हिङ्गु
hiṅguक्ली · neut.In 16 kośas: 21 synonym verses, 29 as a meaning of another word.
सहस्रवेधि वाह्लीकं जतुकं हिङ्गु रामठम् ॥ ४२२ ॥
अनुष्टुप्
genderक्लीneut.
सहस्रवेधि जतुकं बाल्हीकं हिङ्गु रामठम् ।
अनुष्टुप्
genderक्लीneut.
सौवर्चलस्तु रुचकः कुस्तुम्बुरु च धान्यकम् ।त्रिकटु त्र्यूषणं व्योषं हिङ्गु रामठ उच्यते ॥ ६१७ ॥
अनुष्टुप्
genderक्लीneut.
उग्रवीर्यं च वाह्लीकं हिङ्गुदीप्ता स्त्रियां पुनः ।भूतारिरुग्रगन्धा स्यादथ स्यात् हिङ्गुनाडिका ॥ २०० ॥
अनुष्टुप्
genderक्लीneut.
सुखदुःखत्वचरुचहलताल्वस्थिहिङ्गुनाम् ।भेषजागुरुसृक्काणामपि तुत्थकुसुम्भयोः ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
उपकुञ्ची च कुञ्ची च पृथ्वीका सुषवी पृथुः ।स्यात्स्थूलकं भूमि * * दमनं माधवं च तत् ।सहस्रवेधि जतुकं बाह्लीकं हिङ्गुरस्त्रियाम् ।रामठं सूपधूपि स्याज्जरणं गूढगन्धि च ।तथा शूलघ्नमुदितं हरिद्रा तु निशाह्वया ॥ ९६ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
चित्र-वस्त्र-घुसृणागरु-हिङ्गु-गूथ-पिच्छ-दल-तालु-हलानाम् ।तुत्थदृङ्मरिचहृन्नलदानांयुद्ध-सिध्म-यकृदस्थि-फलानाम् ॥ ८० ॥
स्वागता
genderक्लीneut.
मताः खान्तेषु चत्वारः शङ्खः पुङ्खो नखं मुखम् ।अधिकाङ्गः पद्मरागः संयुगं च युगं भगम् ॥हिङ्गूद्योगौ टङ्ग-शृङ्गौ निदाघोऽध्यर्घ-वद्भवेत् ।अर्धर्चः क्रकचः कूर्चः कवचः पुच्छ उञ्छवत् ॥ ४० ॥
अनुष्टुप्
genderपुंक्लीm. n.
शुक्राह्वेन्द्रयवा प्रोक्ता वराङ्गं त्वचमुच्यते ।तमालपत्रकं पत्रं वाह्लीकं हिङ्गु रामठम् ॥ ९८ ॥
अनुष्टुप्
genderक्लीneut.
शस्त्री वीणावटुर्वीचिचीरीहिङ्गुतिथीनसः ।ज्योत्स्नापत्री सुरा कङ्गुवीणाकलशिनिम्नगाः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
शिलाभवस्थानकभेषजास्थि-रुचत्वचद्वारहलासृजां च ।फलप्रसूनद्रवतां सुखादि-धनुर्दृशां हिङ्गुकुसुम्भकादेः ॥ ७४ ॥
उपेन्द्रवज्रा
genderक्लीneut.
सक्तवोऽप्यररिः कम्बुर्दोर्दार्वगुरुहिङ्गवः ।पलाण्डुस्तितउर्वास्तुवेमप्रेमाणि लोम च ॥ १६५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सहस्रवेदी(दि?) जतुकं रामठं हिङ्गुरिष्यते ।हिङ्गुवृक्षत्वचि दले बाष्पिका पृथुरित्यपि ॥ ४५९ ॥
अनुष्टुप्
genderपुंmasc.
बाह्लीकं रामठं हिङ्गुः कर्पूरं चन्द्रनामकम् ।सर्वस्वादुरसं क्षारं लवणं रोचकं बलम् ॥ २५० ॥
अनुष्टुप्
genderपुंmasc.
वाह्लीकं जतुकं हिङ्गुः सहस्रवेधि रामठन् ।अत्युग्राऽगूढगन्धे च कथ्यते भूतनाशनम् ॥ ६३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्र (wrong syllable)
genderपुंmasc.
कुञ्जलावन्तिमोमे च धान्याम्ब्लम्बुर्कमित्यपि ।हिङ्गुपिण्याकवालीकसहस्रबोधिरामठम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्र (wrong syllable)
genderक्लीneut.
वृक्षाम्लं तिन्त्रिणीकं च चुक्रं चैतत् समं त्रयम् ।रामठं हिङ्गु रक्षोघ्नं जरणं भूतनाशनम् ॥ १४५१ ॥
अनुष्टुप्
genderक्लीneut.
तृणाद्यं मूलकं दर्भकाशेक्षुशरशालिभिः ।जीरकद्वितयं हिङ्गु साजमोदं ससैन्धवम् ॥ १४६९ ॥
अनुष्टुप्
genderक्लीneut.
गृहिणी मधुरा हिङ्गु शूलहृत्सूपधूपनम् ।वर्षिणी हेमरागिण्यो हरिद्रा पीतवालुका ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
पुन्नपुंसकयोर्दारुजीवातुस्थाणुसीधवः ।स्थाद्वास्तु हिङ्गु तितउ सानु कम्बु कमण्डलु ॥ ८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परशुः शस्त्रकष्टंकः शस्त्रक्षारो महाबलः ।सहस्रवेधि बाह्लीकं जतुकं हिंगु रामठम् ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.doubtful
हिङ्गु as a meaning in nānārtha verses
- धरणिकोश पिण्याकशम्बुकः करिकुम्भान्ते दैत्यशुक्तिविशेषयोः । पिण्याको हिङ्गुवाह्लीके तिलकल्के च सिह्लके ॥ Dharaṇikośa 1.2.11
- धरणिकोश वाह्लीकद्रावका हृदयग्राहिपाषाणद्रवकारकाः । वाह्लीकस्तुरगे देशे वाह्लीके हिङ्गुकुङ्कुमे । जातकः कथितो जातः कारण्डी चापि जातकः ॥ Dharaṇikośa 1.2.26
- कोषकल्पतरु पिण्याकपिण्याकमस्त्री तिलकल्कहिङ्गु- कश्मीरजन्मस्वपि सिह्लके च । बाह्लीकवद्बाह्लिकमत्र हिङ्गु- सत्कुङ्कु[251b]मे देशतुरंगयोर्ना ॥ ५७ ॥ Koṣakalpataru 6.1.57
- कोषकल्पतरु जरणक्षेत्रे साधन इन्द्रियेऽङ्गहरणे क्षेत्रे च गीते तथा क्लीबे स्याद्बवबालवप्रभृतिषु स्यात्त्वन्तिमे हिङ्गुनि । जी[281a]रे स्याल्लवणान्तरेऽपि जरणं मानान्तरे धारणे क्षोण्यां स्त्री धरणं प्रिये तु रमणः पाटोलमूलेऽन्तिमे ॥ २० ॥ Koṣakalpataru 6.15.20
- कोषकल्पतरु तीक्ष्णगन्धहिङ्गुनि तु तीक्ष्णगन्धं षड्ग्रन्धा राजिकार्थे स्त्री । क्रोष्ट्र्यां काशक्षुरयोर्गोक्षुरके चेक्षुगन्धा स्यात् ॥ ८७ ॥ Koṣakalpataru 6.20.87
- कोषकल्पतरु सहस्रवेधिन्अलौ कपिञ्जले तथा सहस्र[25b]वेधि हिङ्गुनि । तदम्लवेतसार्थकं नरि प्रचक्षते बुधाः ॥ ७३ ॥ Koṣakalpataru 6.21.73
- नानार्थार्णवसंक्षेप बाह्रवअथ बाह्रवमित्येतद्धिङ्गुकुङ्कुमयोः स्मृतम् । भस्मकं तु विडङ्गे स्याद् व्याधिभेदेऽथ भण्डनम् ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 3.3.60
- नानार्थार्णवसंक्षेप केसरकार्पास्यां स्यात् स्त्रियां क्ली तु प्रसवेऽत्रोक्तभूरुहाम् । हिङ्गुन्यपि पठत्येतद् रभसः शब्दवित्तमः ॥ ५७५ ॥ Nānārthārṇavasaṃkṣepa 4.575
- नानार्थार्णवसंक्षेप जतुकजलप्रदे तु त्रिः क्ली तु जतुकं हिङ्गुनि स्मृतम् । स्त्रियां त्वजिनपत्राख्यक्षुद्रपक्ष्यन्तरे स्मृता ॥ ७६९ ॥ Nānārthārṇavasaṃkṣepa 4.769
- नानार्थार्णवसंक्षेप जरणकात्यायन्यामिन्द्रपुत्र्यां तर्कार्यां तिथिभेदके । त्रिस्तु जेतर्यथो जीर्णे जरणं क्ली च हिङ्गुनि ॥ ७७१ ॥ Nānārthārṇavasaṃkṣepa 4.771
- नानार्थार्णवसंक्षेप पिण्याकश्रीपिष्टाख्ये च निर्यासे कुङ्कुमे हिङ्गुकिण्वयोः । तुरुष्काख्ये च निर्यासे यवानीतिलकल्कयोः ॥ ११६२ ॥ Nānārthārṇavasaṃkṣepa 4.1162
- नानार्थार्णवसंक्षेप बाह्लीकस्वयञ्जाततिले बाहुसम्भवे त्वभिधेयवत् । बाह्लीकं तु नपि प्रोक्तं हिङ्गुकुङ्कुमयोस्तथा ॥ १२४९ ॥ Nānārthārṇavasaṃkṣepa 4.1249
- नानार्थार्णवसंक्षेप सहस्रवेधिन्प्रतीयात् पूर्ववल्लिङ्गमथ पुंस्यम्लवेतसे । सहस्रवेधी क्लीबं तु हिङ्गुनि क्ली तु संयुगे ॥ १०५ ॥ Nānārthārṇavasaṃkṣepa 7.105
- शिवकोष जतुकलाक्षागुग्गुलुपालाशपर्पटेष्वपि हिङ्गुनि । जीविका जीवनीयायां जीवकः प्रियसर्जयोः ॥ २८ ॥ Śivakoṣa 1.3.28
- शिवकोष बाल्हीकबाल्हीका बाल्हिकाधान्ये क्लीबे हिङ्गुनि कुङ्कुमे । वार्ताकं त्रिषु वार्ताकौ बृहतीक्षुद्रयोः स्त्रियाम् ॥ ४९ ॥ Śivakoṣa 1.3.49
- शिवकोष हिङ्गुनिर्यासकहिङ्गुनिर्यासकः पारिभद्रे क्लीबं तु हिङ्गुनि । Śivakoṣa 1.6.3
- शिवकोष रामठअम्बष्ठा माचिकापाठाचाङ्गेरीयूथिकासु च । रामठं हिङ्गुनि स्त्री तु पिण्डायां ना समष्टिले ॥ १४२ ॥ Śivakoṣa 9.2.142
- शिवकोष जरणजरणो रुचके कृष्णे जीरे क्लीबं तु हिङ्गुनि । तरुणं च स्त्रियां कुब्जपुष्पे पञ्चाङ्गुले पुमान् ॥ १५९ ॥ Śivakoṣa 11.2.159
- शिवकोष जन्तुघ्नजननी जतुकृष्णायां पिशाचीमत्स्यपित्तयोः । जन्तुघ्नं हिङ्गुचौहारविडङ्गे ना शुकप्रिये ॥ २५२ ॥ Śivakoṣa 16.1.252
- शिवकोष सहस्रवेधिन्सहस्रवेधी विदुले मार्गे क्लीबं तु हिङ्गुनि । Śivakoṣa 16.4.1
- शब्दरत्नावली जतुकजम्बुको वरुरो नीचे शृगाले तर्कभेदके । जतुकाऽजिनपत्रायां क्लीबं स्यात् हिङ्गुयावयोः ॥ Śabdaratnāvalī 7.1.75
- शब्दरत्नावली पिण्याकपक्षिभेदे शशाङ्के च प्रियङ्गौ कुङ्कुमेऽपि च । पिण्याकस्तिलकल्केऽस्त्री वाह्लीक हिङ्गुसिह्लके ॥ Śabdaratnāvalī 7.1.102
- शब्दरत्नावली वह्लीकवञ्चको जम्बुके धूर्ते गृहवभ्रौ खलेऽपि च । व्यलीकमप्रियाकार्यवैलक्ष्यपीडनेष्वपि ॥ व्यलीकानागरे पुंसि वह्लीकं वाह्लिकं तथा । धीरे हिङ्गुनि देशाश्वभेदयोः पुंसि च द्वयम् ॥ Śabdaratnāvalī 7.1.138
- शब्दरत्नावली पिङ्गादेहवायुभिदि श्रेष्ठे पुन्नागे नागकेशरे । स्यात्पिङ्गा चण्डिका हिङ्गु नाडीगोरचनासु च ॥ Śabdaratnāvalī 7.3.9
- शब्दरत्नावली जरणजरणो जीरके जीर्णे कृष्णे सौवर्चलेऽपि च । जरणं हिङ्गुनि ख्यातं क्लीबं स्यादोषधीभिदि ॥ Śabdaratnāvalī 7.15.36
- शब्दरत्नावली केशरकुचारुर्वानरे वृक्षे शस्त्रकारे भवेत्पुमान् । केशरोऽस्त्री तु किञ्जल्के क्लीबलिङ्गन्तु हिङ्गुनि ॥ Śabdaratnāvalī 7.27.66
- त्रिकाण्डशेष वाह्लीकवाह्लीकं बाह्लिके धीरहिङ्गुनोर्नाऽश्वदेशयोः । विपाकः परिणामेऽपि तिलकेऽपि विशेषकः ॥ ४३ ॥ Trikāṇḍaśeṣa 3.3.43
- त्रिकाण्डशेष केशरकेशरः पुंसि किञ्जल्के न स्त्री हिङ्गुनि न द्वयोः । मक्षिकायामपि क्षुद्रा क्षुद्रः स्यात्कृपणे त्रिषु ॥ ३३४ ॥ Trikāṇḍaśeṣa 3.3.334
- वैजयन्ती बाह्लीकबाह्लीकं कुंकुमं हिंगु भण्डनं कवचे रणे । भूतिकं भूमिनिंबे च भूस्तृणे कत्तृणेऽपि च ॥ २६ ॥ Vaijayantī 7.3.26