पुर
puraक्ली · neut.In 24 kośas: 45 synonym verses, 11 as a nānārtha head word, 41 as a meaning of another word.
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderक्लीneut.
genderक्लीneut.
genderपुंmasc.
पत्तनं स्यादधिष्ठानं निगमः पुटभेदनम् ।नगरं नगरी द्रङ्गः स्थानीयं पूः पुरी पुरम् ॥ २८५ ॥
अनुष्टुप्
genderक्लीneut.
तनुस्तनूः संहननं शरीरं,कलेवरं विग्रहदेहकायाः ।अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
उपजातिः
genderक्लीneut.
पुराख्यो महिषाक्षश्च गुग्गुलः स्यात्पलङ्कषः ।महारजनमिच्छन्ति कुसुम्भं च सुमेधसः ॥ ६२० ॥
अनुष्टुप्
genderपुंmasc.
चर्मिका भूर्जपत्रे स्यात् गुग्गुलौ तु महेश्वरः ।कामः पुरो जटायुश्च कुम्मोलू … कं वरम् ॥ २१४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नगरी नगरं च स्यात् पूः पुरी च पुरिः पुरम् ।पत्तनं पट्टनं च स्यात् पट्टनी च समं त्रयम् ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्रियां नर्मघै(४५०)श्चापि नर्मखैः(२५०) पुरमस्त्रियाम् ।तदर्द्धमस्त्रियां खेटस्तस्यार्द्धं पत्तनोऽस्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderपुंक्लीm. n.
तदर्द्धं निगमः पुंसि तदर्द्धं तु निवेशनम् ।स्त्रियां पुरीपूःपुरयः पुरं वा नगरं च वा ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबे वपुः संहननं पुद्गलं वर्ष्म मूर्त्तिमत् ।पुरं षडङ्गं करणं सूत्रशाखं शितं कुलम् ॥ १२८ ॥
अनुष्टुप्
genderक्लीneut.
दाहागुरुर्दाहकाष्ठं पुरं धूपाङ्गदः पुनः ।वल्लभः पूरमथनं मङ्गल्यामल्लिके स्त्रियौ ॥ ४०८ ॥
अनुष्टुप्
genderक्लीneut.
म्लेच्छद्विष्टो भवानीष्टो जटालः कौशिकः पुरः ।निशाटको भूतहरः कालनिर्यासशावरौ ॥ ४११ ॥
अनुष्टुप्
genderपुंmasc.
मुस्ताकुथेङ्गुदानां च जृम्भदाडिमयोरपि ।पुरोदरप्रतिसरविवराणामतः पुनः ॥ २०१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पुरं त्रिलिङ्ग्यां नगरी न पुंसिद्रङ्गो नृलिङ्गो निगमः स्त्रियां पूः ।निवेशनं पत्तन-पट्टने चस्थानीयमुक्तं पुटभेदनं च ॥ १ ॥
उपजातिः
genderपुंस्त्रीक्लीm. f. n.
रसाङ्गस्तिलपर्णी स्यात्कुम्भोलूखलकं पुनः ।कौशिकः कालनिर्यासः पुरो गुग्गुलु-गुग्गलौ ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
जातीपत्री[46a] जातिकोशः पात्री सौमनसायनी ।जातीफलं तु शालूकं फलं सौमनसं पुरम् ॥ ८८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पिण्डोऽस्त्री विग्रहः कायः सरः (संचरः) स्कन्धपञ्चरः (रौ) ।अप्तुर्घनो भूघनोऽङ्गमिन्द्रियायतनं पुरम् ॥ ४४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
शालारमात्रे च कटित्र-मित्रेगोत्रं पतत्रं सशिलीन्ध्ररेत्रम् ।अग्रं तथोपह्णरशार्वराणिपुरं गृहेऽङ्गे खपुरं घटे च ॥ ९ ॥
उपजातिः
genderक्लीneut.
समेऽर्द्धो इङ्गुदो जृम्भो दाडिमं कन्दरं [दरम्] ।पात्रं छत्रं च वल्लूरं नखरं पिठरं पुरम् ॥ ८८ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
सङ्ख्यापूर्वो यदि रात्रिशब्दस्तदा नपुंसके बोद्धव्यः । यथा इदमेकरात्रं द्विरात्रं त्रिरात्रमित्येवमादयः । सह समासेन वर्त्तत इति ससमासः ससमासस्य तु रात्रिशब्दस्य पुंसि योगं विजानीयात् । यथा पूर्वरात्रः अर्द्धरात्रः वर्षारात्रः ।पुरमधुजगन्ति विद्यान्नपुंसके वा स्त्रियां भवेदर्च्चिः ।त्वतलौ नपुंसकस्त्रीविधावहः पुंसि सङ्ख्यादिः ॥ ४३ ॥
metre not recognised
genderक्लीneut.
पुरादीनि नपुंसके विजानीयात् । इदं पुरं नगरम् । मधु क्षौद्रम् । जगद्विश्वम् । अर्च्चिःशब्दः स्त्रियां भवति वा । इयमर्चिः । इदमर्चिर्दीप्तिः । त्वतलौप्रत्ययौ यथासङ्ख्यं नपुंसकस्त्रीविधौ द्रष्टव्यौ । ब्राह्मणस्य भावो ब्राह्मणत्वं ब्राह्मणता । एवमिदं शूद्रत्वं इयं शूद्रता । अहःशब्दः यदा सङ्ख्यादिः तदा पुंल्लिङ्गो भवति । अयमेकाहः द्व्यहः त्र्यहः । सङ्ख्यादेरिति किम् । पुन्याहम्? । प्रत्यहम् ।रुत्वन्ताः पुंसि कशेरुदारुजतुवस्तुमस्तूभिस्त्यक्ताः ।स्युः सग्रन्थिप्रस्था इसुसू ष्य[घ्य]ञन्तानां नपुंसकता ॥ ४४ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः पुंसि स्युः । अयं पुञ्जः सङ्घातः । अद्रिः पर्वतः । कोणो गृहादीनाम् । करीषो गोमयविकारः । [रत्नपिण्याकव्याख्यानं नास्ति] ।गर्भ औदर्यः । दर्भः कुशः । अर्भो बालः । पत्तनादीनां ये पर्यायाः शब्दास्तेषां नपुंसकता । इदं पत्तनं नगरं पुरमित्यादि । शुल्बं म्लेच्छमुखम् । ताम्रमुदुम्बरमित्यादि । चापं धनुः कार्मुकमित्यादि ।विडव[बिट्व]र्णा स्त्री ज्ञेया सा[स]स्नावीथ्यौ च नीविभेर्यौ च ।मञ्जूषा गण्डूषा मूषा परिषद्गुहा चैव ॥ ६६ ॥
metre not recognised
genderक्लीneut.
गुग्गुलौ तु पुरो दुर्गो महिषाख्यः पलङ्कषः ।जटायुः कालनिर्यासो वासवोलूकनामकः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
कामः पुरो जटायुश्च कुम्भोलूखलकं वरम् ।शोभाञ्जने तीक्ष्णगन्धः शिग्रुकाक्षिबमोचकाः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
पुरं वेश्योऽपि वेश्यानामाश्रयः परिकीर्ततः ।जनाश्रयो मण्डपोऽथ पण्यशालापणौ तथा ॥ २८२ ॥
अनुष्टुप्
genderक्लीneut.
बन्धुः स्वकीय आत्मीयः सपिण्डास्तु सनाभयः ।नपुंसकं क्लीबषण्ढौ पण्डो देहे पुरं वपुः ॥ २२७ ॥
अनुष्टुप्
genderक्लीneut.
स्फुलिङ्गो मुस्तकः कुन्थ इङ्गुदो दाडिमः पुरः ।इत्यादयस्त्रिलिङ्गाः स्युः स्वत एव विशेषणात् ॥ १७७ ॥
अनुष्टुप्
genderविadj.
पूः पुरी नगरी गेहि नगरं पुटभेदनम् ।स्थानीयं निगमो वासो गोपुरं पत्तनं पुरम् ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
संहननं घनो बन्धः पुरः पिण्डं च पुद्गलम् ।हृषीकमक्षं करणं ग्रहणं च खमिन्द्रियम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderपुंmasc.
पूः पुरं नगरं द्रङ्गो निवेशो नगरी पुरी ।स्थानीयं निगमो ग्रामः पत्तनं पुटभेदनम् ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
अङ्गं गात्रं तनुः क्षेत्रं तनूः संहननं सिनम् ।वपुश्च पुद्गलः पिण्डः कायः प्रजनुकः पुरम् ॥ ९०१ ॥
अनुष्टुप्
genderक्लीneut.
पुरं वेश्याश्रयो वेश्यो वेश्यानां स्थलमुच्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श्र (wrong syllable)
genderक्लीneut.
genderपुंmasc.
पूः स्त्री पुरी च नगरी पुरं नगरपत्तनम् ।स्थानीयं कटकं पट्यं निगमः पुटभेदनम् ॥
अनुष्टुप्
genderक्लीneut.
महाकालश्च किम्पाक उर्वटो बलिभुक्प्रियः ।गुग्गुलु गुग्गुलोऽपि स्यात् कौशिकश्च वरः पुरः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लु (wrong syllable)
genderपुंmasc.
नगरे नगरी द्रङ्ग-द्राङ्गौ पत्तन-पट्टने ।पुरस्त्रिषु पूः पुरिश्च, कन्याकुब्जं तु गाधिपूः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
genderपुंस्त्रीक्लीm. f. n.
कौशिको धूपनिर्यासः कुम्भोलूखलकं पुरः ।निम्बे स्युर्हिङ्गुनिर्याससर्वतोभद्रमालकाः ॥ ४७५ ॥
अनुष्टुप्
genderपुंmasc.
नडस्तु धमनः पोटगलो नड्या तु तद्गणे ।सौगन्धिकं देवजग्धं कत्तृणं धा(ध्या?)मकं पुरम् ॥ ६७१ ॥
अनुष्टुप्
genderक्लीneut.
पुरपुटमेदनपट्टणनगराणि स्त्री तु पूः पुरी नगरी ।अन्यानि मूलनगराच्छाखानगराणि बाह्यनगराणि ॥ ८३१ ॥
गीतिः
genderक्लीneut.
निशान्तं सदनं वस्त्यमगारं मन्दिरं पुरम् ॥ ८८ ॥
genderक्लीneut.
कामः पुरो जटायुश्च कुंभोलूखलकं वरम् ।रज्जुदाले नीचुदारः कच्छूदारो गृहद्रुमः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
सौगन्धिकं देवजग्धं ध्यामकं कत्तृणं पुरम् ।छत्रातिछत्रपालघ्नौ मालातृणकभूस्तृणे ॥ २३४ ॥
अनुष्टुप्
genderक्लीneut.
कारावती सुललिकं कुवादुष्की वशामखम् ।चण्डाली पाण्डुकं द्रोही छाणकं महिषी पुरम् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
उपवर्त्तनमप्यस्मिन्मण्डलं तैः शताधिकैः ।दुष्प्रापं तु पुरं दुर्गं यंत्रशैलजलादिभिः ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
पुरं शरीरमित्याहुर्गृहोपरिगृहं पुरम् ।पुरो गुग्गुलुराख्यातो नगरे तु पुरं पुरी ॥
अनुष्टुप्
ध्यामाख्यभेषजस्तम्बे सर्वतोभद्रकादिषु ।शैवागमप्रसिद्धेषु मण्डलेष्वपि ना तु सः ॥ ७९४ ॥
अनुष्टुप्
doubtful
गुग्गुलौ नगरे त्वेषा पुरी लिङ्गत्रये द्वयोः ।मर्त्यजात्यन्तरे शूद्रमहिषीजेऽथ केचन ॥ ७९५ ॥
अनुष्टुप्
meaningsगुग्गुलु
गुग्गुलेऽपि पुरः प्रोक्तः पुरुः स्वाद्रागपूरयोः ।स्वर्लोके प्रचुरे चाथ पारी पूरपरागयोः ॥ २९२ ॥
अनुष्टुप्
meaningsगुग्गुल
स्थाल्यो मन्थेऽपि पिठरं पवित्रं कुशमेध्ययोः ।देहे पाटलिपुत्रे च पुरं स्यागुग्गुलौ पुरः ॥ ३६४ ॥
अनुष्टुप्
पुर as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अधिष्ठानअधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । Amarakośa 3.3.238
- नामलिङ्गानुशासनम् निगमवणिक्पथः पुरं वेदो निगमो नागरो वणिक् । नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥ Amarakośa 3.3.140
- धरणिकोश खखं व्योमेन्द्रियलोकेषु पुरक्षेत्रेषु बिन्दुषु । नखं नखी च सुगन्धिद्रव्ये स्यान्नखरे नखः ॥ Dharaṇikośa 2.2.1
- धरणिकोश अधिष्ठानसारसनमुरस्त्रे च मेखलायां च कीर्तितम् । अधिष्ठानं प्रभावे स्याद्रथाङ्गेऽध्यासने पुरे ॥ Dharaṇikośa 19.2.79
- धरणिकोश सुदर्शनसुदर्शनं हरेश्चक्रमोषधिश्च सुदर्शना । सुदर्शनं पुरं चैन्द्रं मेरुजम्बुः सुदर्शनः ॥ Dharaṇikośa 19.3.28
- कोषकल्पतरु खखं सुखेन्द्रियसुरालयबिन्दु- क्षेत्रशून्यसुरवर्त्मपुरेषु । वेदने च कुणहेलफले स्यात् Koṣakalpataru 6.2.1
- कोषकल्पतरु निगमयमे प्रतिज्ञासु च यन्त्रणायां वेदे पुरे स्यान्निगमः कटे च । वणिक्पथे वाणिजके तथोक्तो- ऽथो[33b]नैगमो वाणिजनागरार्थः ॥ ८५ ॥ Koṣakalpataru 6.25.85
- कोषकल्पतरु मन्दिरन मन्दिरं ना सदने पुरेऽन्त्ये पुमान्समुद्रे विवरं तु गर्त्ते । स्याच्छिद्ररन्ध्रप्रतिमं च दोषे पूगे पुमान्स्यात्खपुरोऽलसेऽपि ॥ ७ ॥ Koṣakalpataru 6.27.7
- नानार्थार्णवसंक्षेप ऊमलवणे स्यादूषरजे ना क्षारमृदि नप् पुनः । ऊमं व्योम्नि पुरे चान्ये पुंसि प्राणिनि तु त्रिषु ॥ १०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.109
- नानार्थार्णवसंक्षेप वास्तुगृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च । वाजी तु ना शरे वह्नौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1246
- नानार्थार्णवसंक्षेप मञ्जूषामञ्जूषावाक् तु पेडायां पुरे च कथिता बुधैः । मर्यादा तु व्यवस्थायां सीमायां च प्रकीर्तिता ॥ ६७ ॥ Nānārthārṇavasaṃkṣepa 3.1.67
- नानार्थार्णवसंक्षेप पत्तनद्विजातिकर्मभ्यो हानौ पत्तनं तु पुरे विदुः । पुटभेदनसंज्ञे तु क्षुद्रग्रामे परे विदुः ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 3.3.51
- नानार्थार्णवसंक्षेप पट्टनपट्टनं तु पुरेऽन्ये तु पुटभेदनसंज्ञके । क्षुद्रग्रामे परे त्वाहुः सर्वशब्दार्थकोविदाः ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 3.3.53
- नानार्थार्णवसंक्षेप स्थानीयअवस्थानविशेषे च स्थानीयं तु पुरे तथा । स्थातव्येऽपि महाग्रामे सामर्थ्यं तु बले भवेत् ॥ ८७ ॥ Nānārthārṇavasaṃkṣepa 3.3.87
- नानार्थार्णवसंक्षेप मन्दिरमन्दिरं तु पुरे गेहे क्लीबमब्धौ तु पुंस्ययम् । मथितं तु क्लीबलिङ्गं निर्जले गोरसे कृते ॥ १३४९ ॥ Nānārthārṇavasaṃkṣepa 4.1349
- नानार्थार्णवसंक्षेप गवीधुकगवीथुका तु स्त्री क्षुद्रधान्यभेदे पुरे तु नत् । गवादिनी स्त्री गिरिकर्ण्यभिधानलतान्तरे ॥ २०२ ॥ Nānārthārṇavasaṃkṣepa 6.202
- नानार्थार्णवसंक्षेप मदमत्तअञ्जने मदमत्तस्तु धुर्धूरेऽस्त्री पुरे पुमान् । मदेन मत्ते त्रि स्त्री तु मदयन्ती प्रकीर्तिता ॥ ४८१ ॥ Nānārthārṇavasaṃkṣepa 6.481
- नानार्थार्णवसंक्षेप अपराजिताअथापराजितः पुंसि हरे विष्णौ स्त्रियां पुनः । ब्रह्मणो ब्रह्मलोकस्थपुरे छान्दोग्यकीर्तिते ॥ २ ॥ Nānārthārṇavasaṃkṣepa 7.2
- परमानन्दीयनाममाला अधिष्ठानअष्टापदं सुवर्णेऽथाष्टापदः शरभे गिरौ । अधिवासो गृहे वासेऽधिष्ठानं पुरचक्रयोः ॥ ४६ ॥ Paramānandīyanāmamālā 5.1.46
- परमानन्दीयनाममाला कन्थाकोटिः संख्याग्रयोः कन्दो मूले सूरणमेघयोः । कुन्दो वृक्षे निधौ यन्त्रे कन्था प्रावरणे पुरे ॥ १०८ ॥ Paramānandīyanāmamālā 5.7.108
- परमानन्दीयनाममाला निगमनगो भूध्रे तरौ नाम कुत्साख्यामन्त्रणेष्वथ । निर्वेशो मूर्च्छने स्तूपभोगेऽथ निगमः पुरे ॥ २६९ ॥ Paramānandīyanāmamālā 5.18.269
- परमानन्दीयनाममाला निवेशनिस्त्रिंशः परुषे खड्गे निषधः स्वरदेशयोः । निवेशो रचनानीकविवाहेषु पुरेऽप्यथ ॥ २७५ ॥ Paramānandīyanāmamālā 5.18.275
- परमानन्दीयनाममाला नन्द्यावर्तनिशाचरस्तु जम्बूकरक्षसोश्चौरसर्पयोः । नन्द्यावर्तं पुरे वृक्षे गेहभेदेऽपि दृश्यते ॥ २८० ॥ Paramānandīyanāmamālā 5.18.280
- शिवकोष कौशिककृतकं खण्डलवणे कङ्कोले च विङङ्गके । कोरकोऽस्त्रीङ्गुदे कोले मृणाले कौशिकः पुरे ॥ २४ ॥ Śivakoṣa 1.3.24
- शिवकोष पाठिनप्राचीना घनकट्व्योर्वसन्तदूत्यां च पाठिनः । चित्रे पुरे च पिशुनं धीरे पिशुना तु पृक्कायाम् ॥ २५७ ॥ Śivakoṣa 16.1.257
- शिवकोष देवधूपदेवधूपः पुरे सर्जे नागपुष्पस्तु चम्पके । पुन्नागे नागकिञ्जल्के नागदन्त्यां तु योषिति ॥ २९५ ॥ Śivakoṣa 17.3.295
- शिवकोष शिवक्लीबं गन्धरसे चोपविषाशङ्खाह्वयोः स्त्रियाम् । शिवः पुरे पुण्डरीके बकुले सैन्धवे शिवम् ॥ ५०१ ॥ Śivakoṣa 24.1.501
- शिवकोष देववृक्षकालमेषी समङ्गायां वाकुच्यां त्रिवृताभिदि । देववृक्षः पुरे पर्णे मन्दारादौ स्त्रुवोद्रुमे ॥ ५२२ ॥ Śivakoṣa 26.3.522
- शिवकोष पलङ्कषनन्दीवृक्षस्तु काश्मर्यां कुबेरे च प्ररोहिणि । पलङ्कषा रसामुण्डीलाक्षास्वथ पुरे क्षुरे ॥ ५२३ ॥ Śivakoṣa 26.3.523
- शब्दरत्नावली खखं पुरेन्द्रियशून्येषु बिन्दुक्षेत्रविहायसि । सुखे संवेदने देवलोके दीप्तौ नपुंसकम् ॥ Śabdaratnāvalī 7.2.1
- शब्दरत्नावली अधिष्ठानअधिष्ठानं प्रभावेऽध्यासने चक्रे पुरेऽपि च । अन्वासनञ्चकारार्थशोचनस्नेहवस्तिषु । अर्यमा भास्करे पुंसि पितृदेवात्तरेऽपि च ॥ Śabdaratnāvalī 7.20.103
- शब्दरत्नावली मधुरामधुरा शतपुष्पायां तथा मधुरिकापुरोः । मन्दरो मन्दबहुलमन्थाद्रिवृक्षभित्सु च ॥ Śabdaratnāvalī 7.27.93
- शब्दरत्नाकर क्षितिक्षेत्रं तु दारकेदारपुण्यस्थानात्ममूर्तिषु । पुरे योनौ समूहेऽथ मेदिन्यां च क्षये क्षितिः ॥ १८९७ ॥ Śabdaratnākara 4.1.1897
- शब्दरत्नाकर दुर्गअव्यये दरमल्पार्थे दरः शङ्खे भये बिले । दुर्गा तु पार्वती दुर्गो राष्ट्रे दुर्गं वने पुरे ॥ १९३९ ॥ Śabdaratnākara 4.1.1939
- शब्दरत्नाकर निगमनिगमो निर्णये वेदे पुरे मार्गे वणिक्पथे । कर्म भृत्युपभोगेषु निर्वेशो मूर्च्छनेऽपि च ॥ २१०९ ॥ Śabdaratnākara 4.1.2109
- तन्त्राभिधान बषष्ठी पुरं च पेटा च मोदको गगनं प्रति । पूर्वाषाढा-मध्यलिङ्गे शनिः कुम्भ-तृतीयकौ ॥ १३१ ॥ Tantrābhidhāna 2.40.131
- तन्त्राभिधान भप्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका । भीमसेनः सुधासेनः सुमुखं माया पुरं हरः ॥ १३४ ॥ Tantrābhidhāna 2.41.134
- वैजयन्ती ऊमइंद्रो विषात्मशक्रार्केष्वीश्वरे नामतः परः । इष्वोऽभिलाष आचार्य ऊमो व्योम्नि पुरेऽपि च ॥ ८ ॥ Vaijayantī 6.1.8
- वैजयन्ती क्षेत्रक्षेत्रं गृहे पुरे देहे केदारे योनिभार्ययोः । पुण्यस्थाने समूहे च घृतं त्वाज्येंऽबुसर्पिषोः ॥ ६ ॥ Vaijayantī 6.3.6
- वैजयन्ती दुर्गदिग्धो विषप्रलिप्तेषौ लिप्ते स्नेहप्रवृद्धयोः । दुर्गे राष्ट्रे वने दुर्गं दुर्गमे नरके पुरे ॥ ४१ ॥ Vaijayantī 6.5.41
- वैजयन्ती निगमऊर्णाविकारे नमतो धूमे दिनकरेऽपि च । निगमो निश्चये वेदे पुरे पथि वणिक्पथे ॥ ३५ ॥ Vaijayantī 7.1.35