कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पीतसार

pītasāraपुं · masc.

In 6 kośas: 6 synonym verses, 1 as a nānārtha head word, 3 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.410 · p. 65
शिल्पिकः पीतसारः स्यात् पिण्डितः पिण्डतैलकः ।करेवरः कृत्रिमको लेपनश्चाथ गुग्गुलुः ॥ ४१० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.154 · p. 265
पिचुमन्दः पारिभद्रो नेता काकफलश्च सः ।यवनेष्टः पीतसारः सर्वतोभद्र इत्यपि ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.187 · p. 269
अङ्कोल्लोऽङ्कोठको रेची गूढपत्रो निकोचकः ।गुप्तस्वेदः पीतसारो मदनो गूढमल्लिका ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.133 · p. 74
अङ्कोटे स्यात्पीतसारो दीर्धकीलो निकोचकः ।अङ्कोल्लकस्ताम्रफलो रेचको गन्धपुष्पकः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.497 · p. 65
अस्त्रियां स्युः कलिङ्गाद्या लिकुचो लकुचो डहुः ।पीतसारस्तु बन्धूकप्रसवासनजीवकाः ॥ ४९७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1149 · p. 141
कालानुसार्यजावककालेयान्यत्र पीतसारे स्युः ।पीतचन्दनमर्केष्टं बालाहार्यं किरातजम् ॥ ११४९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.13 · p. 333
वङ्गे च लोहे मलयाचले चकोषप्रवीणा गिरिसारमाहुः ।गोमेदके स्यादपि पीतसारःप्रोक्तं प्रवीणैरपि चन्दने च ॥ १३ ॥
इन्द्रवज्रा

पीतसार as a meaning in nānārtha verses