कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गण्डूषा

gaṇḍūṣāस्त्री · fem.

In 3 kośas: 4 synonym verses, 1 as a nānārtha head word.

जागर्यं जाग्रिया च स्याद् जागरा जागरोऽपि च ।गण्डूषोऽपि गण्डूषा चुलुकं चलुकं भवेत् ॥ २६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ग (syllables merged)
genderस्त्रीfem.
एते शब्दाः पुंसि स्युः । अयं पुञ्जः सङ्घातः । अद्रिः पर्वतः । कोणो गृहादीनाम् । करीषो गोमयविकारः । [रत्नपिण्याकव्याख्यानं नास्ति] ।गर्भ औदर्यः । दर्भः कुशः । अर्भो बालः । पत्तनादीनां ये पर्यायाः शब्दास्तेषां नपुंसकता । इदं पत्तनं नगरं पुरमित्यादि । शुल्बं म्लेच्छमुखम् । ताम्रमुदुम्बरमित्यादि । चापं धनुः कार्मुकमित्यादि ।विडव[बिट्व]र्णा स्त्री ज्ञेया सा[स]स्नावीथ्यौ च नीविभेर्यौ च ।मञ्जूषा गण्डूषा मूषा परिषद्गुहा चैव ॥ ६६ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.46 · p. 311
कङ्गर्गवेधुरासन्दी मोचिः सूचिर्गलन्तिका ।गण्डूषा फर्फरी पारी वालद्याद्या(?) लनीवशा ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.49 · p. 311
नाराची पादुका नद्ध्री शूर्म्मी मूषा च गृधसी ।गण्डूषा कर्परी नीवी प्रतिमा च कुलत्थिका ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 गृ (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.19 · p. 292
उत्प्रेक्षाऽवधारणे स्यात्काव्यालङ्कारभिद्यपि ।कल्माषो राक्षसे पुंसि कृष्णे च कृष्णपाण्डरे ॥कलुषं चाविले पापे किल्विषन्तु रुगागयोः ।कुल्माषः काञ्जिकायान्तु यावके रुग्विशेषके ॥गण्डूषा हस्तिहस्ताग्रे पुंसि वा मुखपूरणे ।प्रसृतोन्मितनीरादौ क्लीबलिङ्गञ्च कुत्रचित् ॥गवाक्षी शक्तवारुण्यां गवाक्षो जालके कपौ ।गोरक्षके नागरङ्गे पिच भवेत्पुमान् ।जिगीषा स्त्री जयेच्छायां व्यवसायप्रकर्षके ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable); pāda 4, syllable 3 च (wrong syllable)