कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

तिर्यग्विभागः · वनस्पतिकायनामानि (3/3)

जूर्णाह्वयश्च जोन्नाला देवधान्यं तथैव च ।मातुलानी शरणं भङ्गा भवेदुमा क्षुमाऽतसी ॥ २१२५ ॥
5.5.2125 · p. 350
अनुष्टुप्metre not read in every line
गवेडुः स्याद्गवेधुश्च गवीधूका गवेधुका ।अरण्यजस्तिलः ख्यातो जर्त्तिलः कथ्यते बुधैः ॥ २१२६ ॥
5.5.2126 · p. 350
अनुष्टुप्
वन्ध्यं षष्ढतिलः स्याच्च तिलादी पिञ्जपेजकौ ।तन्तुभस्तुन्तुभो लोके सर्षपः स्यात् कदम्बकः ॥ २१२७ ॥
5.5.2127 · p. 351
अनुष्टुप्
श्वेतवर्णः सर्षपस्तु सिद्धार्थः श्वेतसर्षपः ।शमीधान्यमनेकस्य मुद्गादेर्नाम मन्यते ॥ २१२८ ॥
5.5.2128 · p. 351
अनुष्टुप्
शूकधान्यं यवादीनां नाम प्रख्यापितं किल ।सस्यशूकञ्च किंशारुः धान्याग्रो भाग उच्यते ॥ २१२९ ॥
5.5.2129 · p. 351
अनुष्टुप्
कणिशं कनिशञ्चैव कणिषः सस्यशीर्षकम् ।सस्यमञ्जरी नामापि कथ्यते कनिशस्य वै ॥ २१३० ॥
5.5.2130 · p. 351
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable)
स्तम्बो गुच्छो धान्यमूले नालं काण्डो भवेत् पुनः ।पलालश्च पलोऽफलः स्यात् तु वै धान्यत्वक् तुषः ॥ २१३१ ॥
5.5.2131 · p. 351
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 फ (wrong syllable); pāda 4, syllable 5 न्य (wrong syllable)
बुसे कडङ्गरो बुषं चेति नामानि सन्ति वै ।आवसितं तथा धान्यं रिद्धमाऽऽवासितं पुनः ॥ २१३२ ॥
5.5.2132 · p. 351
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 बु (wrong syllable); pāda 3, syllable 3 सि (wrong syllable)
ऋद्धं सिद्धं सुसम्पन्नं चेति नामानि सन्ति हि ।शूर्पादिना स्वच्छभूतं पूतं स्यान्निर्बुसीकृतम् ॥ २१३३ ॥
5.5.2133 · p. 351
अनुष्टुप्
धान्ये परिष्कृते लोकैः कथ्यते बहुलीकृतम् ।
5.5.250 · p. 351
अनुष्टुप्

* मूलादिनामानि *

मूलं पत्रं हि वृक्षादेः प्रसिद्धं फलमित्यपि ॥ २१३४ ॥
5.5.2134 · p. 351
अनुष्टुप्
करीरमस्ति वंशस्याङ्कुरेऽग्रं पूर्वभागतः ।काण्डमेरण्डवंशादौ विरूढः स्यात् फलाङ्कुरे ॥ २१३५ ॥
5.5.2135 · p. 351
अनुष्टुप्
विरुढकाऽपि प्रख्यातं तदर्थे कथ्यते बुधैः ।तालबीजेऽविरूढकं त्वक् कदल्यां निरीक्ष्यताम् ॥ २१३६ ॥
5.5.2136 · p. 352
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 रु (wrong syllable); pāda 3, syllable 7 ढ (wrong syllable)
करीरादिद्रुमपुष्पं पुष्पं हि कथ्यते पुनः ।भूच्छत्राकस्य कन्दं वै कवकं मन्यते बुधैः ॥ २१३७ ॥
5.5.2137 · p. 352
अनुष्टुप्metre not read in every line
शाकं च शिग्रुकं चेति दशधा खाद्यवस्तुनि ।
5.5.255 · p. 352
अनुष्टुप्

* शाकविशेषनामानि *

मेघनादस्तण्डुलीयस्तण्डुलेरोऽल्पमारिषः ॥ २१३८ ॥
5.5.2138 · p. 352
अनुष्टुप्
रक्तफला तथा तुण्डिकेरी च तुण्डिकेरिका ।तुण्डिकेशी तथा बिम्बी पीलुपर्णी च सन्ति वै ॥ २१३९ ॥
5.5.2139 · p. 352
अनुष्टुप्metre not read in every line
जीवन्ती जीवनीया च जीवा च जीवनी पुनः ।मधुर्मधुस्रवा श्रवा चेति नामानि सन्ति वै ॥ २१४० ॥
5.5.2140 · p. 352
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 3, syllable 7 श्र (wrong syllable)
वास्तूकं वास्तुकं चैव क्षारपत्रं प्रसिद्धकम् ।क्षीरपत्रं पुनश्चेति नामानि कथयन्ति वै ॥ २१४१ ॥
5.5.2141 · p. 352
अनुष्टुप्
पालक्या नाम प्रख्यातं तथैव मधुसूदनी ।
5.5.260 · p. 352
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)

* लशुननामानि *

लशूनं लशुनोऽरिष्टो महाक्रन्दो महौषधम् ॥ २१४२ ॥
5.5.2142 · p. 352
अनुष्टुप्metre not read in every line
रसोनो म्लेच्छकन्दश्च सप्त नामानि सन्ति वै ।दीर्घपत्रकनामापि रसोनो गृञ्जनो भवेत् ॥ २१४३ ॥
5.5.2143 · p. 352
अनुष्टुप्

* भृङ्गराजनामानि *

भृङ्गरजो भृङ्गराजो मार्कवः केशरञ्जनः ।
5.5.263 · p. 353
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)

* विभिन्नशाकनामानि *

वायसी काकमाची च शाकार्थेषु विशेषतः ॥ २१४४ ॥
5.5.2144 · p. 353
अनुष्टुप्metre not read in every line
प्रसिद्धः कारवेलश्च कटल्लकस्तथैव च ।कटिल्लकः कठिल्लकः सुषवी सुसवी पुनः ॥ २१४५ ॥
5.5.2145 · p. 353
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ल्ल (wrong syllable); pāda 3, syllable 7 ल्ल (wrong syllable)
कूष्माण्डकश्च कर्कारुः कोशातकी पटोलिका ।चिर्भटी चिर्भिटी चैव वालुङ्की कर्कटी तथा ॥ २१४६ ॥
5.5.2146 · p. 353
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
एर्वारुस्त्रपुसी चोर्वारुश्चोर्वालुः पुनः खलु ।एर्वालुश्चेति नामानि कर्कट्याः कथयन्ति वै ॥ २१४७ ॥
5.5.2147 · p. 353
अनुष्टुप्
सूरणः सुरणः कन्दो भवेदर्शोघ्न इत्यपि ।प्रसिद्धमाऽऽर्द्रकं चैव शृङ्गबेरकमुच्यते ॥ २१४८ ॥
5.5.2148 · p. 353
अनुष्टुप्
तिक्तपत्रः किलासघ्नः कर्कोटकः सुगन्धकः ।सेकिमं हरिपणं च मूलकं हस्तिदन्तकम् ॥ २१४९ ॥
5.5.2149 · p. 353
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable); pāda 3, syllable 6 प (wrong syllable)

* तृणादिनामानि *

तृणं नडादि नीवारादिकं शष्पं तु तन्नवम् ।कत्तृणं रौहिषं पौरं देवजग्धं सौगन्धिकम् ॥ २१५० ॥
5.5.2150 · p. 353
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 सौ (wrong syllable)
दर्भः कुथः कुशो बर्हिः पवित्रं नाम पञ्चमम् ।तेजनस्तु शरो गुन्द्रो मुञ्जो नाम चतुर्थकम् ॥ २१५१ ॥
5.5.2151 · p. 354
अनुष्टुप्
हरिताली रुहाऽनन्ता दूर्वा च शतपर्णिका ।तथा सहस्रवीर्या च भार्गवी शतपर्विका ॥ २१५२ ॥
5.5.2152 · p. 354
अनुष्टुप्
पोटगलस्तु प्रख्यातो धमनश्च नडो नलः ।मेघनामास्तु वै मुस्ता कुरुविन्दश्च मुस्तकः ॥ २१५३ ॥
5.5.2153 · p. 354
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ट (wrong syllable)
गुन्द्रा तु सोत्तमा ख्याता स्यादपि भद्रमुस्तकः ।उलपो वल्वजा चैवं भवेत् कोमलघासकम् ॥ २१५४ ॥
5.5.2154 · p. 354
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)

* इक्षुनामानि *

अथेक्षुः स्याद्रसालश्च प्रख्यातोऽप्यसिपत्रकः ।
5.5.275 · p. 354
अनुष्टुप्

* इक्षुभेदनामानि *

कान्तारः कोषकारश्च पुण्ड्रपुण्ड्रकपौण्ड्रकाः ॥ २१५५ ॥
5.5.2155 · p. 354
अनुष्टुप्
ईक्षोर्मूलस्य नामात्र मोरटं मन्यते बुधैः ।काशः कासमिषीका च तृणभेदोऽपि कथ्यते ॥ २१५६ ॥
5.5.2156 · p. 354
अनुष्टुप्
यवसं चापि घासः स्यात् तृणमऽर्जूनमेव च ।
5.5.278 · p. 354
अनुष्टुप्

* विषनामानि *

विषस्तीक्ष्णं रसः क्ष्वेडो गरलोऽपि च नाम वै ॥ २१५७ ॥
5.5.2157 · p. 354
अनुष्टुप्

* स्थावरविषविशेषनामानि *

कालकूटश्च काकोलः कर्दमः करवीरकः ।शृङ्गिकः शौल्किकेयश्च सक्तुको मधुसिक्थकः ॥ २१५८ ॥
5.5.2158 · p. 355
अनुष्टुप्
मकटो मुस्तकः कुष्ठो मेषशृङ्गश्च मूलकः ।गौरार्द्रकश्च कालिङ्गो कैराटकश्च गौतमः ॥ २१५९ ॥
5.5.2159 · p. 355
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
इन्द्रश्चाङ्कोल्लसारश्च लाङ्गुलिकश्च पिङ्गलः ।वालूको वत्सनाभश्च विस्फुलिङ्गश्च दालवः ॥ २१६० ॥
5.5.2160 · p. 355
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
हालहलं चाऽहिछत्रो हालाहलं हलाहलः ।सर्षपो ब्रह्मपुत्रश्च प्रदीपनश्च नन्दनः ॥ २१६१ ॥
5.5.2161 · p. 355
metre not recognised
सोराष्ट्रिकः सौराष्ट्रिकः हैमवतस्तथैव च ।एता सर्वा हि मन्यन्ते स्थावरा विषजातयः ॥ २१६२ ॥
5.5.2162 · p. 355
अनुष्टुप्metre not read in every line
कुरण्टः परिभद्रादिरग्रबीजेषु गण्यते ।उत्पलः सुरणादिश्च मूलजेषु च मन्यते ॥ २१६३ ॥
5.5.2163 · p. 355
अनुष्टुप्
इक्षुवंशतृणेत्यादिः पर्वयोनिज उच्यते ।सल्लकी वटवृक्षादिः स्कन्धजेषु विभाज्यताम् ॥ २१६४ ॥
5.5.2164 · p. 355
अनुष्टुप्
शालिषष्टिकमुद्गादिबीजैरुत्पद्यते सदा ।तृणभूच्छत्रनामादिः सम्मूर्छज उच्यताम् ॥ २१६५ ॥
5.5.2165 · p. 355
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
षडेताश्च वनस्पतिकायस्य मूलजातयः ।प्रसिद्धाः सर्वदा लोके कोविदाः कथयन्ति वै ॥ २१६६ ॥
5.5.2166 · p. 355
अनुष्टुप्metre not read in every line