स्यात् अगस्ते मुनिरित्यपि ।क्रपुनाटे त्वेडगर्जकूर्पो मार्जारमोहिनी ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.
व्यावर्तकश्चैडगजो झिञ्झिरीटा तु झिञ्झिरा ।पीतपुष्पा कण्टफला वृत्ताश्रयफला च सा ॥ ५३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderपुंmasc.
कलम्बिका स्थूलफला मद्यगन्धा कटंभरा ।प्रपुन्नाटः प्रपुनटः प्रपुनाडश्च मर्दकः ।दद्रुघ्नः स्यादेडगजश्चक्राह्वश्चक्रमर्दकः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
मेषाक्षो मेषकुसुमः पद्माटैडगजावपि ।मुण्ड्यां मुण्डनिका भिक्षुः श्रावणी जीवबोधनी ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
एडगजस्तथैव स्यादेलगजश्च व्याहृतौ ।नामान्येतानि कथ्यन्ते प्रपुन्नाटस्य पण्डितै ॥ २०८६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उरणाक्षस्त्वेडगजश्चक्रपद्माट इत्यपि ।स्यात् पलाण्डुः पलाण्डश्च मुकन्दकमुकुन्दकौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वे (wrong syllable)
genderपुंmasc.
उरणाक्षस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ।प्रपुन्नाडः समाने तु शार्ङ्गाष्ठाचर्मपर्णिके ॥ ६०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वे (wrong syllable)
genderपुंmasc.
प्रपुन्नाटे त्वेडगजो दद्रुघ्नश्चक्रमर्दनः ।घोषे कोशफला घण्टा घण्टाला फलिनी फली ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.