कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नगर

nagaraक्ली · neut.

In 16 kośas: 16 synonym verses, 19 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.285 · p. 34
पत्तनं स्यादधिष्ठानं निगमः पुटभेदनम् ।नगरं नगरी द्रङ्गः स्थानीयं पूः पुरी पुरम् ॥ २८५ ॥
अनुष्टुप्
genderक्लीneut.
नगरी नगरं च स्यात् पूः पुरी च पुरिः पुरम् ।पत्तनं पट्टनं च स्यात् पट्टनी च समं त्रयम् ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.3 · p. 9
तदर्द्धं निगमः पुंसि तदर्द्धं तु निवेशनम् ।स्त्रियां पुरीपूःपुरयः पुरं वा नगरं च वा ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.24 · p. 11
स्याच्छोणितपुरं चाथ चमत्कारपुरार्थकम् ।नगरं वृद्धनगरमथ सिद्धपुरं पुनः ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.132 · p. 476
स्याद्गात्रापरनासीरमन्दिराणां ततः परम् ।मयूरकादम्बरयोः शस्त्रस्य नगरस्य च ॥ १३२ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.84 · p. 117
genderस्त्रीक्लीf. n.
एते शब्दाः पुंसि स्युः । अयं पुञ्जः सङ्घातः । अद्रिः पर्वतः । कोणो गृहादीनाम् । करीषो गोमयविकारः । [रत्नपिण्याकव्याख्यानं नास्ति] ।गर्भ औदर्यः । दर्भः कुशः । अर्भो बालः । पत्तनादीनां ये पर्यायाः शब्दास्तेषां नपुंसकता । इदं पत्तनं नगरं पुरमित्यादि । शुल्बं म्लेच्छमुखम् । ताम्रमुदुम्बरमित्यादि । चापं धनुः कार्मुकमित्यादि ।विडव[बिट्व]र्णा स्त्री ज्ञेया सा[स]स्नावीथ्यौ च नीविभेर्यौ च ।मञ्जूषा गण्डूषा मूषा परिषद्गुहा चैव ॥ ६६ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः पुंसि भवन्ति । अयं स्थूलो राशिः । अलक्तकः पादादिरागद्रव्यम् । कर्पासः सूत्रद्रव्यम् । सूर्यो रविः । कूर्पासः कञ्चुकम् । सारथिः सूतः । तरङ्गः कल्लोलः । अलकः केशरचना । समुडाः संपुटकः । वराटः कपर्दकम् ।सैन्यायुधमङ्गलनगरवृन्त[त्त]फलमूलहरितालबिम्बमुकुटकुड्मलतस्तृतीयाप्रकृतिः ।पुंस्यवसथस्तथोद्गीथः संवीथः कालगीथश्च ॥ ७१ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 97 · p. 48
राष्ट्रं जनपदो निर्गो जनान्तो विषयः स्मृतः ।पूः पुरी नगरं चैव पट्टनं पुटभेदनम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.6.171 · p. 231
genderस्त्रीक्लीf. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.6 · p. 1
पूः पुरी नगरी गेहि नगरं पुटभेदनम् ।स्थानीयं निगमो वासो गोपुरं पत्तनं पुरम् ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.36 · p. 37
पूः पुरं नगरं द्रङ्गो निवेशो नगरी पुरी ।स्थानीयं निगमो ग्रामः पत्तनं पुटभेदनम् ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.1 · p. 50
पूः स्त्री पुरी च नगरी पुरं नगरपत्तनम् ।स्थानीयं कटकं पट्यं निगमः पुटभेदनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.24 · p. 220
नगरे नगरी द्रङ्ग-द्राङ्गौ पत्तन-पट्टने ।पुरस्त्रिषु पूः पुरिश्च, कन्याकुब्जं तु गाधिपूः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.831 · p. 105
पुरपुटमेदनपट्टणनगराणि स्त्री तु पूः पुरी नगरी ।अन्यानि मूलनगराच्छाखानगराणि बाह्यनगराणि ॥ ८३१ ॥
गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.1 · p. 159
पुर्यना नगरी पूः स्त्री स्थानीयं नगरं पुटः ।पुर्याः शाखापुरी गृह्या पुरेऽल्पे खेटमस्त्रियाम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.

नगर as a meaning in nānārtha verses