कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

द्वितीयः काण्डः · वैश्यवर्गः

इति क्षत्त्रियवर्गः ॥ ८ ॥

तृष्णा धनपिशाची स्याद्वार्धुष्यं धान्यवर्धने ।प्रामार्ज्यमृणमर्थानां प्रयोगः स्यान्मलाम्लिका ॥ १ ॥
2.9.1 · p. 71
अनुष्टुप्
ऋणमुक्तिर्विगणनं क्षेत्रं वारटमुच्यते ।हलिर्बृहद्धले मुद्गो हरिनामा वनाखुकः ॥ २ ॥
2.9.2 · p. 71
अनुष्टुप्
वसन्तश्चाऽथ मसुरो मसूरो व्रीहिकाञ्चनः ।सर्षपः स्यात्सरिषपः कटुस्नेहश्च तन्तुभः ॥ ३ ॥
2.9.3 · p. 71
अनुष्टुप्
प्रवेटः सितशूकः स्याद्गोधूमो म्लेच्छभोजनः ।ताम्रवृन्तः कुलत्थः स्यान्निःस्नेहश्चण्डिकाऽतसी ॥ ४ ॥
2.9.4 · p. 71
अनुष्टुप्
मूर्खः पुरीषलो माषो राजमाषस्तु वर्वटः ।फुल्लपालः शूर्पवाते न स्त्री तितउ चालनी ॥ ५ ॥
2.9.5 · p. 72
अनुष्टुप्
कण्डन्युदूखलं प्रस्थः पालिः सूदः प्रचेलकः ।कुशूलो स्त्री व्रीह्यगारं कन्दुरग्निष्ठ उच्यते ॥ ६ ॥
2.9.6 · p. 72
अनुष्टुप्
आलिञ्जरो ना नन्दा स्त्री मृत्सा भाण्डकभृष्टिका ।वारासनं वाःसदनं क्वणनो हण्डिकासुतः ॥ ७ ॥
2.9.7 · p. 72
अनुष्टुप्
कलशी गर्गरी तुल्या स्याच्छरावस्तु मार्त्तिकः ।शालाजिरः पार्थिवश्च मृत्कांस्यमथ लोहिका ॥ ८ ॥
2.9.8 · p. 72
अनुष्टुप्
खरसोल्लः खरपात्रं शिङ्घाणं काचभाजनम् ।काष्ठलोही तु वातर्दिर्जीरको दीप्यकः स्मृतः ॥ ९ ॥
2.9.9 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
कटुभङ्गस्तु शुण्ठी स्यात्काञ्जिकं तु तुषोदकम् ।गृहाम्लं सिद्धसलिलं रक्षोघ्नं धातुनाशनम् ॥ १० ॥
2.9.10 · p. 73
अनुष्टुप्
गृहिणी मधुरा हिङ्गु शूलहृत्सूपधूपनम् ।वर्षिणी हेमरागिण्यो हरिद्रा पीतवालुका ॥ ११ ॥
2.9.11 · p. 73
अनुष्टुप्
गण्डोलं स्याद्गुडः स्वादुः पिप्यटा गुडशर्करा ।महाश्वेता तु मधुजा प्रयस्तं स्यात्सुसंस्कृतम् ॥ १२ ॥
2.9.12 · p. 73
अनुष्टुप्
चिपिटो धान्यचमसश्चित्रापूपश्चरुव्रणः ।आलिम्पना तर्पणा दीपनं मण्डोदकं च तत् ॥ १३ ॥
2.9.13 · p. 73
अनुष्टुप्
वटकः पिष्टपूरः स्याद्व्रतोपायनवायने ।प्रहेणकं चाऽथ पाली पूपाली चर्पटी च सा ॥ १४ ॥
2.9.14 · p. 73
अनुष्टुप्
सक्तुश्वूर्णक आपूप्यो भक्तं कुरुः प्रसादनः ।मण्डो ज्येष्ठाम्बु खदिका लाजाः पारी तु दोहनी ॥ १५ ॥
2.9.15 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
निपानं स्त्री गवी तुम्बा निलिम्पा रोहिणी च सा ।गव्यं श्रेष्ठं पुंसवनं स्याद्दोहापनयः पुमान् ॥ १६ ॥
2.9.16 · p. 73
अनुष्टुप्
अवदाहः पयः क्षीरं प्राग्गाढं श्रीधनं दधि ।कद्वरं तु दधिस्नेहो जग्धिर्भोजनभक्षणे ॥ १७ ॥
2.9.17 · p. 74
अनुष्टुप्
देहयात्रा विष्वणनं भुक्तं प्रत्यवसानवत् ।कल्यवर्तः प्रातराशः प्रातर्भोजनमित्यपि ॥ १८ ॥
2.9.18 · p. 74
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
अनड्वाञ्शाङ्करो गन्धमैथुनः शक्करिर्वृषः ।ककुद्मान्पुङ्गवश्चाऽथ कण्ठाला जालगोणिका ॥ १९ ॥
2.9.19 · p. 74
अनुष्टुप्
दोग्धा शकृत्करिर्वत्सस्तेषामाटीकनं क्रमः ।गवादिकं जीवधनं पलिक्नी बालगर्भिणी ॥ २० ॥
2.9.20 · p. 74
अनुष्टुप्
करकं गोमयच्छत्रे गोग्रन्थिः शुष्कगोमयम् ।करीषश्छगणो हम्भा रेभणं च गवां ध्वनौ ॥ २१ ॥
2.9.21 · p. 74
अनुष्टुप्
नैचिकं गोः शिरोदेशो वन्दनीया तु रोचना ।मन्थानमन्थतक्राटाः स्यादुष्ट्रः कण्टकाशनः ॥ २२ ॥
2.9.22 · p. 74
अनुष्टुप्
लम्बौष्ठाध्वगवासन्तकुलनाशमरुद्विपाः ।भोलिर्बहुकरो वक्रग्रीवो मेषस्तु रोमशः ॥ २३ ॥
2.9.23 · p. 74
अनुष्टुप्
संस्फालहुडुभेडाश्च मेषी स्याज्जालकिन्यविः ।वर्करस्तु लम्बकर्णश्छागो बस्तः शिवाप्रियः ॥ २४ ॥
2.9.24 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
अल्पायुर्लधुकायश्च मेनादः पर्णभोजनः ।परिक्रमसहो बुक्को देवानांप्रिय इत्यपि ॥ २५ ॥
2.9.25 · p. 75
अनुष्टुप्
छागी सञ्जा चुलम्पा स्याच्छङ्कुकर्णस्तु गर्दभः ।स्मरस्मर्यश्चिरमेही ग्राम्याश्वो रेणुरूषितः ॥ २६ ॥
2.9.26 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
पशुश्चरिः शुद्धजङ्घो रत्नं चारुशिला मणिः ।स्वाध्यायी पत्तनवणिग्धोटाबुक्कोश्वविक्रयी ॥ २७ ॥
2.9.27 · p. 75
अनुष्टुप्
सर्वमूल्यं द्यूतबीजं हिरण्यं च कपर्दकः ।वटकः पणास्थि स्याद्भासुरः स्फाटिकोपलः ॥ २८ ॥
2.9.28 · p. 75
metre not recognisednearly अनुष्टुप्
शालिपिष्टं धौतशिलं गल्वर्कश्च सुसारवत् ।अश्मसारस्त्विन्द्रनीलो वैदूर्यं बालवायजम् ॥ २९ ॥
2.9.29 · p. 75
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 धौ (wrong syllable)
बालसूर्यमथो रक्तकन्दलो विद्रुमश्च सः ।लतामणिः प्रवालः स्याद्राजभट्टो विराटजः ॥ ३० ॥
2.9.30 · p. 75
अनुष्टुप्
कुरुविन्दः पद्मरागो दधीच्यस्थि तु हीरकम् ।स्वर्णं लोहवरं चाऽग्निबीजं चाम्पेयमित्यपि ॥ ३१ ॥
2.9.31 · p. 76
अनुष्टुप्
रूप्ये श्वेतं रङ्गबीजमिन्दुकान्ते मणीचकम् ।ताम्रकं तु लोहितायः सूर्याह्वं मुनिपित्तलम् ॥ ३२ ॥
2.9.32 · p. 76
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 तु (wrong syllable)
कंसे तु कंसं कंसास्थि ताम्रार्धमथ मौक्तिकम् ।रसोपलं शुक्तिबीजं सिन्दूरं रक्तवालुकम् ॥ ३३ ॥
2.9.33 · p. 76
अनुष्टुप्
पारदः सिद्धधातुः स्याद्धरबीजं च सूतकम् ।रङ्गं सुरेभं मृद्वङ्गं कुसुम्भं ग्राम्यकुङ्कुमम् ॥ ३४ ॥
2.9.34 · p. 76
अनुष्टुप्
हरिताले तु कर्बूरं गोदन्तो नटसंज्ञकः ।दारदं तु हिड्गुलु स्याद्धिङ्गुलं रक्तरपारदम् ॥ ३५ ॥
2.9.35 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रसगन्धो गन्धरसो गान्धारं मसिवर्धनम् ।क्षारस्तु स्याद्यवक्षारो यवशूकश्च रेचकः ।शिलाजतु शिलाव्याधिस्तृफला त्रिफलाऽपि च ॥ ३६ ॥
2.9.36 · p. 77
अनुष्टुप्metre not read in every line

इति वैश्यवर्गः ॥ ९ ॥

शुद्रः स्यात्पादजो दासो ग्रामकूटो महत्तरः ।मालिकः पुष्पलावः स्याकुम्भकारस्तु मृत्करः ॥ १ ॥
2.9.1 · p. 77
अनुष्टुप्
दण्डभृत्पलगण्डस्तु सुधाजीवी च लेपकः ।कायस्थे कूटकृत्पञ्जीकरौ चित्रकरे कृणुः ॥ २ ॥
2.9.2 · p. 77
अनुष्टुप्
चर्मरुः कुरटः पादुकृत्कलादस्तु गौञ्जिकः ।नाडिन्धमः स्वर्णकारो वात्सीपुत्रस्तु नापितः ॥ ३ ॥
2.9.3 · p. 77
अनुष्टुप्
चन्द्रिलो नखकुट्टश्च रजकः कर्मकीलकः ।कन्यापालः पालवणिग्देवलत्वमद्विजः ॥ ४ ॥
2.9.4 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अजाजीवस्तु जावालो निष्कश्चण्डाल उच्यते ।कुक्कुरे दीर्घसुरतो वान्तादरसनालिहौ ॥ ५ ॥
2.9.5 · p. 78
अनुष्टुप्
रतव्रणौ ग्राममृगस्तथेन्द्रमहकानुकः ।कपिलो वक्रपुच्छश्च शयालुररपत्रपः ॥ ६ ॥
2.9.6 · p. 78
अनुष्टुप्
शुन्याः शुन्यं शुनीरं स्याच्चौरः शङ्कितवर्णकः ।स्यात्कुम्भिलश्च प्रचुरपुरूषोऽथ कुजम्भिलः ॥ ७ ॥
2.9.7 · p. 78
अनुष्टुप्
सुरुङ्गोऽहिवधश्चोरे वन्दीकारतु माचलः ।प्रसह्यचोरश्चिल्लाभः स्त्रीचोरो रतहिण्डकः ॥ ८ ॥
2.9.8 · p. 78
अनुष्टुप्
काव्यचोरश्चन्द्ररेणुः कुड्यच्छेद्यं तु खानिकम् ।सन्धिः सुरङ्का तद्भेदाः श्रीवत्सगोमुखादयः ॥ ९ ॥
2.9.9 · p. 78
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्स (wrong syllable)
कपाललासिका तर्कुस्तर्कुशाणस्तु झामकः ।वर्तनी तर्कुपीठी स्यात्पिञ्जनं तूलकार्मुकम् ॥ १० ॥
2.9.10 · p. 78
अनुष्टुप्
तूलः पिचुः पिचुतूलं पिञ्जिका तुलनालिका ।त्रिषु द्वारापणं सूत्रपर्णं यत्तेन वेष्ट्यते ॥ ११ ॥
2.9.11 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 चु (wrong syllable)
निर्वेटनं नाडिचीरमेकाष्टी तुलशर्करा ।तन्त्रकाष्ठं तुरी स्त्री स्याद्ग्रीष्ममहासेन्द्रतूलके ॥ १२ ॥
2.9.12 · p. 79
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 ष्मम (syllable split)
पन्नध्री पादुका प्राणिहिता पदरथीत्यपि ।कावारी जङ्गमुकुटी भ्रमत्कुट्यथ खर्परः ॥ १३ ॥
2.9.13 · p. 79
अनुष्टुप्
वारित्रा मूर्धखोलञ्च सैव पत्रपिशाचिका ।वासी तु तक्षणी न स्त्री क्रकचः पत्रदारकः ॥ १४ ॥
2.9.14 · p. 79
अनुष्टुप्
मद्यं त्वरिष्टं मैरेयं कत्तोयं कापिशायनम् ।माध्वी च मधु माध्वीकं कपिशीका च मालिका ॥ १५ ॥
2.9.15 · p. 79
अनुष्टुप्
वीरा दैत्या प्रसन्ना च माधवी गन्धमादनी ।गौडी च वाल्कली मध्वासवपक्वरसौ नरि ॥ १६ ॥
2.9.16 · p. 80
अनुष्टुप्
नलिनी नारिकेलस्य सुरा तालस्य तालिनी ।स्मरासवो मुखसुरं पारी स्त्री पानभाजनम् ॥ १७ ॥
2.9.17 · p. 80
अनुष्टुप्
शुण्डापानं मदस्थानं द्यूतकृत्कृष्णकोहलः ।देवसभ्यस्तु सनिको लग्नकस्तृणमत्कुणः ॥ १८ ॥
2.9.18 · p. 80
अनुष्टुप्
चुञ्चुरी तिन्तिडी द्यूते पञ्चाली शारिशृङ्खला ।अष्टकाङ्गं नयपीठी नयस्तु जतुपुत्रकः ॥ १९ ॥
2.9.19 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)