कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

पातालकाण्डः · पुराध्यायः (2/2)

आप्रपदीनं प्रपदव्यापि वाल्कादयस्त्रिषु ।अन्तरीयोपसंव्यानपरिधानान्यधोंऽशुके ॥ १२१ ॥
4.3.121 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 प्र (wrong syllable)
चण्डातकं वरस्त्रीणां स्यादर्धोरुकमंबरम् ।संव्यानमुत्तरीयं क्षौमं सूक्ष्मं दुकूलं स्यात् ॥ १२२ ॥
4.3.122 · p. 168
अनुष्टुप्metre not read in every line
वैकक्ष्यं तु बृहतिका प्रावारश्चोत्तरासंगः ।चन्द्रोदय उल्लोचः कदरश्चन्द्रातपो वितानोऽस्त्री ॥ १२३ ॥
4.3.123 · p. 168
उद्गीतिः
मशकहरी तु चतुष्की शिरसि सिगुष्णीषमस्त्री स्यात् ।काण्डपटः स्यादपटी प्रतिसारा यवनिका तिरस्करिणी ॥ १२४ ॥
4.3.124 · p. 168
उद्गीतिः
दूष्यं स्थुलं पठकुटी गुणलयनी केणिका तुल्याः ।नालकं नलकं चापि नलिकं चेत्यपि त्रयः ॥ १२५ ॥
4.3.125 · p. 169
अनुष्टुप्metre not read in every line
पर्याया धनुरादीनां कवचेऽप्राणिनाममी ।निचोलः प्रच्छदपटो वरासी स्थूलशाटिका ॥ १२६ ॥
4.3.126 · p. 169
अनुष्टुप्
चोली तु शाटिका शाटो वरकोऽस्त्री द्विखण्डकः ।निशारो हिमसंपातत्राणे जीर्णे पटच्चरम् ॥ १२७ ॥
4.3.127 · p. 169
अनुष्टुप्
निचोलः कंचुकश्चोलः कूर्पासश्चांगिकोऽस्त्रियाम् ।चीवरं भिक्षुसंघाटी कन्थाकन्थटिके समे ॥ १२८ ॥
4.3.128 · p. 169
अनुष्टुप्
कक्ष्यापटस्तु कौपीनं समौ रल्लककंबलौ ।विशालस्त्वाविकौरभ्रौ हस्तिकर्णस्तु रोचकः ॥ १२९ ॥
4.3.129 · p. 169
अनुष्टुप्
शाणी गोणी छिद्रवस्त्रैश्चीरं खण्डलमस्त्रियाम् ।नक्तकः कर्पटो वस्त्रग्रन्थोऽस्त्री नीविरुच्चयः ॥ १३० ॥
4.3.130 · p. 169
अनुष्टुप्
कक्षः कच्छो गुह्यबन्धः कक्ष्या पृष्ठे कृतोऽञ्चलः ।वस्त्रान्तस्त्वञ्चलो वस्तिस्त्वक्ली भूम्नि दशा न षण् ॥ १३१ ॥
4.3.131 · p. 169
अनुष्टुप्
पुष्कलस्तुम्बिका चाथ प्रान्तत्रसरकेसराः ।आकल्पवेषौ नैपथ्यं प्रतिकर्म प्रसाधनम् ॥ १३२ ॥
4.3.132 · p. 169
अनुष्टुप्
अलंकारस्त्वाभरणं भूषणं मण्डनं पुनः ।विभूषणं परिष्कारः कर्णिका कर्णभूषणम् ॥ १३३ ॥
4.3.133 · p. 169
अनुष्टुप्
उत्क्षिप्तिका तु कर्णाकस्तालपत्रं तु तालकम् ।कर्णपूरस्तु पुष्पाद्यैस्ताडंगो दन्तकादिभिः ॥ १३४ ॥
4.3.134 · p. 169
अनुष्टुप्
वालिका कर्णपृष्ठस्था कुण्डलं कर्णवेष्टनम् ।मौलिः कोटीर उष्णीषं किरीटं मकुटोऽस्त्रियाम् ॥ १३५ ॥
4.3.135 · p. 169
अनुष्टुप्
चूडामणिः शिरोरत्नं स्वस्तिकस्तु त्रिकोणकः ।वालपाश्या पारितथ्या पत्रपाश्या ललाटिका ॥ १३६ ॥
4.3.136 · p. 169
अनुष्टुप्
ग्रैवेयकं कण्ठभूषा लंबनं तु ललंतिका ।स्वर्णैः प्रालंबिकाऽथोरः सूत्रिका मौक्तिकैः कृता ॥ १३७ ॥
4.3.137 · p. 169
अनुष्टुप्
हारो मुक्तावली स्त्री स्यात्तद्भेदा यष्टिसंख्यया ।देवच्छन्दः शतं साष्टमिन्द्रच्छन्दः सहस्रकम् ॥ १३८ ॥
4.3.138 · p. 170
अनुष्टुप्
तस्यार्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ।अर्धं रश्मिकलापोऽस्य द्वादशस्त्वर्धमाणवः ॥ १३९ ॥
4.3.139 · p. 170
अनुष्टुप्
द्विर्द्वादशोऽर्धगुच्छोऽथ पञ्च हारफलं लता ।अर्धहारश्चतुष्पष्टिर्गुच्छमाणवमन्दराः ॥ १४० ॥
4.3.140 · p. 170
अनुष्टुप्
अपि गोस्तनगोपुच्छावर्धमर्धं यथोत्तरम् ।एकावल्यनुकण्ठी च हारः स्यादेकयष्टिकः ॥ १४१ ॥
4.3.141 · p. 170
अनुष्टुप्
यष्टिर्नक्षत्रमालैका सप्तविंशतिमौक्तिका ।गुडकैर्मणिसोपानं चाटुकारश्च हेमजैः ॥ १४२ ॥
4.3.142 · p. 170
अनुष्टुप्
हारमध्यस्थितं रत्नं तरलो नायकोऽपि च ।केयूरमंगदं भूषा दोर्मूले कंकणं करे ॥ १४३ ॥
4.3.143 · p. 170
अनुष्टुप्
आवापकः पारिहार्यं वलयं कटकोऽस्त्रियाम् ।पादेऽसौ हंसकः स्त्रीणामंगुलीयकमूर्मिका ॥ १४४ ॥
4.3.144 · p. 170
अनुष्टुप्
साक्षरांगुलिमुद्रा सा क्षुद्रघंटा तु किंकिणी ।शिंजिनी ना तुलाकोटिर्मंजीरो नूपुरोऽस्त्रियौ ॥ १४५ ॥
4.3.145 · p. 170
अनुष्टुप्
कटिसूत्रं सारसनं मेखला रशनाथ सा ।स्त्रीकट्यां सप्तकी कांची पुंस्कट्यां शेखला त्रयी ॥ १४६ ॥
4.3.146 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
स्त्री चर्क्तिर्वर्णकालेपावनुबोधः प्रबोधनम् ।मार्ष्टिश्चर्चा च चर्चिक्यं समालंभनमित्यपि ॥ १४७ ॥
4.3.147 · p. 170
अनुष्टुप्
स्थासको हस्तबिंबः स्यात् पत्तिच्छेदास्तु राजयः ।चित्रं तमालपत्रं क्ली तिलकोऽस्त्री विशेषकम् ॥ १४८ ॥
4.3.148 · p. 170
अनुष्टुप्
पत्तिस्तु पत्रकं लेखा बाहुगण्डस्तनादिषु ।पत्रांगुलिः पत्ररेखा सा ललाटे ललाटिका ॥ १४९ ॥
4.3.149 · p. 170
अनुष्टुप्
राढा शोभा छवी रुक् त्विट् सुषमा परमा छविः ।त्रिगन्धमेलात्वक्पत्रैस्त्रिसुगन्धं त्रिजातकम् ॥ १५० ॥
4.3.150 · p. 171
अनुष्टुप्
चातुर्जातं तदेव स्यान्नागकेसरकेसरैः ।सर्वगन्धमिदं सेन्दुतक्कोलागरुसिल्हकम् ॥ १५१ ॥
4.3.151 · p. 171
अनुष्टुप्
लवंगपूगतक्कोलजातीफलहिमांशवः ।पंच पंचसुगन्धं स्यादथ तक्कोलकुंकुमैः ॥ १५२ ॥
4.3.152 · p. 171
अनुष्टुप्
कस्तूर्यगरुकर्पूराः सुगन्धो यक्षकर्दमः ।यावो द्रुमामयोऽलक्तो लाक्षा रक्ता जतु क्रिमिः ॥ १५३ ॥
4.3.153 · p. 171
अनुष्टुप्
कालानुसार्यं कालेयं जावकं चाप्यथ स्रजि ।मालांकिलिरथापीडे वतंसोत्तंसशेखराः ॥ १५४ ॥
4.3.154 · p. 171
अनुष्टुप्
केशेषु गर्भकं माल्यं प्रालंबं कण्ठलंबितम् ।प्रभ्रष्टकं शिखालंबि पुरोन्यस्तं ललामकम् ॥ १५५ ॥
4.3.155 · p. 171
अनुष्टुप्
वैकक्ष्यं तिर्यगुरसि स्थितं निर्माल्यमुज्झिते ।संस्कारो गन्धधूपाद्यैरपुमानधिवासनम् ॥ १५६ ॥
4.3.156 · p. 171
अनुष्टुप्
अञ्जनं त्वक्षिसंस्कारः कज्जलं धूमयोनि तत् ।चूर्णानि वासयोगाः स्युः पिष्टातः पटवासकः ॥ १५७ ॥
4.3.157 · p. 171
अनुष्टुप्
रचना स्यात् परिस्कन्धो भावना वासना समे ।अथोपकरणं सर्वं परिबर्हः परिच्छदः ॥ १५८ ॥
4.3.158 · p. 171
अनुष्टुप्
व्यजनं तालवृन्तं स्यात् धवित्रं चर्मणा कृतम् ।आलावर्तस्तु वस्त्रेण चामरं तु प्रकीर्णकम् ॥ १५९ ॥
4.3.159 · p. 171
अनुष्टुप्
पतद्ग्रहः प्रतिग्राहो वालोऽस्त्री दारुणा कृतः ।आसन्दी स्त्री नरि प्रेंखो दीपवल्ली तु दीपिका ॥ १६० ॥
4.3.160 · p. 171
अनुष्टुप्
दीपवृक्षस्तदाधारो दशा वर्तिरथ स्त्रियाम् ।वर्तिर्गृहमणिर्दीपो गिरीयकगुडौ गिरिः ॥ १६१ ॥
4.3.161 · p. 171
अनुष्टुप्
दर्पणो मुकुरादर्शौ कन्दुको गण्डुकः समौ ।पादुकानुपदीना स्यादुपानत् पादक्षिणी ॥ १६२ ॥
4.3.162 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उपला तु दृषत्पुत्रः शिला माता दृषत्समाः ।दर्विस्तु कंविस्तर्डूः स्यात् खजाका दारुहस्तकः ॥ १६३ ॥
4.3.163 · p. 172
अनुष्टुप्
विष्टरं त्वासनं पीठं दारुजं वेत्रजं पुनः ।आसन्दी मञ्चकः खट्वापाश्रयो मत्तवारणम् ॥ १६४ ॥
4.3.164 · p. 172
अनुष्टुप्
शय्या पर्यङ्कपल्यङ्कौ शयनं शयनीयवत् ।प्रस्तरः संस्तरः शय्या रचिता पल्लवादिभिः ॥ १६५ ॥
4.3.165 · p. 172
अनुष्टुप्
कटः किलिञ्जो वर्णस्तु परिस्तोमः कुथा त्रयी ।नमतं चाप्यास्तरणं प्रच्छदस्तूत्तरच्छदः ॥ १६६ ॥
4.3.166 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्या (wrong syllable)
उपधानं तूपबर्हमुच्छीर्षमुपबर्हणम् ।संवापः शयनं स्वापः संवासो वासनं सह ॥ १६७ ॥
4.3.167 · p. 172
अनुष्टुप्
शयने शयसंवेशावुपशायोऽन्तिकेशयः ।पर्यादेरथ पर्यायाः परिशायः समंततः ॥ १६८ ॥
4.3.168 · p. 172
अनुष्टुप्
कामध्वजः कामोत्सवः शृङ्गारः कामविक्रिया ।परिरंभः परिष्वङ्ग आश्लेष उपगूहनम् ॥ १६९ ॥
4.3.169 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मो (wrong syllable)
आलिङ्गनमपि क्रोडीकरणं चाङ्कपाल्यपि ।ग्राम्यधर्मः कामकेली रतिर्निधुवनं रतम् ॥ १७० ॥
4.3.170 · p. 172
अनुष्टुप्
मेहनं मिथुनत्वं च समे निंसनचुंबने ।
4.3.171 · p. 172