कलशि
kalaśiस्त्री · fem.In 7 kośas: 6 synonym verses, 2 as a nānārtha head word.
पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका ॥ ९२ ॥क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनिर्गुहा ।
अनुष्टुप्
genderस्त्रीfem.
कलशिः कलशी च स्याद् धारणिर्धारणी अपि ।उषणा स्यादूषणा च पिप्पली पिप्पलिर्भवेत् ॥ १२२ ॥
अनुष्टुप्
genderस्त्रीfem.
पृष्णिपर्ण्यां पृथक्पर्णी लाङ्गली क्रोष्टुपुच्छिका ।शृगालविन्ना कलशिर्घृतिला धावनी गुहा ॥ १९८ ॥
अनुष्टुप्
genderस्त्रीfem.
शस्त्री वीणावटुर्वीचिचीरीहिङ्गुतिथीनसः ।ज्योत्स्नापत्री सुरा कङ्गुवीणाकलशिनिम्नगाः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
चित्रपर्णी पृथक्पर्णी कलशिः कलशीति च ।सिंहपुच्छी क्रोष्टुपुच्छी क्रोष्टुविन्नाङ्घ्रिवल्लिका ॥
अनुष्टुप्
genderस्त्रीfem.
अलिञ्जरे तु मणिको मणिर्गर्गर्या मन्थनिः ।मन्थनी कलशी तद्वत् कलशिः, क्षुब्धके मथः ॥ ६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्या (wrong syllable)
genderस्त्रीfem.
कणिका तिलमण्डे गोधूमे तच्चूर्णके लवे ।कलशिर्भेषजस्तम्बे पृश्निपर्णीति विश्रुते ॥ १७ ॥
अनुष्टुप्
दधिप्रमथनस्थाल्यां स्यात् कृपाण्या तु कर्तरी ।इषोः पुङ्खे च कर्णान्धूः पुनरुत्क्षिप्तिकाह्वये ॥ १८ ॥
अनुष्टुप्
meaningsदधिप्रमथनस्थाली
doubtful