गण्डूष
gaṇḍūṣaपुं · masc.In 14 kośas: 12 synonym verses, 9 as a nānārtha head word.
प्रसृते तु जलाधारे गण्डूषश्चुलुकश्चलुः ॥ ५९८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सिंहनादो भवेत् क्ष्वेडा गण्डूषो मुखपूरणम् ।प्रभावतां वदन्त्यार्याः प्रभुतां प्रभविष्णुताम् ॥ ७८५ ॥
अनुष्टुप्
genderपुंmasc.
जागर्यं जाग्रिया च स्याद् जागरा जागरोऽपि च ।गण्डूषोऽपि गण्डूषा चुलुकं चलुकं भवेत् ॥ २६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ग (syllables merged)
genderपुंmasc.
कीलरालपटोलानां तथा कम्बलभल्लयोः ।दंशगण्डूषरभसलालसानां ततोऽपि च ॥ १२१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
प्रसृते सद्रवे द्वंद्वे गण्डूषश्चुलुकश्चुलुः ।प्रसृताभ्यां युताभ्यां स्यादञ्जलिर्नरलिङ्गकः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
गण्डूषो रभसो भाश्च वेतसो लालसो मसिः ।दोष्णि बाहुश्च बाहोऽहिर्हीहाद्याः प्रत्ययान्तरैः ॥ ३१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
चलुकः चलुराख्यातो गण्डूषो द्रवपूरितः ।बद्धमुष्टिकरो रत्निर्निष्कनिष्ठोऽप्यरत्निकः ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
वर्तिः कुटिस्त्रुटिर्भल्लदंशगण्डूषलालसाः ।रत्न्यरत्नी अणिः श्रेणिरूर्मिशम्यौ मषी मसी ॥ ११३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
पुनश्च प्रसृतौ हस्तौ साप्यञ्जलिर्हि मन्यते ।प्रसृते च द्रवाधारे गण्डूषश्चुलुकस्तथा ॥ ९६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्ज (wrong syllable)
genderपुंmasc.
प्रसृतं सजले हस्ते घनसंयोजिताङ्गुलौ ।तस्मिन् गण्डूषचुलुकचलुकानि चलु स्मृतम् ॥
अनुष्टुप्
genderपुंmasc.
गण्डूषगर्जजागर-भुजकीलज्वालवर्तकव्रीडाः ।उत्कण्ठशटवराटक-रभसाः स्त्रीत्वे तु टाबन्ताः ॥ १७ ॥
आर्या
genderपुंस्त्रीm. f.
तौ संहतौ संहतलः सोंऽजलिः करभावपि ।प्रसृते तु द्रवाधारे गण्डूषश्चुलुकश्चुलः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
गण्डूषो मुखपूर्तौ स्यात्करिहस्ताङ्गुलावपि ।गण्डुषोऽपि च गण्डूषोऽप्यङ्गुल्यर्धत एव च ॥
अनुष्टुप्
अह्नो मुखेऽथाननपूरणे स्या-द्गण्डूष उक्तो मिथुने तथैव ।हस्ताङ्गुलौ च द्विरदस्य तद्वत्बुधैः प्रदिष्टः प्रसृतोन्मिते च ॥ ५४ ॥
उपजातिः
तृणधान्यविशेषे च गण्डूषा मुखपूरणे ।द्रवप्रपञ्च आस्येन निरोध्ये शाकटायनः ॥ ६४३ ॥
अनुष्टुप्
meaningsमुखपूरण
गजस्य पुष्करेऽन्ये तु प्रसृतान्मितवस्तुनि ।अन्ये तु प्रसृते लिङ्गत्रयेऽसौ कीर्तितो बुधैः ॥ ६४४ ॥
अनुष्टुप्
doubtful
प्रसृते तु द्रवाधारे गण्डूष इति यादवः ।गण्डोलस्तु पुमान् पिण्डे गजस्य मुखपार्श्वयोः ॥ ६४५ ॥
अनुष्टुप्
meaningsप्रसृत
उत्प्रेक्षाऽवधारणे स्यात्काव्यालङ्कारभिद्यपि ।कल्माषो राक्षसे पुंसि कृष्णे च कृष्णपाण्डरे ॥कलुषं चाविले पापे किल्विषन्तु रुगागयोः ।कुल्माषः काञ्जिकायान्तु यावके रुग्विशेषके ॥गण्डूषा हस्तिहस्ताग्रे पुंसि वा मुखपूरणे ।प्रसृतोन्मितनीरादौ क्लीबलिङ्गञ्च कुत्रचित् ॥गवाक्षी शक्तवारुण्यां गवाक्षो जालके कपौ ।गोरक्षके नागरङ्गे पिच भवेत्पुमान् ।जिगीषा स्त्री जयेच्छायां व्यवसायप्रकर्षके ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
मत्तेभे गर्जितः पुंसि क्लीबे मेघेभनादयोः ।गण्डपूर्तौ तु गण्डूषः प्रसृते करिपुष्करे ॥ २०८६ ॥
अनुष्टुप्
गर्जितो मत्तमातङ्गे क्ली तन्नादेंऽबुदध्वनौ ।गण्डूषोऽस्त्री गण्डपूर्तौ प्रसृते गजपुष्करे ॥ ३४ ॥
अनुष्टुप्