कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ग्रन्थिल

granthilaपुं · masc.

In 12 kośas: 19 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.37
कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले ॥ ३६ ॥सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः ।विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.120
करवीरे करीरे तु क्रकरग्रन्थिलावुभौ ।
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.210 · p. 85
महीपतिर्दन्तशटः कर्ता नेता च कर्म च ।विकन्तके ग्रन्थिलः स्यात् साले तु स्थूलसञ्चरः ॥ २१० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.136 · p. 147
पिण्डालुर्ग्रन्थिलः पिण्डकन्दस्ताम्बूलपत्रकः ।लोमशः पित्तकोपि स्यान्नानाकन्दोऽथ लोहिते ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.349 · p. 171
कोलमूलं कटुग्रन्थिः सर्वग्रन्थिः कटूषणम् ।सुगन्धिकं च पत्राढ्यं विरूषं ग्रन्थिलं पुनः ॥ ३४९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.412 · p. 178
ग्रन्थिलोङ्गारग्रन्थिः स्यात्सुवर्चास्तु सुवर्चिकः ।स्वर्जिकः स्वर्चिकक्षारो लवणासुरमेदजे ॥ ४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.221 · p. 273
स्थूलस्कन्धो डहुडुहू लकुचोऽथ विकङ्कतः ।स्याद्व्याघ्रकण्टयोः पादो ग्रन्थिलः स्वादुकण्टकः ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.222 · p. 273
गोपघण्टो बहुफलः स्रुचावृक्षः स्रुवद्रुमः ।वैकङ्कतः कण्टकारी वैकतो ग्रन्थिलः समाः ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.320 · p. 284
ग्रन्थिलः कृकरो गूढपत्रः स्यात्कररः पुनः ।करीरोऽपि च कारीरो निःपत्रस्तीक्ष्णकण्टकः ॥ ३२० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.558 · p. 311
तण्डुलीयस्तु भण्डीरो बहुवीर्यो घनस्वनः ।सुशाको ग्रन्थिलश्चाथ क्षुद्रघोली खरच्छदा ॥ ५५८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.91 · p. 151
द्रोणीमुखः[32b] सूचिपुष्पो भवेच्चक्रकचक्षदः (?) ।कुक्कुटः कर्णमेयः स्यात्तस्मिन्नाभाट(?)च सम्मता ।विकङ्कतः सुवतरुर्ग्रन्थिलः स्वादुकण्टकः ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.56 · p. 156
शाण्डि[37a]ल्यश्च शलाटुश्च शैलूषः पूतिमारुतः ।शचीको ग्रन्थिलः सत्यधर्मा स्यान्नीलकण्टकः ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.77 · p. 44
करीरे स्यात्तीक्ष्णसारः शाकपुष्पो मृदुफलः ।मरुजन्मा गूढपत्रो ग्रन्थिलक्रकरावपि ॥ ७७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 दु (wrong syllable)
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.78 · p. 44
विकङ्कते स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः ।किङ्कणिः काकपादश्च व्याघ्रपाद्गोपकण्टकः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.153 · p. 339
करीरः क्रकरश्चैव ग्रन्थिलोऽपि हि कथ्यते ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.75 · p. 62
वृतिंकरः स्रूवावृक्षः ग्रन्थिलः स्वादुकण्टकः ।व्याघ्रपात् कण्टीकारी च वैकङ्कत-विकङ्कतौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्टी (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.149 · p. 68
करवीरः प्रतीहासचण्डातहयमारकाः ।शतप्रासः करीरे तु क्रकरो ग्रन्थिलोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.478 · p. 63
मधुच्छदो ध्रुवावृक्षो ग्रन्थिलोऽथ विषाणिनि ।अजावृक्षो मेषशृङ्गश्चक्षुष्यो बहुशृङ्गकः ॥ ४७८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.38 · p. 48
विकंकते ग्रन्थिलः स्याद्व्याघ्रपाच्च मधुच्छदः ।सर्जेऽश्वकर्णः साले तु कार्ष्यकः सस्यसंवरः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.26 · p. 348
वास्तुके स्रुवतरौ तु पुंगतोग्रन्थिलोऽपरसमः स पर्वणि ।स्यात्करीरधरणीधरे पुमान्वामदाम्भिकगतस्तु वामिलः ॥ २६ ॥
रथोद्धता
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.655 · p. 104
ग्रन्थिलस्तु पुमाञ्ज्ञेयः करीरद्रौ विकङ्कते ।भेद्यवद्ग्रन्थिसहिते रभसेनेदमीरितम् ॥ ६५५ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र लत्रिः Śivakoṣa 23.2.455 · p. 41
कोविदारे च कुटिला देव्यां जिह्मे तु न द्वयोः ।ग्रन्थिलो क्षुरके बिल्वे करीरे च विकङ्कते ॥ ४५५ ॥
अनुष्टुप्

ग्रन्थिल as a meaning in nānārtha verses

  • धरणिकोश क्रकचविकचः स्फुटितेऽकेशे विकचोऽचरमग्रहः । क्रकचः करपत्रे स्याद्ग्रन्थिलाख्यो द्रुमस्तथा ॥ Dharaṇikośa 5.2.6
  • शिवकोष मङ्गल्यमङ्गल्यो ग्रन्थिलाश्वत्थमसूरारिष्टवार्षिके । स्त्रियां तु शम्यधःपुष्पीमिसिधीरप्रियङ्गुषु ॥ ३५७ ॥ Śivakoṣa 21.2.357