गोलाङ्गूल
golāṅgūlaपुं · masc.In 12 kośas: 11 synonym verses, 2 as a nānārtha head word, 2 as a meaning of another word.
पृथौ गृण्डिबलोपाकौ कोकस्त्वीहामृगो वृकः ।अरण्यश्वा मर्कटस्तु कपिः कीशः प्लवंगमः ॥ १२९१ ॥प्लवंगः प्लवगः शाखामृगो हरिर्बलीमुखः ।वनौका वानरोऽथासौ गोलाङ्गूलोऽसिताननः ॥ १२९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderपुंmasc.
गोलाङ्गूल इति प्रोक्तः कृष्णवक्त्रस्तु मर्कटः ।कपेः क्रीडादिकं किञ्चित्कापेयमिति कथ्यते ॥ २३२ ॥
अनुष्टुप्
genderपुंmasc.
मर्कटे तु सुवेलः स्यात्क्ष्वीङ्कोसौ लोहिताननः ।गोलाङ्गूलोऽसितास्यः स्याद्गोमायुमृगवञ्चकः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
शाखामृगो महावेगः क्ष्विङ्कोऽसौ लोहिताननः ।गोलाङ्गूलोऽसितास्यः स्याद्गोमायुर्मृगधूर्तकः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
स च स्याद्रक्तगौरास्यः श्वेतः कृष्णमुखोपरः ।गोलाङ्गूलः श्यामपादकरः श्वेतोऽपि सर्वतः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कपिलो मर्कटश्चाथ गोलाङ्गूलोऽसिताननः ।वाली वालिः शक्रसुतः सुग्रीवस्त्वर्कनन्दनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
तत्पर्य्यायचरो ज्ञेयो हरिर्वलिमुखः कपिः ।वानरः प्लवगश्चैव गोलाङ्गूलोऽथ मर्कटः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
शाखामृगो वनौकाश्चारण्यश्वा हरिकीशकौ ।प्लवङ्गः श्यामवक्त्रोऽसौ गोलाङ्गूलो विभाव्यते ॥ १९७ ॥
अनुष्टुप्
genderपुंmasc.
श्याममुखो गोलाङ्गूलो लोके लङ्गूर उच्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 म (wrong syllable)
genderपुंmasc.
प्लवंगमो दधिमुखः शाखामृगवलीमुखौ ।गोलाङ्गूलः कृष्णमुखो दीर्घपुच्छो वलीमुखः ॥ ६९६ ॥
अनुष्टुप्
genderपुंmasc.
महावेगो दधिमुखः कुरंगो भल्लुकः पृथुः ।वलीमुखो वनौकास्स गोलांगूलोऽसिताननः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.doubtful
गोवन्दनी फलिन्यां स्त्री गोस्तु गोवन्दना न ना ।वन्दनेऽथ द्वयोर्गोलाङ्गूलः कृष्णमुखे कपौ ॥ २१२ ॥
अनुष्टुप्
meaningsकृष्णमुखकपि
नपुंसकस्तु पुच्छे गोरथो घनरसो नृनप् ।जले पूर्ववदत्रापि समासादि स्त्रियां पुनः ॥ २१३ ॥
अनुष्टुप्
meaningsगोपुच्छ
doubtful
गोलाङ्गूल as a meaning in nānārtha verses
- कोषकल्पतरु मलिनमुखमलिनमुखस्तु प्रेते गोलाङ्गूलेऽनले च खले ॥ ८८ ॥ Koṣakalpataru 6.2.88
- नानार्थार्णवसंक्षेप नीलशीर्षअत्रापि पूर्ववत् सादि नीलशीर्षः पुनर्द्वयोः । गोलाङ्गूलाह्वयकपौ समासाद्यत्र पूर्ववत् ॥ ३२४ ॥ Nānārthārṇavasaṃkṣepa 6.324