कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रक्षोघ्न

rakṣoghnaक्ली · neut.

In 11 kośas: 17 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.92 · p. 20
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् ।कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ४१५ ॥चुक्रं धातुघ्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् ।महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ ॥तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.199 · p. 154
आरूढगन्धं जरणं भेदनं सूपदीपनम् ।सहस्रवेधिरक्षोघ्नं सूपाङ्गं जन्तुनाशनम् ॥ १९९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.203 · p. 155
कुल्माषाभिषवोपि स्यादुन्नाहं कुण्डगोलिकम् ।रक्षोघ्नमपि कुल्माषं गृहाम्लं स्यान्महारसम् ॥ २०३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.24 · p. 145
क्रन्दनं चारुष्करस्तु तपनोऽग्निमुखो द्वयोः ।अरुष्को वीरवृक्षः स्याद्रक्षोघ्नो रञ्जनो धनुः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 180
सर्षपः स्यात्सरिषपस्तन्तुभश्च कदम्बकः ।कटुश्च कटुकस्नेहो रक्षोघ्नो भूतनाशनः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.83 · p. 111
धातुघ्नं चुक्रसौवीरे कुण्डगोलकमित्यपि ।सुवीराम्लं तथोन्नाहं रक्षोघ्नं च महारसम् ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.624 · p. 81
आरनालं सुवीराम्लं धान्याम्लं च महारसम् ।अवन्तिसोमं सौवीरं रक्षोघ्नं मधुरा तथा ॥ ६२४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.85 · p. 63
त्रिषु भल्लातकी भल्ली वीरवृक्षोऽप्यरुष्करः ।अरुषेकाऽग्निमुखी चासौ हितो रक्षोघ्न इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.80 · p. 143
आरनालकरक्षोघ्नसौविरञ्च तुषोदकम् ।कुञ्जकुल्माषाभिषुतं कुल्माषाभिषुतञ्च तत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षा (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.645 · p. 82
कालोपकुञ्चिका पृथ्वी सुषवी कारवी कणा ।सर्षपो दुन्दुभस्तीक्ष्णो रक्षोघ्नो दुष्प्रधर्षणः ॥ ६४५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.646 · p. 83
कदम्बकश्च कटुकः सिद्धार्थः श्वेतसर्षपः ।रक्षोघ्नश्च गृहघ्नश्च कलम्ब्यां स्यादुपोदका ॥ ६४६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1438 · p. 174
आरालिका आन्धसिका सूदा औदनिका गुणाः ।अवन्तिसोमरक्षोघ्नशुक्ताभिषुतकाञ्चिकम् ॥ १४३८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1451 · p. 175
वृक्षाम्लं तिन्त्रिणीकं च चुक्रं चैतत् समं त्रयम् ।रामठं हिङ्गु रक्षोघ्नं जरणं भूतनाशनम् ॥ १४५१ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.14 · p. 38
अर्शोहितस्तु रक्षोघ्नो भल्लातक्यथ शाल्मली ।दुरारोहा स्मृता पिण्डीतगरः कफवर्धनः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.10 · p. 73
कटुभङ्गस्तु शुण्ठी स्यात्काञ्जिकं तु तुषोदकम् ।गृहाम्लं सिद्धसलिलं रक्षोघ्नं धातुनाशनम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.41 · p. 126
कदंबकस्तु शुभकः सर्षपोऽस्मिन् पुनः सिते ।त्रिष्टुभभ्रात्ररक्षोघ्नाः शठः सिद्धार्थतोटकौ ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.82 · p. 165
अवन्तिसोमं रक्षोघ्नं शुक्ताभिषुतकुञ्जलम् ।गोलकुल्माषसन्धानान्यौदरो मधुरा न षण् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1504 · p. 178
रक्षोघ्नस्तु पुमाञ्छ्वेतसर्षपे त्रि तु हन्तरि ।अमनुष्ये रक्षसः स्याद् रसवत् त्वभिधेयवत् ॥ १५०४ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र नत्रिः Śivakoṣa 16.1.263 · p. 24
रसोना विजयायां च रसोनं तु महौषधे ।रक्षोघ्नी जटिलाचोरपुष्प्योः पुंसि तु सर्षपे ॥ २६३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र नत्रिः Śivakoṣa 16.1.264 · p. 24
सूपधूपनके क्लीबं रेचनो रक्तचूर्णके ।रेचनी स्त्रुक्त्रिवृद्दोलाभयाह्रासमुकूलके ॥ २६४ ॥
अनुष्टुप्
doubtful