कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dvirūpadhvanisaṅgraha

द्विरूपध्वनिसङ्ग्रह Dvirūpadhvanisaṅgraha

278 verses · 2,126 words tagged · 225 marked doubtful (dashed)

Part 3 (3/3)

अवतोका वताका च दामदामे उभे समे ।मन्यो मन्थाश्च (मन्था च?) कथितः क्रमेलः स्यात क्रमेलकः ॥ २४१ ॥
241 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
छा(छ?)गलश्छागलश्छागस्तथा छगलको भवेत् ।वैदेहकः स्याद्वैदेहो वाणिजो वणिगुच्यते ॥ २४२ ॥
242 · p. 73
अनुष्टुप्
नीविर्नीवी परीवर्तः परिवर्तोऽपि दृश्यते ।नैमेयो निमयश्च स्यान्निमयमपि दृश्यते ॥ २४३ ॥
243 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 म (wrong syllable)
यौतवं पौतवं खारी खरिः खारश्च दृश्यते ।वण्टको वण्ट ऋक्थं स्याद्रिक्थं मुक्ता च मौक्तिकम् ॥ २१ ॥
21 · p. 73
अनुष्टुप्
शातकौम्भं शातकुम्भं भर्मं भर्म मणिर्मणी ।लोहो लौहोऽभ्रकं चाभ्रं समौ पारदपारतौ ॥ २४५ ॥
245 · p. 75
अनुष्टुप्
वितन्नकं वितन्नं च गन्धकं गन्धिकं समे ।सिक्थं भवेत् सिक्थकं च सीसकं सीसमुच्यते ॥ २४६ ॥
246 · p. 75
अनुष्टुप्
तन्त्रवायः तन्त्रवापः कुलिकः कूलिकः समौ ।वापदण्डो वायदण्डो रोमा रोमश्च दृश्यते ॥ २४७ ॥
247 · p. 75
अनुष्टुप्
तुरिस्तुरी च कथिता व्युतिर्व्यूतिरपीष्यते ।पाञ्चालिका च पाञ्चाली भवेत् पाञ्चलिकाऽपि च ॥ २४८ ॥
248 · p. 75
अनुष्टुप्
चर्मारः स्याच्चर्मकारोऽसिधारोऽप्यसिधारकः ।समौ चाण्डालचण्डालौ चोरश्चौरोऽपि कथ्यते ॥ २४९ ॥
249 · p. 75
अनुष्टुप्
स्तेनः स्तेन्यश्च तुल्यौ द्वौ पाटच्चरः पटच्चरः ।चोरिका चौरिका स्तैनं स्तैन्यं च परिकीर्तितम् ॥ २५० ॥
250 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable)
वीतंसः स्याद्वितंसश्च खुरिकक्षुरिकौ समौ ।कर्मारः कर्मकारश्च चेडी चेढी च चेटिका ॥ २५१ ॥
251 · p. 75
अनुष्टुप्
दासी च दासिका प्रोक्ता प्रेष्यः(ष्य?)प्रैष्यावुभौ समौ ।दासेरदासदासेयास्तुल्याः कुक्कुरकुर्करौ ॥ २५२ ॥
252 · p. 75
अनुष्टुप्
पादुः स्यात् पादुका वघ्रिर्वध्रीं(?) वध्री च कथ्यते ।मूषी मूषा मुषा च स्यात् तुरिस्तुलि च तुलिका ॥ २५३ ॥
253 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 तु (wrong syllable)
इषिका स्यादीषिका च ईषीका च निगद्यते ।शारिः शारी वेधनिका वेधनी च निगद्यते ॥ २५४ ॥
254 · p. 75
अनुष्टुप्
आस्फोटनी स्फोटनी च तन्त्रणा(?)स्फोटनी मता ।शूर्मिः शूर्मी च शूर्मश्च भरण्याभरणं भवेत् ॥ २५५ ॥
255 · p. 75
अनुष्टुप्
समौ निष्ठेव निष्ठीव सेवनं सीवनं भवेत् ।त्रुटिस्त्रुटी स्याद्बहुलं बहु स्यात् पुरुहं पुरु ॥ २५६ ॥
256 · p. 75
अनुष्टुप्
मञ्जुः स्यान्मञ्जुलं विज्ञानिकवैज्ञानिको समौ ।कमनः कामनस्तुल्यौ भीरुभीरुकभीरकाः ॥ २५७ ॥
257 · p. 76
अनुष्टुप्
अनुदारोऽप्युदारः स्यादनुदग्र उदग्रवत् ।वादान्यः स्याद्वदान्योऽपि मार्षो मारिष उच्यते ॥ २५८ ॥
258 · p. 76
अनुष्टुप्
बन्धूरं बन्धुरं तुल्यौ सदातनसनातनौ ।कक्खटं खक्खटं च स्यात् जठरं जरठं भवेत् ॥ २५९ ॥
259 · p. 76
अनुष्टुप्
पुरातनं पुराणं स्यात् प्रतनं प्रत्नमुच्यते ।नवं नव्यं नवीनं च चिक्कण(णः?) चिक्वणः समौ ॥ २६० ॥
260 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
वहितः स्यादवहितो भवेदमिषमामिषम् ।उन्नायः स्यादुन्नयश्च तुल्यौ डमरडामरौ ॥ २६१ ॥
261 · p. 76
अनुष्टुप्
जागर्यं जाग्रिया च स्याद् जागरा जागरोऽपि च ।गण्डूषोऽपि गण्डूषा चुलुकं चलुकं भवेत् ॥ २६२ ॥
262 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ग (syllables merged)
मृगतृष्णा मृगतृषा मृगतृट् मृगतृष्णिका ।विकृतं वैकृतं च स्यात् तच्च वैकृत्यमुच्यते ॥ २६३ ॥
263 · p. 76
अनुष्टुप्
परिहासः परीहासो हासो हास्यं हसोऽपि च ।कौतुकं कुतुकं तुल्ये कौतूहलकुतूहले ॥ २६४ ॥
264 · p. 76
अनुष्टुप्
कूर्दनं कुर्दनं च स्याज्जृम्भो जृम्भापि जृम्भिका ।विङ्कणं विङ्खणं तुल्ये भङ्गिर्भङ्गी उभे समे ॥ २६५ ॥
265 · p. 76
अनुष्टुप्
कोषकोशौ वेषवेशौ धूलिधूल्यौ समे मते ।रंहो रङ्घोऽपि निर्दिष्टमधोऽङ्घश्चोच्यते बुधैः ॥ २६६ ॥
266 · p. 76
अनुष्टुप्
गजे मतङ्गमातङ्गौ नाग(गे?) कालीयकालियौ ।कुठः कूठश्व निर्दिष्टः कविभि … ॥ २६७ ॥
267 · p. 76
अनुष्टुप्metre not read in every line
स्त्रीपुष्पे गुणधूल्योश्च रजोऽयं रजसा सह ।गुणेऽदन्तं तमः सान्तं तमश्चाहुर्मनीषिणः ॥ २६८ ॥
268 · p. 76
अनुष्टुप्
अन्धकारे तमः प्रोक्तं तमसेन समं बुधैः ।तपं च तपसा सार्धं महसा च महं वदेत् ॥ २६९ ॥
269 · p. 76
अनुष्टुप्
सहचारः सहचरः स्याज्झिण्टीसहगामिनोः ।आवालं वालमुद्दिष्टं(?) फले शुष्के मनीषिभिः ॥ २७० ॥
270 · p. 77
अनुष्टुप्
दावो दवश्चोपतापे विपिने विपिनानले ।क्षेमं क्षौमं च निर्दिष्टं कोविदैरष्ट(?)वस्त्रयोः ॥ २७१ ॥
271 · p. 77
अनुष्टुप्
दुःखं दुष्खमपि प्रोक्तं सुकृतं सूकृतं तथा ।भन्दं भद्रमपि प्रोक्तं सुखं सौख्यमुभे समे ॥ २७२ ॥
272 · p. 77
अनुष्टुप्
स्त्री हलन्त … स्युर्वाग्वाचादिग्दिशादयः ।बाहुल्येन घञि प्रादेर्दीर्घमिच्छन्ति यत्नतः ॥ २७३ ॥
273 · p. 77
अनुष्टुप्metre not read in every line
परिरम्भपरीरम्भादयो ज्ञेयाः प्रयोगतः ।स्त्रीदन्तत्वात्(?) पाक्षिके … मताः ॥ २७४ ॥
274 · p. 77
अनुष्टुप्metre not read in every line
स्त्रियां … सुमुखीसुमुखादयः ।गुणोऽदन्तात् स्त्रियां मृद्वी मृदु मृद्वादयो मताः ॥ २७५ ॥
275 · p. 77
अनुष्टुप्metre not read in every line
अवगाहो वगाहश्च विश्रामो विश्रमो भवेत ।शर्वः सर्वश्च शम्भौ तु तत्र हारो हरे भवेत् ॥ २७६ ॥
276 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्विरूपाः कतिचित् शब्दाः प्रसिद्धाः कथिता मया ।अपरे बहवो ज्ञेयाः प्रयोगेण मनीषिणाम् ॥ २७७ ॥
277 · p. 77
अनुष्टुप्
हरिहरखानकुलाब्जद्युमणेर्गौराङ्गमल्लिकाज्जातो ।भरतो द्विरूपकोषं चक्रे विदुषां विनियोगेन ॥ २७८ ॥
278 · p. 77
आर्याmetre not read in every line