कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोपुच्छ

gopucchaपुं · masc.

In 6 kośas: 4 synonym verses, 2 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.416 · p. 28
अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः ॥ ६६० ॥अपि गोस्तनगोपुच्छावर्धमर्धं यथोत्तरम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.562 · p. 64
देवच्छन्दः शतयष्टिरर्धो माणवकः स्मृतः ।हारो गुच्छार्धगुच्छौ च गोपुच्छश्च भवेत्क्रमात् ॥ ५६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.77 · p. 226
तद्वद्गोस्तन-गोपुच्छावेकावल्येकयष्टिका ।सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.141 · p. 170
अपि गोस्तनगोपुच्छावर्धमर्धं यथोत्तरम् ।एकावल्यनुकण्ठी च हारः स्यादेकयष्टिकः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.688 · p. 107
गोनासः स्यात् तिलित्साख्यसर्पजातौ स्त्रियां पुनः ।गोर्नासिकायां गोनासा गोपुच्छस्तु द्वियष्टिके ॥ ६८८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.689 · p. 107
हारभेदे पुमान् गोस्तु लाङ्गूले पुन्नपुंसकम् ।गोरक्षो नागरङ्गे ना गवां तु त्रातरि त्रिषु ॥ ६८९ ॥
अनुष्टुप्
doubtful

गोपुच्छ as a meaning in nānārtha verses