कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तन्तुभ

tantubhaपुं · masc.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1180 · p. 46
षण्ढतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपः ।कदम्बकस्तन्तुभोऽथ सिद्धार्थः श्वेतसर्षपः ॥ ११८० ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.17
मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ ।वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 180
सर्षपः स्यात्सरिषपस्तन्तुभश्च कदम्बकः ।कटुश्च कटुकस्नेहो रक्षोघ्नो भूतनाशनः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र धान्यकाण्डः Nighaṇṭuśeṣa 6.398 · p. 217
षण्ढतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपे ।कदम्बकस्तन्तुतुभोऽथ सिद्धार्थः श्वेतसर्षपः ॥ ३९८ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.92 · p. 63
कङ्गुक्वङ्गू कङ्गुनी च सर्षपस्तन्तुभो मतः ।कदम्बकः स च श्वेतः सिद्धार्थः कथितो बुधैः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2127 · p. 351
वन्ध्यं षष्ढतिलः स्याच्च तिलादी पिञ्जपेजकौ ।तन्तुभस्तुन्तुभो लोके सर्षपः स्यात् कदम्बकः ॥ २१२७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.3 · p. 71
वसन्तश्चाऽथ मसुरो मसूरो व्रीहिकाञ्चनः ।सर्षपः स्यात्सरिषपः कटुस्नेहश्च तन्तुभः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.