कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

डहु

ḍahuपुं · masc.

In 8 kośas: 8 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.93
पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः ॥ ६० ॥कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.221 · p. 273
स्थूलस्कन्धो डहुडुहू लकुचोऽथ विकङ्कतः ।स्याद्व्याघ्रकण्टयोः पादो ग्रन्थिलः स्वादुकण्टकः ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.120 · p. 67
लकुचे लिकुचो ग्रन्थिमत्फलः पनसे डहुः ।लकुचः क्षुद्रपनसः तस्य तु न्युब्जकं फलम् ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.116 · p. 65
नकुचो लकुचोऽपि स्यान्निकुचो लिकुचो डहुः ।क्षुद्रोऽम्लपनसोऽपि स्यादम्लकश्च डहुश्च सः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.167 · p. 231
दाडिम्बो दालिमोऽपि स्याच्छेलुः श्लेष्मान्तके शलुः ।लकुचे लिकुचोऽप्युक्तो डहुश्चाडहुरित्यपि ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.497 · p. 65
अस्त्रियां स्युः कलिङ्गाद्या लिकुचो लकुचो डहुः ।पीतसारस्तु बन्धूकप्रसवासनजीवकाः ॥ ४९७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.17 · p. 38
चम्पकोषस्तु मुरजफलः स्यात्पनसश्च सः ।डहुः शुद्राम्लपनसो निचुलो रक्तमञ्जरः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.75 · p. 51
निंबे पार्वतकैडर्यद्वेषिच्छर्दनमाथिकाः ।रोमशः पिचुमन्दश्च लकुचे लिकुचो डहुः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.