मणि
maṇiपुं · masc.In 24 kośas: 49 synonym verses, 12 as a nānārtha head word, 33 as a meaning of another word.
प्रगण्डः कूर्परांसान्तः पञ्चशाखः शयः शमः ।हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
पूतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतिर्बुलिः ।भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके ॥ ६०९ ॥स्त्रीचिह्नमथ पुंश्चिह्नं मेहनं शेपशेपसी ।शिश्नं मेढ्रः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० ॥गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः ।
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
genderपुंस्त्रीm. f.
स्फटिकः सूर्यकान्तः स्यादर्काश्मा दहनोपलः ।रत्नं वसु मणिः सर्वं सर्वं लोहं च तैजसम् ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
दरी गुहा नितम्बश्च कन्दरः कटकोऽपि च ।पाषाण उपलोऽश्मा च प्रस्तरश्च शिला मणिः ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
शातकौम्भं शातकुम्भं भर्मं भर्म मणिर्मणी ।लोहो लौहोऽभ्रकं चाभ्रं समौ पारदपारतौ ॥ २४५ ॥
अनुष्टुप्
genderपुंmasc.
वर्षो वृष्टिर्वर्षणं च घनाघनमणिर्मणिः ।वाटिका वटिकश्च स्यात्करकः पुञ्जिकापि च ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
कूर्परं तदधः पुंसि प्रगण्डस्तदधः पुमान् ।मणिबन्धो मणिश्चास्त्री तदधस्तु प्रकोष्ठकः ॥ १७१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्यादङ्कुशो मणिरथ लिङ्गं लाङ्गलमस्त्रियाम् ।शेवशेपौ ध्वजोपस्थौ भगमेढ्रौ च मेहनः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
तुम्बा निलिम्पा क्लीबे स्यान्निपानमपि वा स्त्रियाम् ।अलिञ्जरो मणिश्चापि न द्वयोः स्यादुदञ्चनम् ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
मषीषुधृत्यहिजटिजाटलीनां सृणेरपि ।मरीच्यशनिमौलीनां हलीकेल्योर्मणेरपि ॥ १२३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
द्वयोर्मणि[18a]श्चारुशिला रत्नं वसु तु न द्वयोः ।सम्यकस्त्वाकरे शुद्धो मण्यादिर्भेद्यलिङ्गकः ।हीरकः शिखरी पुंसि दधीच्यस्थि वरारकम् ॥ ७१ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
स्मरध्वजो मेढ्रमस्त्री मणिस्त्वस्याग्रमुच्यते ।सावनी तदधःसूत्रं योनिस्तु न नपुंसके ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
करः कुलिः पालन-पञ्चशाख-भुजादलाः पाणि-शयौ शमश्च ।हस्तोऽस्त्रियामस्य पुनर्मणिः स्या-दादिस्तथासौ मणिबन्ध उक्तः ॥ ८० ॥
उपजातिः
genderपुंmasc.
न्यग्रोधकश्च व्यायामस्त्रिषु मानार्थका अमी ।कण्ठो गलो निगरणः क्रोडाग्रो धमनी धरः ।नालोऽथ तदधोवर्ती मणिः काकलको मतः ॥ २०० ॥
अनुष्टुप्
genderपुंmasc.
मणिः स्यात्तरलो मध्यनायकोऽथ सरोलता ।सरिका यष्टिका देवच्छन्दस्तु शतयष्टिकः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
चक्रधारा तु नेमिः स्त्री प्रधिर्द्वंद्वेऽथ पिण्डिका ।* * * * * नाभिर्ना मणिराणिरणिर्द्वयोः ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
ऋष्टिर्यष्टिर्भुष्टि-र्गुडश्च शुण्डो गणे पिण्डः ।अरणिस्तथाणिराणि-र्दरणिः श्रोणिर्मणिः श्रेणिः [230b] ॥ २२ ॥
metre not recognised
genderपुंस्त्रीm. f.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
अङ्गिरस्पुंचन्द्रमस्पुंस्थूलशिरस्पुंपुरूरवस्पुंउच्चैःश्रवस्पुंदुर्वासस्पुंपृथुयशस्पुंसुमनस्स्त्रीअप्सरस्स्त्रीओजस्क्लीतेजस्क्लीवर्चस्क्लीशिरस्क्लीयशस्क्लीछन्दस्क्लीस्रोतस्क्लीचेतस्क्लीपयस्क्लीतपस्क्लीअम्भस्क्लीजरस्स्त्रीजरास्त्रीक्षुरपुंखुरपुंबिन्दुपुंइक्षुपुंपायुपुंमणिपुंकीलपुंकेलिपुंबलिपुंनिघपुंसङ्घपुंउद्घपुंउपघ्नपुंओघपुंविघ्नपुंघर्मपुंअर्घपुंवर्णपुं
genderपुंmasc.
एते शब्दाः[ब्दा] पुंसि भवन्ति । तद्यथा । अयं क्षुरः नापितोपकरणः । अयं खुरः पशुपादः । अयं बिन्दुः विसर्जनीयावयवः । अन्यच्च । अयमिक्षु सस्यजातिः । अयं पायुः अपानम् । अयं मणिः रत्नम् । कीलः शङ्कुः प्रहरणविशेषः । अयं केलिः हासः ॥। अयं के[क]लिः कलहः । अयं बलिर्दैत्यः राजगृह्यदेवतोपहारौ च ।
metre not recogniseddoubled daṇḍa: ॥।
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंस्त्रीm. f.
एते शब्दाः पुंसि स्त्रियां भवन्ति । अयं पाटलिः इयं पाटलिः वृक्षविशेषः । अयं गौः इयं गौः । अयं मुष्टिरियं मुष्टिः । अयमशनिरियमशनिः । अयं बाहुरियं बाहुः । अयं सिन्धुरियं सिन्धुः । अयं मणिरियं मणिः । एते शब्दाः स्त्रियां भवन्ति । इयमाशी इष्टाशं[सं]सा । इयं धूः भारः कीलश्च । इयं पूः पुरी । इयं क्षुद्बुभुक्षा । इयं तृट् पिपासा । इयं गीर्वाणी । इयं मुत् हर्षः । इयं रुट् रोषः ।
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
चतुष्पथादीनां नपुंसकत्वं विद्धि जानीहि । इदं चतुष्पथम् । युगलं युग्मम् । छलं व्याजः । चेलं वस्त्रजातिः । खोलं भग्नभाण्ड[ड]म् । धिष्ण्यं गृहम् । अर्गलं द्वारपिधानम् । शफं खुरः । पण्यं विक्रेतव्यम् । पिच्छं मयूरस्य । पलं चतुःपलिपरिमाणम् ।रयमण्डपनरककपालगुडमणिमेढ्रदर्दुरकुसूलाः ।युग्माकाशव्रतशृङ्गवर्जिताः मञ्चः सदा पुंसि ॥ ६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चे (wrong syllable)
genderपुंmasc.
मन्दप्रियं च कठिनमयस्कान्ते त्वयोमणिः ।रत्नं तु रत्नसामान्ये मणिर्माणिक्यमेव च ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
नन्दकोऽसिर्गदा कौमोदकी कौपोदकी च सा ।शार्ङ्ग धनुर्मणिः स्यमन्तको हस्तेऽथ कौस्तुभः ॥ १६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वसुरत्ने मणिर्भेदा इन्द्रनीलादयो मताः ।वालवायजवैडूर्ये गारुत्मतहरिन्मणी ॥ ३३९ ॥
अनुष्टुप्
genderपुंmasc.
करः पाणिः शयो हस्तपञ्चशाखावपीरितौ ।मणिबन्धो मणिः प्रोक्तः करभस्त्वाकनिष्ठकम् ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
लव्यवीची शलिर्यष्टिमुष्टी शाल्मलिपाटली ।जाटलिर्मेथिमेधी च श्रोण्यरण्यौ सृणिर्मणिः ॥ ११४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
जगद्योनिर्जगच्चक्षुः कुण्डली तरणिर्मणिः ।प्रद्योतनस्त्रयीमूर्तिर्वरुणः पृष्टिवान् खगः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
रत्नं मणिर्ललामाख्यो हीरको वज्रनामकः ।नीलं गारुत्मतं पद्मरागं शोणललामकम् ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
पाषाणः प्रस्तरः कल्यः शिला ग्रावा कुडुङ्गकः ।मणिर्मृज्जोटङ्कभीरुरग्निगर्भ इतीरितः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
रत्नं मणौ चाकचक्यं चञ्चत्कः परिकीर्तितः ।मौक्तिकं शौक्तिकेयं स्याच्छुक्तिसम्भवमौक्तिके ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
रत्नं वसु मणिस्तस्य भेदा मरकतादयः ।वैडूर्यवज्रमाणिक्यनीलमौक्तिकविद्रुमाः ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
करस्यादौ मणिबन्धो मणिश्च कथ्यते पुनः ।हस्तस्य मणिबन्धादाकनिष्ठं करभो भवेत् ॥ ९५२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गुह्यस्य मध्यभागोऽपि गुह्यमध्यं गुलो मणिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderपुंmasc.
वसु रत्नं मणिश्चैव माणिक्यमपि मन्यते ॥ १८४० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आलिञ्जरालिञ्जरौ च मणिकञ्च मणिर्मणी ।गोलनन्दा च गोला च नन्दा च नन्दिकेत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
genderपुंmasc.
अश्मजातौ च मुक्तादौ क्लीबे रत्नं मणिर्द्वयोः ।सुवर्णं काञ्चनं हेम हिरण्यं स्वर्णहाटकम् ।गाङ्गेयं कनकं भर्म शातकुम्भञ्च कर्वुरम् ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
मणिः स्यात्करशाखायामङ्गुरी चाङ्गुरिस्तथा ।अङ्गुलोऽङ्गुलिरङ्गुल्यां तर्जन्यां तु प्रदेशिनी ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
अलिञ्जरे तु मणिको मणिर्गर्गर्या मन्थनिः ।मन्थनी कलशी तद्वत् कलशिः, क्षुब्धके मथः ॥ ६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्या (wrong syllable)
genderपुंmasc.
बोले गोपरसो गोपो रसो गन्धरसान्वितः ।रत्ने मणिश्च माणिक्यं वैडूर्यं वालवायजे ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
शुक्तिरिक्षुश्च मुक्तानां नवैते जन्मभूमयः ।वज्राद्यश्मसु मुक्तादावपि रत्नं मणिर्द्वयोः ॥ १५० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
स्त्रीपुंसमुच्यते लिङ्गे शारिः श्रे[णिः] सृणिर्मणिः ।दशाटोटः पटो वाटो वटः पेठो मठः पटः ॥ २३२५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
पशुश्चरिः शुद्धजङ्घो रत्नं चारुशिला मणिः ।स्वाध्यायी पत्तनवणिग्धोटाबुक्कोश्वविक्रयी ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्त्रीपुंसयोः केलिर्मणिर्योनिर्मसिर्मुनिः ।मरीचिः शाल्मलिः स्वातिः श्रेणिर्मुष्टिस्तिथिः सृणिः ॥ १५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
धूर्तमण्डूरसिंहाणविष्ठाख्यानि त्वयोमले ।लोहं तु तैजसं सर्वं वसु रत्नं मणिर्न षण् ॥ ३६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
उक्तद्वयमुपस्थोऽस्त्री गुह्यप्रजनने नपुम् ।सीवन्यस्मादधः सूत्रं गुह्यमध्यं गुडो मणिः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
मणिबन्धो मणिः पाणिमूले पाणौ करः शयः ।पंचशाखस्तलो हस्तस्तर्जनी तु प्रदेशिनी ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
मणिं चालिञ्जरं विद्यान्मेहनावयवो मणिः ।रत्नं मणिरजानां च कण्ठदेशस्तने मणिः ॥
अनुष्टुप्
वेणिः[280a]केशनिबन्धने च सरितोः स्यात्संगमे च स्त्रियां ।जीमूताभिधभेषजे मणिरजाकण्ठस्तने गोलके ।रत्ने मेहनकाग्रके च युगुलेऽणिस्त्वाणिरक्षाग्रकेकीलेऽश्राववधौ द्वयोरथ कुणिस्तुन्नद्रुमे कोकिले ॥ १५ ॥
शार्दूलविक्रीडितम्metre not read in every line
अजादिकण्ठप्रभवे स्तनाकारे च वस्तुनि ।काष्ठलोहादिनिष्पाद्यगुलिकायामथाजयः ॥ ९५० ॥
अनुष्टुप्
doubtful
गोलमात्रे परे त्वेनं गुह्यमध्यगुले विदुः ।मेहनावयवे त्वन्ये शेफाग्रं स च मन्यताम् ॥ ९५१ ॥
अनुष्टुप्
doubtful
कश्चित् प्रायुङ्क्त घण्टायां धातौ तु मणतौ पुमान् ।मल्लिस्तु मत्स्यभेदे स्त्री स्यात् कपालकरङ्कयोः ॥ ९५२ ॥
अनुष्टुप्
meaningsघण्टा
कण्ठदेशस्तनेऽजानां योनिलिङ्गाग्रभागयोः ।मोणः शुष्कफले सर्गे कुम्भीरे मक्षिकास्वपि ॥
अनुष्टुप्
doubtful
अजागलस्तने चापि मसृणौ मृद्वकर्कशौ ।निश्मश्रपुरुषोद्दंशौ मत्कुणावथ रोहिणी ॥ १३६ ॥
अनुष्टुप्
meaningsअजागलस्तन
doubtful
अक्ली मणिरजाकण्ठस्तने रत्नेऽप्यलिंजरे ।मात्रा परिच्छदेऽर्थेंशें प्रवृत्तौ कर्णभूषणे ॥ ६२ ॥
अनुष्टुप्
मणि as a meaning in nānārtha verses
- धरणिकोश शस्यककोरकः कलिकायां स्यात्कक्कोलं कोरकं स्मृतम् । शस्यकः स्यान्मणौ खड्गे नारिकेलस्य चान्तरे ॥ Dharaṇikośa 1.2.28
- धरणिकोश रत्नपानं स्याद्रक्षणं पीतिश्छन्नं स्याच्छादितं रहः । रत्नं मणावुत्कृष्टे च चिह्नं लक्ष्मपताकयोः ॥ Dharaṇikośa 19.1.2
- धरणिकोश प्रस्तरप्रस्तरौ मणिपाषाणौ संस्तरौ प्रस्तराध्वरौ । अण्डीरौ शक्तपुरुषौ प्रवीरौ सुभटोत्तमौ ॥ Dharaṇikośa 26.1.12
- कोषकल्पतरु रत्नसुप्तस्य विज्ञान उदीरितोऽथ श्रेष्ठे मणावप्युदितं च रत्नम् । द्रव्ये तु रस्नं चषके मचण्डे धेनोऽम्बुधौ वाक्सरितोः स्त्रियां स्यात् ॥ ९२ ॥ Koṣakalpataru 6.21.92
- कोषकल्पतरु संस्तरतथा प्रपञ्चे प्रणयेऽप्यथ स्या- न्ना संस्तरोऽपि प्रसरे मणौ च । मखे शिलायामपि दर्भमुष्टौ स्यात्प्रस्तरोऽथो टगरः प्रदिष्टः ॥ ९९ ॥ Koṣakalpataru 6.27.99
- कोषकल्पतरु महानीलकिंपाकवृक्षे प्रमथान्तरेऽथ मणौ महानील इहा[75a]हिभेदे । स्याद्भृङ्गराजेऽथ जलाञ्चलं स्या- च्छैवालके स्रोतसि तद्वदेव ॥ ७६ ॥ Koṣakalpataru 6.28.76
- नानार्थार्णवसंक्षेप रत्नरत्नं स्वजातिश्रेष्ठे च माणिक्यादिमणावपि । समाम्नाये समाम्नासीद्धने च सलिलेऽपि च ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 2.3.49
- नानार्थार्णवसंक्षेप वसुप्रशस्तेऽथाजयः प्राह स्वादौ च द्वे तु मानुषे । स आह शण्डलङ्गं तु सलिले द्रविणे मणौ ॥ १२०५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1205
- नानार्थार्णवसंक्षेप प्रस्तरवैजयन्तीसमुद्दिष्टो धन्विना लस्तकग्रहे । प्रस्तरो मणिपाषाणकुशेषु कथितो बुधैः ॥ १२९ ॥ Nānārthārṇavasaṃkṣepa 3.2.129
- नानार्थार्णवसंक्षेप उपलउपलस्तु पुमान् मेघे पाषाणे पुंन्नपुंसकम् । मणौ च शर्करायां तु दृषत्पुत्रेऽपि च स्त्रियाम् ॥ २४० ॥ Nānārthārṇavasaṃkṣepa 4.240
- नानार्थार्णवसंक्षेप कञ्जारकञ्जारो ना गृहे गूढे मणौ कश्चिदथ त्रिषु । अशोभनेऽथ कवटं क्लीबमुच्छिष्टमिः सयोः ॥ ३६१ ॥ Nānārthārṇavasaṃkṣepa 4.361
- नानार्थार्णवसंक्षेप चञ्चत्कखञ्जरीटखगे तु द्वे चञ्चत्कस्तु पुमान् मणौ । अतीव भास्वरे तु द्वे खद्योते दर्दरेऽपि च ॥ ७०९ ॥ Nānārthārṇavasaṃkṣepa 4.709
- नानार्थार्णवसंक्षेप नायकनायकस्त्रि प्रभौ ना तु हारमध्यगते मणौ । क्लीबं त्वासनभेदे स्यान्नाकुलं तस्य लक्षणम् ॥ १०११ ॥ Nānārthārṇavasaṃkṣepa 4.1011
- नानार्थार्णवसंक्षेप बृहत्कबृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते । इत्येवमथ नब्लिङ्गं बृञ्चूकं स्याज्जले द्वयोः ॥ १२६३ ॥ Nānārthārṇavasaṃkṣepa 4.1263
- नानार्थार्णवसंक्षेप सरकसरकोऽस्त्री मणौ शीथुपाने चषकशीथुनोः । भेद्यवत् तु भवेत् साधु सर्तर्यथ सगोत्रवाक् ॥ १८९९ ॥ Nānārthārṇavasaṃkṣepa 4.1899
- परमानन्दीयनाममाला काचकाचो वृक्षे मणौ शिक्ये मृत्तिकानेत्ररोगयोः । कम्बुः शङ्खे कपर्दे च कर्चूरे नलके गजे ॥ ८७ ॥ Paramānandīyanāmamālā 5.7.87
- परमानन्दीयनाममाला चन्द्रकान्तचन्द्रकान्तो मणौ चन्द्रकान्तं कैरववाचकम् । चीर्णपर्णः पिचुमन्दे खर्जूरेऽथ चतुष्पथम् ॥ १८६ ॥ Paramānandīyanāmamālā 5.11.186
- शब्दरत्नावली काचबन्धनेऽपि च शोभायां करिण्याञ्च कचा स्त्रियाम् । काचो मनौ च शिक्ये च नेत्ररुग्मृत्तिकाभिदोः ॥ काञ्चीनगरभेदे च स्त्री कटिमेखलासु च । कूर्चमस्त्री भ्रुवोरन्तः कठिन श्मश्ककैतवे ॥ Śabdaratnāvalī 7.6.3
- शब्दरत्नावली रत्नरत्नं श्रेष्ठे मनोज्ञे च मणावपि नपुंसकम् । रास्ना स्त्रियां भुजङ्गाक्ष्यामेलापर्ण्यौषधावपि ॥ Śabdaratnāvalī 7.20.16
- शब्दरत्नावली पीतसारीपीतसारी मलयजे मणिगोमेदयोरपि । बलभद्रो बले स्त्री तु कुमारी क्रयमानयोः ॥ Śabdaratnāvalī 7.27.139
- शब्दरत्नावली महानीलभद्रकाली च गन्धोल्यां कात्यायन्यामपि स्त्रियाम् । महाकालो महादेवे किम्पाके प्रथमान्तरे ॥ भवेन्मदकलो पचगजेऽव्यक्तप्रलापिनि । महाबलो बृहद्वीर्ये सीसकेऽपि च न द्वयोः ॥ महानीलो भृङ्गराजे मणिनागविशेषयोः । मणिमाला स्त्रियां हारे लक्ष्म्यां दन्तक्षतान्तरे ॥ मुक्ताफलञ्च कर्पूरे मौक्तिके लवलीफले । भवेद्यवफलो मांसकूटजप्लक्षवेणुषु ॥ रजस्वला पुष्पवत्यां महिषे तु रजस्वलः ॥ Śabdaratnāvalī 7.28.112
- शब्दरत्नाकर उपलउदर्क उत्तरे काले स्यादुत्तरफलेऽपि च । उपला स्त्री दृषत्पुत्रे मणिपाषाणयोः पुमान् ॥ २०५५ ॥ Śabdaratnākara 4.1.2055
- शब्दरत्नाकर रुचकनक्षत्रे कटुरोहिण्यां कन्यायां गवि रोहिणी । रुचको मातुलुङ्गे स्याद्भूषणे रदने मणौ ॥ २१५६ ॥ Śabdaratnākara 4.1.2156
- शब्दरत्नाकर लोचकप्रभावे पौरुषेऽङ्केऽथ ललनं केलिशोभयोः । नीलिन्यां मांसपिण्डे च मणिभ्रुवि च लोचकः ॥ २१५९ ॥ Śabdaratnākara 4.1.2159
- शब्दरत्नाकर सरकामृद्भेदे शकले खण्डे शर्करायामथ स्त्रियाम् । शीधुपाने मणौ शीधौ सरघा(को?) मद्यभाजने ॥ २१७८ ॥ Śabdaratnākara 4.1.2178
- शब्दार्णव गुटिकापिण्डे मणौ महारत्ने गुटिका बद्धपारदे ॥ १८८ ॥ Śabdārṇava 188
- त्रिकाण्डशेष गोलकनीचेऽपि क्षुल्लको मूर्धत्राणौ नाकौ च खोलकः । चौरोन्दुरू च खनकौ गोलकौ मणिजारजौ ॥ १७ ॥ Trikāṇḍaśeṣa 3.3.17
- त्रिकाण्डशेष सस्यकशिलाटको विलेपेऽट्टे शुल्को यौतकदानयोः । श्वाविध्वृक्षौ च शल्लक्यौ मणौ खड्गे च सस्यकः ॥ ४६ ॥ Trikāṇḍaśeṣa 3.3.46
- वैजयन्ती रत्नमूलं वशीकृतौ स्वीये शिफातारान्तिकादिषु । गमने वाहने यानं रत्नं श्रेष्ठे मणावपि ॥ २६ ॥ Vaijayantī 6.3.26
- वैजयन्ती वसुवसुर्ह्रर्देऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ । विश्वं जगति सर्वस्मिंस्त्रिषु शुण्ठ्यां पुनर्न ना ॥ ७८ ॥ Vaijayantī 6.5.78
- वैजयन्ती प्रस्तरप्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु । विज्ञाने शपथे शब्दे प्रस्तरोऽश्मा मणिः कुशः ॥ ५१ ॥ Vaijayantī 7.1.51
- वैजयन्ती सरकमणौ शीधौ शीधुपाने सरकं मद्यभाजने । सामर्थ्ये शक्तिसंबन्धौ हृदयं तु मनस्यपि ॥ ३८ ॥ Vaijayantī 7.3.38
- वैजयन्ती उपलकोट्टारे कृपणे जीर्णे स्थानेऽभिप्राय आशयः । शर्करायां दृषत्पुत्रे स्त्र्यस्त्र्यश्मन्युपलो मणौ ॥ १७ ॥ Vaijayantī 7.5.17