कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nighaṇṭuśeṣa

निघण्टुशेष Nighaṇṭuśeṣa

401 verses · 3,129 words tagged · 646 marked doubtful (dashed)

धान्यकाण्डः

इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे पञ्चमस्तृणकाण्डः ।

अथ धान्ये सस्यं सीत्यं व्रीहिस्तम्बकरी अपि ।आशौ स्यात्पाटलो व्रीहिर्गर्भपाकिनि षष्टिकः ॥ ३८६ ॥
6.386 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
शालौ तु कलमाद्याः स्युः कलमे तु कलामकः ।लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः ॥ ३८७ ॥
6.387 · p. 209
अनुष्टुप्
यवे हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् ।मङ्गल्यके मसूरः स्यात् कलाये तु सतीनकः ॥ ३८८ ॥
6.388 · p. 210
अनुष्टुप्
हरेणुः खण्डिकश्चाथ चणके हरिमन्थकः ।माषे तु मदनो नन्दी वृष्यो बीजवरो बली ॥ ३८९ ॥
6.389 · p. 211
अनुष्टुप्
मुद्गे तु प्रथनो लोभ्यो बलाटो हरितो हरिः ।पीतेऽस्मिन् वसुखण्डीरप्रवेलजयशारदाः ॥ ३९० ॥
6.390 · p. 211
अनुष्टुप्
कृष्णे प्रवरवासन्तौ हरिमन्थजशिम्बिकौ ।वनमुद्गे तुवरकनिगूढककुलीमकाः ॥ ३९१ ॥
6.391 · p. 211
अनुष्टुप्
खण्डी च राजमुद्गे तु मकुष्ठकमयुष्ठकौ ।गोधूमे सुमनो वल्ले निष्पावः श्वेतशिम्बिकः ॥ ३९२ ॥
6.392 · p. 212
अनुष्टुप्
कुलत्थे तु कालवृन्तस्ताम्रवृन्ता कुलत्थिका ।आढक्यां तूवरी वर्णा स्यात् कुल्माषे तु यावकः ॥ ३९३ ॥
6.393 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
नीवारे तु वनव्रीहिः श्यामाकश्यामकौ समौ ।कङ्गौ तु कङ्गुनी कङ्गुः प्रियङ्गुः पीततण्डुला ॥ ३९४ ॥
6.394 · p. 214
अनुष्टुप्
सा कृष्णा मधुका रक्ता शोधिका मुसटी सिता ।पीता माधव्यधोद्दाले कोद्रवः कोरदूषकः ॥ ३९५ ॥
6.395 · p. 215
अनुष्टुप्
चीनके तु काककङ्गुर्यवनाले तु योनलः ।जूर्णाह्वयो देवधान्यं जोन्नाला बीजपुष्पिका ॥ ३९६ ॥
6.396 · p. 215
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
शणे भङ्गा मातुलानी स्यादुमा तु क्षुमाऽतसी ।गवेधुकायां गवेधुर्वन्यतिले नु जर्तिलः ॥ ३९७ ॥
6.397 · p. 216
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ति (wrong syllable)
षण्ढतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपे ।कदम्बकस्तन्तुतुभोऽथ सिद्धार्थः श्वेतसर्षपः ॥ ३९८ ॥
6.398 · p. 217
metre not recognised
राजिकायां तीक्ष्णगन्धा क्षुताभिजननः क्षवः ।असुरी कृष्णिका कृष्णसर्षपो राजसर्षपः ॥ ३९९ ॥
6.399 · p. 218
अनुष्टुप्
माषादयः शमीधान्यं शूकधान्यं यवादयः ।स्यात् सस्यशूके किंशारुः कणिशे सस्यशीर्षकम् ॥ ४०० ॥
6.400 · p. 218
अनुष्टुप्
स्तम्बे तु गुच्छो धान्यादेर्नाले काण्डोऽफले त्विह ।स्यात् पलालो धान्यत्वचि तुषः बुसे कडङ्गरः ॥ ४०१ ॥
6.401 · p. 219
अनुष्टुप्metre not read in every line