कङ्गु
kaṅguस्त्री · fem.In 17 kośas: 23 synonym verses, 7 as a meaning of another word.
कङ्गुस्तु कङ्गुनी क्वङ्गुः प्रियङ्गुः पीततण्डुला ॥ ११७६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा ।
अनुष्टुप्
genderस्त्रीfem.
प्रियङ्गुः कथ्यते कङ्गुरतसी स्यादुमा क्षुमा ।कलायः खण्डिको ज्ञेयः सातीनश्च मनीषिभिः ॥ ५८२ ॥
अनुष्टुप्
genderस्त्रीfem.
श्यामा कङ्गस्तु मथका यवानलजवोनलः ।जूर्णादयो देवमन्यं जोलनो बीजपुष्पिका ॥ २७१ ॥
अनुष्टुप्
genderपुंmasc.
कड्गुः कम्बुश्च शम्याकः पुष्पलस्तु गवेधुका ।धान्यराशिस्तु वनजा वरण्डस्तृणसञ्चयः ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
धान्यभेदाः कङ्गुयवाः श्यामाका वरादयः ।फलीकृतस्तण्डुलः स्याच्छम्बूकाः सूक्ष्मतद्गणाः ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क (syllables merged)
genderस्त्रीfem.
द्विविधो हस्तिश्यामोऽथ प्रियङ्गुः पीततण्डुलः ।रागी च कङ्गुः कणिशो लाञ्छनो बहुकाणिशः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ति (wrong syllable)
genderपुंmasc.
मदनाङ्गो देशदेशसम्भवो भिन्नजातिकः ।श्यामाकः कोद्रवः कङ्गुर्नीवारो मकरः कुली ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वीणाग्रीवा शिंशिपाद्याचीरी ज्योत्स्ना तिथीत्विषाम् ।अङ्गुलीकलशीकङ्गुहिङ्गपत्रीसुरानसाम् ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रियङ्गु-कङ्गु-कङ्गुन्यः क्वङ्गुः स्त्री पीततन्दुला ।शोधिका मुशटी श्वेता साथ पीता तु माधवी ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
अवटु-तिथि-शिलानामुष्णिकाहिङ्गुपत्री-शिमिपृथुकटभीनामङ्गुलीनाकुलीनाम् ।स्फिगतसिजटिलालू-ग्ना-हरिद्राबलाका-मुखजलहरिताली-कङ्गु-गोधा-विधाना[223b]म् ॥ २९ ॥
मालिनी
genderस्त्रीfem.
तिन्दुक-शल्यक-शम्बुक-शम्बूकाः शङ्कुरङ्कभिदि ।आखुः कङ्गुः शुङ्गोगौश्च*वीचिर्मरीचिलञ्चे च ॥ १९ ॥
metre not recognised
genderपुंस्त्रीm. f.
सा तु शुक्ला भूतवेशी सत्यनाम्ना बहुक्षमा ।प्रियङ्गौ प्रियकः कङ्गुः प्रियवल्ली प्रिया लता ॥ १८७ ॥
अनुष्टुप्
genderस्त्रीfem.
नीवारे तु वनव्रीहिः श्यामाकश्यामकौ समौ ।कङ्गौ तु कङ्गुनी कङ्गुः प्रियङ्गुः पीततण्डुला ॥ ३९४ ॥
अनुष्टुप्
genderस्त्रीfem.
कङ्गुक्वङ्गू कङ्गुनी च सर्षपस्तन्तुभो मतः ।कदम्बकः स च श्वेतः सिद्धार्थः कथितो बुधैः ॥ ९२ ॥
अनुष्टुप्
genderस्त्रीfem.
शस्त्री वीणावटुर्वीचिचीरीहिङ्गुतिथीनसः ।ज्योत्स्नापत्री सुरा कङ्गुवीणाकलशिनिम्नगाः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
राजीवा (राजिका ?) कृष्णिकासूरिरासुरी चाथ कोरवे ।कङ्गुः प्रियङ्गुः सारङ्गुरतस्यां तु क्षुमाप्युमा ॥ ४३३ ॥
अनुष्टुप्
genderस्त्रीfem.
व्रीहिः शालिस्तन्दुलिकः कलमः षष्ठिको गुडः ।कङ्गुः प्रियङ्गुर्नीवारो वनशालिर्मुनिप्रियः ॥ २५६ ॥
अनुष्टुप्
genderस्त्रीfem.
नीवारश्च वनव्रीहिः स्यातां श्यामाकश्यामकौ ।कङ्गुश्च कङ्गुनी क्वङ्गुः कङ्गूश्च पीततण्डुला ॥ २१२१ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable); pāda 4, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
कङ्गुः प्रियङ्गुः कङ्गूश्च कुङ्गुः कुङ्गूश्च कङ्गुनी ।निःस्नेहा चण्डिका चण्डी अतसिस्त्वतसीत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
कङ्गर्गवेधुरासन्दी मोचिः सूचिर्गलन्तिका ।गण्डूषा फर्फरी पारी वालद्याद्या(?) लनीवशा ॥
अनुष्टुप्
genderस्त्रीfem.
जघन्यव्रीहौ श्यामाकः श्यामकः पीततण्डुली ।कङ्गु-क्वङ्गू कङ्गुनी च कङ्कुश्च कोरदूषके ॥ २५६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 हौ (wrong syllable); pāda 4, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
यवको यववर्णी स्याच्छ्यामाकश्यामकौ समौ ।चिक्कणस्त्वतसीकङ्गुप्रियङ्गूमाक्षुमाः समाः ॥ १४१९ ॥
अनुष्टुप्
genderस्त्रीfem.
कङ्गु as a meaning in nānārtha verses
- धरणिकोश प्रियङ्गुमृदङ्गो घोषके वाद्ये प्रियङ्गुः कङ्गुवृक्षयोः । भुजंगौ षिङ्गभुजगौ मातंगौ श्वपचद्विपौ ॥ Dharaṇikośa 3.1.4
- कोषकल्पतरु प्रियङ्गुप्रियङ्गुरुक्ता फलिनी कणा च कङ्गुस्तथा रक्तकसर्षपेऽपि । नीलङ्गुरुक्तः कृमिभम्भराल्यो- रश्वे तु चित्ते तुरगस्तुरंगः ॥ २६ ॥ Koṣakalpataru 6.3.26
- कोषकल्पतरु कटुस्याच्चाटावुदरे चटुर्निगदितो व्रत्यासनेऽथो कटु- र्दुर्गन्धे च रसे पुमान्सरिषपे स्त्री रोहिणीकङ्गुषु ॥ Koṣakalpataru 6.10.9
- कोषकल्पतरु नादेयीनादेयी नारङ्गे भूजम्ब्वां स्याज्जपायां च । जलवेतसे च कङ्गौ नदीभवे वाच्यलिङ्गा स्यात् ॥ ८६ ॥ Koṣakalpataru 6.26.86
- कोषकल्पतरु रसतिक्तादिके बोलकपारदे च द्रवेषु शृङ्गारमुखेषु वीर्ये । स्त्री सल्लकीकङ्गुमहीवृकीषु जिह्वासु रास्नास्वपि कीर्तितोऽयम् ॥ Koṣakalpataru 6.31.3
- शिवकोष प्रियङ्गुपतङ्गः शालिभेदेऽर्के क्लीबं पत्तूरसूतयोः । प्रियङ्गुः पिप्पलीकङ्गुराजिकाफलिनीषु च ॥ ९२ ॥ Śivakoṣa 3.2.92
- शब्दरत्नावली रसातिक्तादौ च गुणे पुंसि द्रवे क्लीबन्तु कुत्रचित् । रसा स्त्री रसना पाठाशल्लकीभूमिकङ्गुषु ॥ Śabdaratnāvalī 7.32.9