कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निम्नगा

nimnagāस्त्री · fem.

In 20 kośas: 19 synonym verses, 1 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1080 · p. 42
नदी हिरण्यवर्णा स्याद्रोधोवक्रा तरङ्गिणी ॥ १०७९ ॥सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतस्विनी निम्नगास्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी ।कर्बुर्द्वीपवती समुद्रदयिताधुन्यौ स्रवन्तीसर-स्वत्यौ पर्वतजापगा जलधिगा कुल्या च जम्बालिनी ॥ १०८० ॥
अनुष्टुप्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 9 च (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.46
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ।स्यादालवालमावालमावापोऽथ नदी सरित् ॥ २९ ॥तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ।स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ ३० ॥कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.665 · p. 76
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.169 · p. 81
नदी द्वीपवती शुक्तिमती वेगवतीति च ।शैवालिनी शैवलिनी वेणिनी निम्नगाऽऽपगा ॥ १६९ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.98 · p. 16
तरङ्गिगी शैवलिनी तटिनी ह्रादिनी धुनी ।वाहिनी निम्नगा वाही निम्नोन्नवविचक्षणा ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.31 · p. 347
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.53 · p. 104
सिन्धुः स्त्री ह्रदिनी धुनी च तटिनी जम्बालिनी वाहिनीकर्षूर्निर्झरिणी समुद्रगृहिणी शैवालिनी वार्वहा ।स्रो[67a]तस्वत्यपगा नदी जलधिगा स्यान्निम्नगाप्यापगाकुल्या द्वीपवती सरिद्गिरिभवा धेना च कूलंकषा ॥ ५३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 24 · p. 12
स्रोतस्विनी धुनी सिन्धुः स्रवन्ती निम्नगाऽपगा ।नदी नदो द्विरेफश्च सरिन्नामा तरङ्गिणी ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.359 · p. 49
वहा च ह्रदिनी सिन्धु[र्निम्न]गा सागराङ्गना ।हिरण्यवर्णा सा प्रोक्ता सरस्वत्यपि कथ्यते ॥ ३५९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.32 · p. 215
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.70 · p. 132
स्रोतस्वती द्वीपवती निम्नगा चापगापगा ।कूलंकषा प्रवाही च झरिणी च सरस्वती ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.283 · p. 20
महाकल्लोल उल्लोलो जलावर्त्तोऽम्बुसम्भ्रमः ।नदी धुनी द्वीपवती निम्नगा तटिनी सरित् ॥ २८३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.5 · p. 40
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.114 · p. 13
नदी तरङ्गिणी सिन्धुस्तटिनी निम्नगा धुनी ।श्रो[स्रो]तस्विनी शैवलिनी स्रवन्ती ह्रदिनी सरित् ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1882 · p. 307
शैवलिनी स्रवन्ती च समुद्रदयिता सरित् ।जलधिगाऽऽपगा कुल्या कूलङ्कषा च निम्नगा ॥ १८८२ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.109 · p. 43
स्याद्द्रवन्ती स्रवन्ती च तटिनी निम्नगापगा ।रोधोवक्रा शैवलिनी ऋषिकुल्यावहा धुनिः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.343 · p. 46
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.22 · p. 155
नदी स्रोतस्विनी कुल्या स्रवन्ती निम्नगा सरित् ।हिरण्यवर्णा गिरिजा रोधोवक्त्रा पयस्विनी ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1025 · p. 137
वृक्षजाताविति त्वन्य आकाशे तु नपुंसकम् ।निम्नगा तु स्त्रियां नद्यां त्रि तु निम्नस्य गन्तरि ॥ १०२५ ॥
अनुष्टुप्
meaningsनदी

निम्नगा as a meaning in nānārtha verses