कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बुद्धि

buddhiस्त्री · fem.

In 17 kośas: 18 synonym verses, 65 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.309 · p. 16
मतिर्मनीषा बुद्धिर्धीर्धिषणाज्ञप्तिचेतनाः ॥ ३०८ ॥प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः ।संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.1
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.334 · p. 40
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.87 · p. 74
बुद्धिर्मनीषा धिषणा चेतना शेमुषी मतिः ।विदा बुधा धीख्याती च ज्ञप्तिसंवित्तिरित्यपि ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.43 · p. 3
रसातलांबुवेश्मोक्तं पंचमं सुतमात्मजम् ।सन्तानं बुद्धिसंज्ञा च विद्या धीश्चैव नंदनम् ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.143 · p. 433
काव्या संविज्ज्ञप्तिरात्मा पुंसि धीर्धारणावती ।मतिरप्राप्तविषया बुद्धिः संप्रतिदर्शिनी ॥ १४३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.159 · p. 434
विसर्गानन्दग्रहणगतिवाक्यार्थकानि च ।मन एकादशं बुद्धिरहंकारस्त्रयोदशः ॥ १५९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.1 · p. 52
बुद्धिः श्रद्धा प्रतिपदपि चिच्चेतना चोपलब्धिर्-ज्ञप्तिः प्रज्ञा भवति धिषणा शेमुषी धीर्मनीषा ।प्रेक्षा दृष्टिर्मतिरपि धरा वेदना विच्च संवित्प्रज्ञानं तु स्फुरति चरमेऽथाऽव्ययं स्याद्विषा च ॥ १ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.205 · p. 30
बुद्धिः प्रज्ञा मतिर्मेधा मनीषा धिषणा च धीः ।चेतना प्रतिभा ज्ञप्तिशेमुषीदृष्टयस्तथा ॥ २०५ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.136 · p. 33
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.453 · p. 57
अथ स्वास्थ्यं च सन्तोषो धृतिः स्यात् स्मरणं स्मृतिः ।अध्यानं धीर्मतिर्बुद्धिर्मनीषा धिषणा पुनः ॥ ४५३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.316 · p. 22
बुद्धि प्रज्ञा मनीषा धीः शेमुषी धिषणा मतिः ।चित् सम्बित् चेतना प्रेक्षा संज्ञोपलब्धिरात्मजा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.9 · p. 308
विद्युत्तडिच्च धीर्बुद्धिर्वल्ली नीरुदियाः स्त्रियाम् ।शिष्टप्रयोगात्पुंस्त्वे च लज्जायां व्रीड इत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.264 · p. 36
चेतश्चित्तं हृदयमनसी स्वान्तहृन्मानसानिप्रज्ञा बुद्धिः प्रतिपदुपलब्धिः प्रतीतिर्मनीषा ।दृष्टिः संविच्चिदपि धिषणा चेतना शेमुषी धी-र्ज्ञप्तिः प्रेक्षा मतिरपि गतव्यापिनी धीः स्मृतिः स्यात् ॥ २६४ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
खेटो गजेन्द्रश्चण्डीशो दक्षकूर्परगो गदी ।कैटभारिश्च मातङ्गो बुद्धिः कान्तश्च खा-र्णकः ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव धीवर्गः Trikāṇḍaśeṣa 1.5.1 · p. 20
बुद्धिः पण्डा विदा चार्वी विचारस्तर्कनिश्चयौ ।गुञ्जा चर्चाऽथ सिद्धान्तोत्तरपक्षसमाधयः ।कृतान्तः पूर्वपक्षस्तु चोद्यं गीर्भणितिर्गिरा ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.163 · p. 96
महांस्तु लैंगिको ब्रह्मा लिंगज्येष्ठश्च चेतना ।मनीषा शेमुषी बुद्धिर्धीः पूः ख्यातिर्विदा बुधा ॥ १६३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.173 · p. 97
स्वान्तं गूढपदं हृच्च संकल्पो मानसी क्रिया ।मनो बुद्धिरहंकार इत्यंतःकरणं त्रिधा ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीfem.

बुद्धि as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् आत्मन्आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ १०९ ॥ Amarakośa 3.3.109
  • नामलिङ्गानुशासनम् प्रज्ञानप्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥ Amarakośa 3.3.122
  • धरणिकोश स्मृतिश्रुतिर्वेदे च कर्णे च श्रोत्रकर्मणि च श्रुतिः । स्मृतिरिच्छा स्मृतिर्बुद्धिर्वेदाद्या बोधिका स्मृतिः ॥ Dharaṇikośa 15.2.12
  • धरणिकोश उपलब्धिउपलब्धिः स्मृता बुद्धौ प्राप्तौ ज्ञाने च दृश्यते । तीक्ष्णगन्धा वचा प्रोक्ता तीक्ष्णगन्धा च राजिका ॥ Dharaṇikośa 18.2.21
  • धरणिकोश प्रज्ञानविज्ञानं कर्मणि ज्ञाने प्रज्ञानं बुद्धिचिह्नयोः । वसनं छादने वस्त्रे रोदनं क्रन्दनेऽश्रुणि ॥ Dharaṇikośa 19.1.12
  • धरणिकोश चेतनाचेतनो ज्ञानवान्प्राणी चेतना बुद्धिरिष्यते । गायनो मुखरे प्रोक्तो गीतोपजीवकेऽपि च ॥ Dharaṇikośa 19.2.37
  • धरणिकोश दर्शनकर्तनं छेदनं प्रोक्तं स्त्रीणां च सूत्रकर्शने । दर्शनं लोचने स्वप्ने बुद्धिशास्त्रोपलब्धिषु । रञ्जनं रागजननं रञ्जनं रक्तचन्दनम् ॥ Dharaṇikośa 19.2.53
  • धरणिकोश आत्मन्आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च ॥ Dharaṇikośa 19.3.8
  • धरणिकोश चार्बीचार्बी च शोभना ज्ञेया चार्बी बुद्धिरुदाहृता । दर्बिः सर्पफणायां च खजाका दर्बिरिष्यते ॥ Dharaṇikośa 22.2.4
  • धरणिकोश मायात्रयी त्रये त्रिवेद्यां च इज्या यजनशुद्धयोः । माया स्याच्छाम्बरी बुद्धिर्विशल्येऽशल्यदन्तिके ॥ Dharaṇikośa 25.1.10
  • धरणिकोश दृश्विट् स्मृतो मनुजे वैश्ये प्रवेशे विट् च कीर्तिता । दृक् स्मृता दर्शने बुद्धौ नेत्रे च दृक् च वीक्षणे ॥ Dharaṇikośa 29.2.1
  • धरणिकोश प्रेक्षाप्रेक्षा नृत्येक्षणं बुद्धिः प्रेक्षो न्यायानुसारकः । अध्यक्षं विदुराचार्याः प्रत्यक्षेऽधिकृतेऽपि च । गवाक्षः कपिभेदे स्याद्गोदुह्यायां च जालके ॥ Dharaṇikośa 33.2.4
  • कोषकल्पतरु गतिवातिः पुमान्भास्करचन्द्रयोः स्या- द्गतिस्तु यात्राध्वदशाभ्युपाये । नाडीव्रणे स्याच्छरणे च बुद्धौ मतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री । चि[289b]तिस्तु चित्यागणयोर्दितिस्तु स्याद्दैत्यमातर्यपि( ख )ण्डने च । मूले गतौ चापि पतिः प्रभौ स्वा- श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥ Koṣakalpataru 6.16.48
  • कोषकल्पतरु संगतिपुमानगस्तिर्मुनिवृक्षभेदे स्यात्संगतिः संगमबुद्धिनाम्नोः । स्त्री संनतिः स्यात्प्रणतौ ध्वनौ च दैवे च धृत्यां नियतिः स्त्रियां स्यात् ॥ ३१ ॥ Koṣakalpataru 6.16.31
  • कोषकल्पतरु उपलब्धिकृकलासे तृणगोधा भवति विचित्रे तथा कोले । ज्ञानेऽनुभवे प्राप्तावुपलब्धिः स्यात्तथा बुद्धौ ॥ ८० ॥ Koṣakalpataru 6.20.80
  • कोषकल्पतरु दर्शनस्याद्दर्शनं लोचनबुद्धिधर्मे स्वप्नोपलब्ध्योर्मुकुरे च शास्त्रे । कश्मीरजे स्यात्पिशुनं त्रये तु क्रूरे खले पुंसि तु मर्कटास्ये ॥ २५ ॥ Koṣakalpataru 6.21.25
  • कोषकल्पतरु आत्मन्क्लेदा सुधांशौ नरि चौषधौ[18b]च स्नेहा च मित्रे नरि शीतरश्मौ । आत्मा नरि स्याद्धृतिबुद्धिशील- ब्रह्मप्रयत्नेषु वपुर्हृदोश्च । व्यावर्तने स्यात्परतश्च काले- ऽथाध्वा तु संस्थानपथोश्च शास्त्रे ॥ ८५ ॥ Koṣakalpataru 6.21.85
  • कोषकल्पतरु मायमायस्तु पीताम्बरदेवयोः स्यात् स्त्री शाम्बरीबुद्धिदयासु दम्भे । न पुंसि वीर्याऽतिशयप्रभावे शुक्रे तथा तेजसि संप्रदिष्टा ॥ १४ ॥ Koṣakalpataru 6.26.14
  • कोषकल्पतरु काव्यस्त्री त्वामलक्यां ** निल्लकार्थे ( ? ) काव्यः पुमान्दैत्यगुरौ प्रदिष्टः । षण्ढे कवेः स्याद्रसवत्प्रबन्धे स्त्री पूतनायां गदितश्च बुद्धौ ॥ ३३ ॥ Koṣakalpataru 6.26.33
  • कोषकल्पतरु त्रयीकर्मण्युपाये निकृतौ कृतौ च क्रिया त्रयी तु त्रितये त्रिवेद्याम् । बुद्धौ पुरन्ध्र्यामथ वैद्यमाहुः सर्वज्ञरोगप्रतिकारिणोश्च ॥ ५४ ॥ Koṣakalpataru 6.26.54
  • कोषकल्पतरु चार्वीदर्विः फणायां च खजाकिकायां दार्वी हरिद्रासुरदारुणोश्च । कटंकटेर्यामथ शोभनायां बुद्धौ च चार्वी गदिता च पृथ्वी ॥ १२ ॥ Koṣakalpataru 6.29.12
  • कोषकल्पतरु विद्रवशृङ्गारलाक्षारसविस्तरेषु नवच्छदे स्याद्विटपे बले च । पलायने विद्रव एष बुद्धौ स्यात्पुंगवो ना वृषभेऽन्यवत्तु ॥ १७ ॥ Koṣakalpataru 6.29.17
  • कोषकल्पतरु कासूछत्रोषधे स्त्री त्विह बुद्धिशक्त्या- युधे च कासूर्विकलोक्तिषु स्यात् । प्रसूर्जनन्यामपि वामिकायां तथा कदल्यामपि वीरुदर्थे ॥ ८५ ॥ Koṣakalpataru 6.31.85
  • नानार्थार्णवसंक्षेप धीधीस्तु कर्मणि बुद्धौ च धूस्तु यानमुखेऽङ्गुलौ । भारे विकृतगीतौ च गायत्त्राह्वयसामनि ॥ ५५ ॥ Nānārthārṇavasaṃkṣepa 1.1.55
  • नानार्थार्णवसंक्षेप पुर्साम्नां द्रष्टृषु चैकेषु नौर्वाक्कालतरिष्वथ । पूर्देहे नगरे बुद्धौ भास्तु रश्मौ रुचावपि ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 1.1.56
  • नानार्थार्णवसंक्षेप कइडीट् च त्रिषु नाथे स्त्री मेदिन्यां कस्तु ना नगे । अर्कानिलविरिञ्चात्मशब्दबुद्धिमनः स्वपिः ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.5.1
  • नानार्थार्णवसंक्षेप दृश्स्त्री खे स्वर्गे च दृक् तु स्त्री ज्ञानदर्शनबुद्धिषु । नेत्रे च त्रिषु तु द्रष्टृज्ञात्रोर्नृ द्वे हरे हये ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 1.5.12
  • नानार्थार्णवसंक्षेप ज्यानिस्वभावे प्रभवे छन्दोभेदेष्वार्यादिकेष्वपि । ज्यानिस्तु हानौ बुद्धौ च रोगे जिह्वा तु वाचि च ॥ ३९ ॥ Nānārthārṇavasaṃkṣepa 2.1.39
  • नानार्थार्णवसंक्षेप दृष्टिव्रतादेशे च नियमे मौण्ड्ये चोपनयेऽपि च । दृष्टिशब्दोऽक्ष्णि बुद्धौ च ज्ञाने दर्शे दृषत् पुनः ॥ ४८ ॥ Nānārthārṇavasaṃkṣepa 2.1.48
  • नानार्थार्णवसंक्षेप धीताधीता बुद्धौ सुतायां च कन्यायामिति कश्चन । धीतिः स्यादङ्गुलौ पानेऽप्याधारे च व्यवस्थितौ ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 2.1.53
  • नानार्थार्णवसंक्षेप मतिभृतिस्तु धारणे पोषे भृतकादेश्च वेतने । मतिर्बुद्धीच्छयोर्माठिस्तरुपत्रसिरास्वपि ॥ ७७ ॥ Nānārthārṇavasaṃkṣepa 2.1.77
  • नानार्थार्णवसंक्षेप संज्ञासंज्ञाभिधाने सङ्केते हस्ताद्यैरर्थसूचने । सूर्यभार्यान्तरे बुद्धौ चेतनायां च तत्र च ॥ १११ ॥ Nānārthārṇavasaṃkṣepa 2.1.111
  • नानार्थार्णवसंक्षेप आत्मन्देहे यत्ने धृतौ कीर्तौ बुद्धौ मनसि च श्रुते । धर्मे स्वभावे पुत्रेऽर्थे परस्य प्रतियोगिनि ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 2.2.13
  • नानार्थार्णवसंक्षेप कासूव्रात्यादपूर्वपुंयोगवैश्याजे मानवान्तरे । कासूः स्त्री व्याधिबुद्ध्योः स्याच्छक्तिसंज्ञायुधान्तरे ॥ २०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.202
  • नानार्थार्णवसंक्षेप प्रज्ञाप्रस्थोऽस्त्री गिरिसानौ च कुडुबानां चतुष्टये । प्रज्ञा बुद्धौ स्त्रियां त्रिस्तु विदुषि प्रश्नवाक् पुनः ॥ ७१७ ॥ Nānārthārṇavasaṃkṣepa 2.5.717
  • नानार्थार्णवसंक्षेप भगधैर्यसौभाग्यमाहात्म्यधनशुक्रश्रुतेषु च । बुद्धौ चादित्यभेदानामेकस्मिन्नपि नाथ नप् ॥ ८७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.877
  • नानार्थार्णवसंक्षेप महत्महर्लोके च बुद्धौ च महती तु स्त्रियामियम् । त्रिवृत्संज्ञलताजातौ वीणायां नारदस्य च ॥ ९६९ ॥ Nānārthārṇavasaṃkṣepa 2.5.969
  • नानार्थार्णवसंक्षेप मायावर्षा(त्) स्याद्भारतात् त्रिस्तु प्रहतक्षेत्रभूतले । माया स्त्री शाम्बरीबुद्ध्योर्विष्णोर्नवसु शक्तिषु ॥ ९७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.977
  • नानार्थार्णवसंक्षेप प्रज्ञानआदौ प्रधाने प्रमुखं प्रज्ञानं बुद्धिचिह्नयोः । प्रसूनं पुष्पफलयोः प्रपदं तु पदाग्रके ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 3.3.47
  • नानार्थार्णवसंक्षेप चर्षणिवध्वां बुद्धौ मनुष्ये च व्यवसाये च ना पुनः । चतुष्पाद्रावणे त्रिस्तु चतुरङ्घ्रौ पुमान् पुनः ॥ ७३५ ॥ Nānārthārṇavasaṃkṣepa 4.735
  • नानार्थार्णवसंक्षेप धिषणापाठके धर्मशास्त्राणां धर्मस्य चरितर्यपि । स्त्रियां तु धिषणा बुद्धौ स्त्रीचिह्ने पार्वतीगिरोः ॥ ९८५ ॥ Nānārthārṇavasaṃkṣepa 4.985
  • नानार्थार्णवसंक्षेप प्रधानपरमात्मनि बुद्धौ च महामात्रेऽप्यधीतवान् । मुख्ये मुख्ये पुनः केचित् विभाषा त्रि तु मन्वते ॥ १०९० ॥ Nānārthārṇavasaṃkṣepa 4.1090
  • परमानन्दीयनाममाला धीधः पुनर्धनदे धीरेऽश्ववारकसुचित्रयोः । धं पृक्ते धीस्तु बुद्धौ स्यान्निषङ्गे धा तु धातरि ॥ २६ ॥ Paramānandīyanāmamālā 1.26
  • परमानन्दीयनाममाला आत्मन्बुद्धौ चित्ते धृतावार्या दुर्गामात्रोस्तथैव च । आजिर्युद्धे समक्ष्मायामाधिर्मानसवेदना ॥ ५३ ॥ Paramānandīyanāmamālā 5.1.53
  • परमानन्दीयनाममाला काव्यासमयेऽपि महाकाले काव्यो नक्षत्रशुक्रयोः । काव्याथ पूतनाबुद्ध्योः काव्यं ग्रन्थेऽपि कथ्यते ॥ ९६ ॥ Paramānandīyanāmamālā 5.7.96
  • शब्दरत्नावली प्रज्ञाअज्ञो जडे च मूर्खे च प्राज्ञः पण्डितदक्षयोः । प्रज्ञा बुद्धिसरस्वत्यो राज्ञी छायानृपस्त्रियोः ॥ Śabdaratnāvalī 7.10.2
  • शब्दरत्नावली मतिमतं ज्ञाते सम्मते च मतिबुद्धीच्छयोः स्मृता । मन्तुः पुंस्यपराधे स्याद् विद्यातरि च मानुषे ॥ Śabdaratnāvalī 7.16.36
  • शब्दरत्नावली मेधमेधो यज्ञे स्त्रियां बुद्धौ मुग्धः सुन्दरमूढयोः । राधो वैशाखमासे ना राधा चित्रे च धन्विनाम् ॥ Śabdaratnāvalī 7.19.10
  • शब्दरत्नावली आत्मन्वुद्धौ ब्रह्मणि देहे च तनये च भवेत्पुमान् । उत्तानं स्यादगम्भीरे ऊर्द्धास्यशयिते त्रिषु ॥ Śabdaratnāvalī 7.20.36
  • शब्दरत्नावली दर्शनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली बहुरूपपिण्डपुष्पं सरोजे स्याज्जवातगरवञ्जुले । बहुरूपी(?) स्मरे विष्णौ शिवे च केशबुद्धयोः ॥ मेघपुष्पः शक्रह्ये क्लीबं पिण्डाभ्रवारिणोः । विप्रलापोऽपार्थवाक्ये विरोधवचनेऽपि च ॥ Śabdaratnāvalī 7.21.22
  • शब्दरत्नावली चार्वीचार्वी धनदभार्यायां स्त्री ज्योत्स्नाबुद्धिदीप्तिषु । जवो वेगे वेगवति स्यादोड्रकुसुमे जवा ॥ Śabdaratnāvalī 7.29.6
  • शब्दरत्नावली प्रेक्षाप्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः । पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः ॥ विहगे वलये साध्ये विरोधे गृहशुद्धयोः । चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे ॥ प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् । प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥ Śabdaratnāvalī 7.31.10
  • शब्दरत्नाकर प्रतिपद्प्रतीतस्त्रिषु विख्याते प्रीते प्रत्ययिते बुधे । प्रतिपत्तिथिबुद्ध्योः स्यात् प्रकृतिर्मूलकारणे ॥ २१२९ ॥ Śabdaratnākara 4.1.2129
  • शब्दरत्नाकर दृश्दृग्बुद्धौ दर्शने नेत्रे स्त्री स्याद्द्रष्टरि तु त्रिषु । धूः स्त्री भारे यानमुखे नौः स्त्रियां तरिकालयोः ॥ २२४४ ॥ Śabdaratnākara 4.1.2244
  • तन्त्राभिधान ञसर्वेशश्चूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः । धर्मैकपादौ सुमुखी विरजा चन्दनेश्वरी ॥ ८७ ॥ Tantrābhidhāna 2.27.87
  • तन्त्राभिधान थकृष्णो बुद्धिर्विकर्मा(र्णा) च दक्षनासाधिपोऽमरः । वरदा भोगदा केशो वामजानू रसो(पो)ऽनलः ॥ १०७ ॥ Tantrābhidhāna 2.34.107
  • त्रिकाण्डशेष मायास्यान्माया शाम्बरीबुद्ध्योर्दैत्यशिल्प्युष्ट्रयोर्मयः । ययुरश्वे क्रतुहये रूप्यं त्रिषु सुरूपके ॥ ३१९ ॥ Trikāṇḍaśeṣa 3.3.319
  • वैजयन्ती कासूकासूर्बुद्धौ कुवाच्यस्त्रे कान्तिः शोभाभिकामयोः । काष्ठोत्कर्षे सीम्नि दिशि क्षोण्यां वासे क्षये क्षितिः ॥ ८ ॥ Vaijayantī 6.2.8
  • वैजयन्ती धीताधारास्त्राग्रेंऽबुसंतत्यां सैन्याग्रेऽश्वगतिष्वपि । धीता सुतायां बुद्धौ च धृतिः सौख्येऽपि धारणे ॥ २० ॥ Vaijayantī 6.2.20
  • वैजयन्ती प्रज्ञाक्षुद्रग्रामेऽपि पल्ली स्यात्प्रभार्चिषि च भासि च । प्रज्ञा प्राज्ञस्त्रियां बुद्धौ प्रजा तु जनपुत्रयोः ॥ २३ ॥ Vaijayantī 6.2.23
  • वैजयन्ती प्रेक्षापीडावमर्दकृपयोः प्रीतिः प्रेमप्रमोदयोः । प्रेक्षा नृत्तेक्षणे बुद्धौ बाधा दुःखनिषेधयोः ॥ २५ ॥ Vaijayantī 6.2.25
  • वैजयन्ती दर्शनतेमनं व्यञ्जने क्लेदे तोत्रे तोदे च तोदनम् । दर्शनं चक्षुषि स्वप्ने बुद्धिशास्त्रोपलब्धिषु ॥ १७ ॥ Vaijayantī 7.3.17
  • वैजयन्ती प्रज्ञानप्रज्ञानं लाञ्छने बुद्धौ प्रसूनं फलपुष्पयोः । पातालं लोक और्वश्च पतत्त्रं खे गरुत्यपि ॥ २२ ॥ Vaijayantī 7.3.22
  • वैजयन्ती दृश्द्युपश्विष्वंशुवज्रांबुभूवाग्दिग्दृक्षु गौर्न षण् । दृक् स्त्री स्याद्दर्शने बुद्धौ नेत्रे द्रष्टरि तु त्रिषु ॥ ३७ ॥ Vaijayantī 8.5.37