कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धनुस्

dhanusक्ली · neut.

In 25 kośas: 49 synonym verses, 10 as a nānārtha head word, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.775 · p. 32
धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् ।द्रुणासौ लस्तकोऽस्यान्तरग्रं त्वर्तिरटन्यपि ॥ ७७५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.141
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.464 · p. 53
अस्त्रं धनुरिष्वासं कोदण्डं धन्व कार्मुकं चापम् ।बाणासनं द्रुणा स्यान्मौर्वी ज्या सिञ्जिनी गुणो जीवा ॥ ४६४ ॥
metre not recognised
genderक्लीneut.
धनुः सान्तमुषन्तोऽपि धनुरेवं धनूर्मता ।घनु(?)र्धन्व च तुल्य(ल्ये?) द्वे रिष्टिरृष्टिरुभे समे ॥ २१३ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.38 · p. 2
वणिक् तुला वाणिजश्च वृश्चिकोऽलिसरीसृपः ।चापो धनुश्च धनुषो कोदण्डकार्मुकोऽपि च ॥ ३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ण्ड (wrong syllable)
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नृचतुष्पदजलकीटसरीसृपसंज्ञा Gaṇitanāmamālā 30.115 · p. 7
गोसिंहाजमृगाद्यर्द्धं धनुरन्त्यं चतुष्पदा ।कीटस्तु कर्कटो राशिर्वृश्चिकोऽपि सरीसृपः ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.102 · p. 19
हस्तो हस्तैश्चतुर्भिः स्याद्धनुर्दण्डश्च तैः पुनः ।द्विसहस्रमितैः क्रोशः क्रोशाभ्यां गोरुतं पुनः ॥ १०२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.261 · p. 117
स्यादस्त्रियां धनुः षान्तं धनुः पुंसि धनूः स्त्रियाम् ।तृणता त्रिणता चापो न स्त्री गाण्डीवगाण्डिवौ ॥ २६१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.322 · p. 124
धनुः खड्गो गदाचक्रवज्रखट्वाङ्गतोमराः ।यमदंष्ट्रा क्षुरीमूलं कर्तरी मुद्गरो हलम् ॥ ३२२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.70 · p. 256
भक्ष्यबीजः स्नेहबीजो वनद्रुस्तापसप्रियः ।धनुःपटः पियालश्च पटोऽपि च धनुर्द्धनू ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.226 · p. 405
वृश्चिको ना धनुः क्लीबे मकरः कुम्भमीनकौ ।ते तत्तन्नामपर्याया मासं शुक्रबुधारुणाः ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.74 · p. 469
शुभावद्यहृषीकाणां शुक्लस्य जलपुष्पयोः ।दलांशुकमनोदारुविलपिच्छधनुर्युधाम् ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.195 · p. 483
कर्माष्ठीवद्गुरुदन्तोममहिम्नां नाम पक्ष्मणोः ।धनुषः स्यादिति क्लीबपुंसयोः प्रकृतिस्थिताः ॥ १९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.108 · p. 38
जूकस्तुलाथ कौर्पी वृश्चिकनामाऽश्वितौ क्षिकौ धनुषि ।आकोकेरो मकरो मृगोऽथ हृद्द्रुग्घटोऽथ मीनोऽन्त्यः ॥ १०८ ॥
गीतिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.63 · p. 118
दण्डोऽस्त्रियां चतुर्हस्तो धनुरत्र न योषिति ।हस्तषोडशकोन्माने दण्डे काण्डं न योषिति ।धनुषां तु सहस्रे द्वे क्रोशः क्रोशद्वयं पुनः ॥ ६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.67 · p. 140
पिसालश्च प्रियालश्च पटो द्राक्षाफलो धनुः ।शालः शाखामृगास्वाद्यत्वक्स्त्री तापसवल्लभः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.24 · p. 145
क्रन्दनं चारुष्करस्तु तपनोऽग्निमुखो द्वयोः ।अरुष्को वीरवृक्षः स्याद्रक्षोघ्नो रञ्जनो धनुः ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 264
क्षुद्रकानां मालवानां सेनायां वृन्दसंयुता ।वदन्ति तां कोषविदो बुधाः क्षौद्रकमालवीम् ॥सेनाजघनभागे तु भवेत्प्रतिस[120b]रस्त्रिषु ।नासीरं ना न सेनाग्रं सज्जनं तूपरक्षणम् ॥शस्त्रं ना न प्रहरण-वधत्रास्त्र-धनूंषि च ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.16 · p. 264
शरासनं धनुश्चाप-कोदण्डाः स्युर्न योषिति ।दृढधन्वा दृढेष्वासोऽथाह्वये शतधन्ववत् ॥भवेच्छतधनुश्चायं भेद्यलिङ्गा अमी मताः ।कोटिरस्यार्तिरटनी मध्यभागस्तु लस्तकः ॥ १६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.74 · p. 116
बर्हिर्दर्भेऽथ तमो राहौ वीर्ये सहो धनुश्चापे ।स्नेहो गेहो लोहो *हो बर्हो गृहं पटहः ॥ ७४ ॥
metre not recognised
genderपुंक्लीm. n.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः पुंसि स्युः । अयं पुञ्जः सङ्घातः । अद्रिः पर्वतः । कोणो गृहादीनाम् । करीषो गोमयविकारः । [रत्नपिण्याकव्याख्यानं नास्ति] ।गर्भ औदर्यः । दर्भः कुशः । अर्भो बालः । पत्तनादीनां ये पर्यायाः शब्दास्तेषां नपुंसकता । इदं पत्तनं नगरं पुरमित्यादि । शुल्बं म्लेच्छमुखम् । ताम्रमुदुम्बरमित्यादि । चापं धनुः कार्मुकमित्यादि ।विडव[बिट्व]र्णा स्त्री ज्ञेया सा[स]स्नावीथ्यौ च नीविभेर्यौ च ।मञ्जूषा गण्डूषा मूषा परिषद्गुहा चैव ॥ ६६ ॥
metre not recognised
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.134 · p. 74
भल्लातके वीरतरुररुष्कोऽरुष्करो व्रणः ।भौतिको भूतरुड्भूरिस्नेहः शोफकरो धनुः ॥ १३४ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.198 · p. 33
कार्मुकं धन्व कोदण्डं धर्ममस्त्रं शरासनम् ।कार्मुकं तु चतुर्हस्तं कोदण्डं त्र्यङ्गुलं विना ॥ १९८ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 79 · p. 40
कार्मुकं धन्व चापं च धर्म कोदण्डकं धनुः ।शिलीमुखादेरसनं तत्कोटिमटनीं विदुः ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.16 · p. 8
नन्दकोऽसिर्गदा कौमोदकी कौपोदकी च सा ।शार्ङ्ग धनुर्मणिः स्यमन्तको हस्तेऽथ कौस्तुभः ॥ १६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.382 · p. 149
कोदण्डं कार्मुकं चाप इष्वासोऽस्त्रं धनुस्तथा ।जीवा मौर्वी गुणो गव्या ज्या शिञ्जा शिञ्जिनी द्रुणा ॥ ३८२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.74 · p. 220
शिलाभवस्थानकभेषजास्थि-रुचत्वचद्वारहलासृजां च ।फलप्रसूनद्रवतां सुखादि-धनुर्दृशां हिङ्गुकुसुम्भकादेः ॥ ७४ ॥
उपेन्द्रवज्रा
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.166 · p. 231
ब्रह्म कर्म धनुर्नामाष्ठीवत्पक्ष्मविहायसी ।शिग्रुर्भूममहिम्नी चेत्यादयः पुंनपुंसकाः ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.19 · p. 4
यजुर्वेदे यजुर्याज्या सामवेदे तु शामती ।गान्धर्वी मोदिनी गैती धनुर्वेदे धनुः स्मृतम् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.356 · p. 70
आयुधेऽस्त्रं च शस्त्रं च हरं प्रहरणं तथा ।धनुर्धनुश्च चापश्च कथितौ पुंनपुंसकौ ॥ ३५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.222 · p. 16
शस्त्रमस्त्रं प्रहरणं हननं हेतिरायुधम् ।धनुः शरासनं चापः कोदण्डः कार्मुकेषुमुक् ॥ २२२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.27 · p. 37
धनुः कोदण्डमिष्वासश्चापो धन्व शरासनम् ।कार्मुकं जीवा प्रत्यञ्चा ज्यामौर्वीसिञ्जिनीगुणाः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.41 · p. 16
धनुश्च मकरश्चैव कुम्भो मीनश्च राशयः ।
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1266 · p. 199
धनु धनुर्धनूर्धन्व कोदण्डं कार्मुकं द्रुणम् ।इष्वासोऽस्त्रं तथाऽऽसश्च चापः स्याच्च शरासनम् ॥ १२६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2021 · p. 334
राजादनः पियालश्च प्रियालश्च धनुः पटः ॥ २०२१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2022 · p. 334
राजातनो धनुश्चैव सन्नकद्रुः पटः पुनः ।एतन्नामानि मन्यन्ते राजादनद्रुमस्य वै ॥ २०२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.228 · p. 16
मेषो वृषश्च मिथुनं कर्कटः सिंह एव च ।कन्या तुला वृश्चिकश्च धनुर्मकर इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.323 · p. 132
अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधम् ।अस्त्रियौ तु धनुश्चापौ धनुकोदण्डकार्मुकम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.324 · p. 132
धनुर्ना तावरं क्लीबे स्यादिष्वासः शरासनम् ।तृणता काण्डमित्येवं क्वचित् केचित् प्रचक्षते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.272 · p. 210
शस्त्रं, चापे धन्व धन्वं पुंक्लीबो धनुवद्धनुः ।धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके ॥ २७२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ण (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1327 · p. 161
अस्त्रशरासनकार्मुककोदण्डद्रोणधन्वधर्माणि ।वा पुंसि चापधनुषी स्त्री तृणताऽस्याग्रमटनिरार्त्निश्च ॥ १३२७ ॥
गीतिः
genderपुंक्लीm. n.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.7 · p. 68
नारसिंही च वाराही हयग्रैवी धनुस्तथा ।बाणमुद्रा ततः पर्शुर्जगन्मोहनिका परा ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.11 · p. 69
पाशाङ्कुशवराभीतिखड्गचर्मधनुःशराः ।मौषली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.22 · p. 70
हयग्रीवार्चने चैव हयग्रैवीं प्रदर्शयेत् ।रामार्चने धनुर्बाणमुद्रे पर्शुस्तथार्च्चने ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.85 · p. 76
पाशाङ्कुशवराभीतिधनुर्बाणाः समीरिताः ।कनिष्ठाऽनामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.57 · p. 39
हस्तद्वयं तु सक्तिष्कुर्हस्तत्रयमलीमकम् ।चतुर्हस्तो धनुर्दण्डो धनुर्धन्वंतरं युगम् ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.57 · p. 49
गृञ्जनः स्वादुगन्धा च प्रियालुस्तु धनुः पटः ।कार्ष्मर्ये गोपभद्रा स्यात् कार्ष्मरी कृष्णवृन्तिका ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.172 · p. 118
अस्त्रियौ चापधनुषावासेष्वासौ धनुर्द्रुणम् ।कार्मुकं धन्व कोदण्डमायुधाग्र्यं शरासनम् ॥ १७२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास नश्लोकः Dharaṇikośa 19.3.5 · p. 126
धनुश्चापे राशिभेदे धामिन्याख्यद्रुमेऽपि च ।उकारान्तो धनुशब्दो यश्च सान्तो भविष्यति ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 नु (wrong syllable)
धरणिकोश Dharaṇikośa · धरणिदास सार्धश्लोकः Dharaṇikośa 31.2.4 · p. 221
नासा च नासिका ज्ञेया नासा द्वारोर्ध्वदारु च ।धनुश्चापे राशिभेदे प्रियालाख्यद्रुमो धनुः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.1 · p. 246
धनुः पियाले नरि राशिभेदे-शरासनेऽसावपि शस्त्रमात्रे ।धनुर्धरे तु त्रितये तनुस्तुत्वक्काययोः स्त्री विरले कृशेऽल्पे ॥ १ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.13 · p. 383
[90b]धनुः पियालद्रुमधन्विनोर्नान स्त्री भवेद्धन्वनि राशिभेदे ।तपुः पुमानग्निविपक्षसूर्येचाशीः स्त्रियां स्याद्धितशंसनेऽपि ॥ १३ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.10 · p. 43
धनुर्मकरकुम्भानां क्रमाद्द्वादशराशिनि ।ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ १० ॥
अनुष्टुप्
meaningsराशि
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.639 · p. 97
धन्वी तु ना धनूराशौ धानुष्के तु भवेत् त्रिषु ।धनुर्नृशण्डश्चापे क्ली चतुर्हस्तप्रमाणके ॥ ६३९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.12 · p. 234
धनुर्ना राशिभेदे स्यात्पियालद्रुमचापयोः ।धनं वित्ते गोधने च स्नेहपात्रेऽपि न द्वयोः ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.24 · p. 295
तेजः क्लीबं पराक्रान्तिप्रभाववीर्यदीप्तिषु ।धनुः पियाले राशौ ना चापेऽस्त्री धन्वनि त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.19 · p. 221
दिष्टिः सुखे च दाने च धात्री भुव्युपमातरि ।धनुः सुस्त्रीधनुर्ज्यासु धाना बीजेऽपि भूरुहाम् ॥ १९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.15 · p. 282
धनुर्मकरकुंभानां क्रमाद्द्वादशराशिषु ।सर्पस्य सीसके नागकेसरे द्विपसर्पयोः ॥ १५ ॥
अनुष्टुप्
meaningsराशि

धनुस् as a meaning in nānārtha verses