कदम्बक
kadambakaक्ली · neut.In 18 kośas: 29 synonym verses, 1 as a nānārtha head word, 7 as a meaning of another word.
षण्ढतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपः ।कदम्बकस्तन्तुभोऽथ सिद्धार्थः श्वेतसर्षपः ॥ ११८० ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderक्लीneut.
समूहे निवहव्यूहसंदोहविसरव्रजाः ।स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥समुदायः समुदयः समवायश्चयो गणः ।स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ ।वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
metre not recognised
genderक्लीneut.
जातं चापि च जालं च पेटकं काण्डमस्त्रियाम् ।पटली संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ २०२ ॥
अनुष्टुप्
genderक्लीneut.
सर्षपः स्यात्सरिषपस्तन्तुभश्च कदम्बकः ।कटुश्च कटुकस्नेहो रक्षोघ्नो भूतनाशनः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
समुदायः समुदयः समवायश्चयः स्तमः ।स्तोमः कलापः कूटोऽस्त्री संहतिः स्त्री कदम्बकम् ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
आतपत्रे पुण्डरीकं मूर्ध्नि कं च प्रकीर्णकम् ।उल्मुकं तित्तिडीकोपसूर्यकं च कदम्बकम् ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
षण्ढतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपे ।कदम्बकस्तन्तुतुभोऽथ सिद्धार्थः श्वेतसर्षपः ॥ ३९८ ॥
metre not recognised
genderपुंmasc.
व्रातः पूगः समाजश्च समूहः सन्ततिर्व्रजः ।व्यूहो निकायो निकुरो निकुरम्बं कदम्बकम् ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.
कङ्गुक्वङ्गू कङ्गुनी च सर्षपस्तन्तुभो मतः ।कदम्बकः स च श्वेतः सिद्धार्थः कथितो बुधैः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
समूहः प्रकरः संघो निकरौघव्रजा अपि ।संघातो मण्डलं चक्रवालं वृन्दकदम्बके ॥ ३०३ ॥
अनुष्टुप्
genderक्लीneut.
रूचकं किबुकशालूके चिबुकं कवकं तथा ।शीर्षकं मधुपर्कं च प्रकीर्णककदम्बके ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
सर्षपे कर्षपः पुंसि तुन्दु(न्तु?)भश्च कदम्बकः ।गोध्या(धू?)मे सुमनः प्रोक्तः सिद्धार्थः श्वेतसर्षपे ॥ ४३० ॥
अनुष्टुप्
genderपुंmasc.
यमलं मिथुनं द्वैतं त्रयं च त्रितयं त्रयी ।समूहो निवहो व्यूहो वृन्दं चक्रं कदम्बकम् ॥ ८४ ॥
अनुष्टुप्
genderक्लीneut.
वन्ध्यं षष्ढतिलः स्याच्च तिलादी पिञ्जपेजकौ ।तन्तुभस्तुन्तुभो लोके सर्षपः स्यात् कदम्बकः ॥ २१२७ ॥
अनुष्टुप्
genderपुंmasc.
आकर उत्करः कूटं कलापश्च कदम्बकम् ।निकरो निकुरम्बञ्च प्रकरः पेटकं गणः ॥ २५६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderक्लीneut.
नूदपूगौ पूषयूषौ ब्रह्मदारुमहीरुहे ।कदम्बनीपप्रियककदम्बकहलिप्रियाः ॥
अनुष्टुप्
genderपुंmasc.
क्लीबे तु वृन्द-पटल-मण्डलानि कदम्बकम् ।गणः समुदयो जालं जातञ्च निकुरम्बकम् ।समवायः संहतिः स्त्री विज्ञेयाः पञ्चविंशति ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वनमुद्गो मुद्गष्टः स्यात् मकुष्टकमयुष्टकौ ।स्यात् सर्षपः सरिषपः शर्षपश्च कदम्बकः ।कटुस्नेहस्तुन्तुभोऽस्मिन् सिते सिद्धार्थ इत्यपि ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
काकली काकलिर्वृन्दे कदम्बं च कदम्बकम् ।समुदायः समुदयः पेटं स्यात् पेटकं त्रिषु ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
सौगन्धिके तु कल्हारं रक्तसंध्यकहल्लके ।कुमुदं कैरवं पद्मप्रभृतीनां कदम्बके ॥ ३६१ ॥
अनुष्टुप्
genderक्लीneut.
कदम्बकश्च कटुकः सिद्धार्थः श्वेतसर्षपः ।रक्षोघ्नश्च गृहघ्नश्च कलम्ब्यां स्यादुपोदका ॥ ६४६ ॥
अनुष्टुप्
genderपुंmasc.
व्रजपुञ्जौ निकुरुम्बं जालं पटलं कदम्बकं चक्रम् ।वितानं मण्डलं चक्रवालं च वलयं कुलम् ॥ ८२८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
दारो विदारणे हारो हृतौ वारः कदम्बके ।प्रवासो दूरगमनं परिसर्पः परिक्रया ॥ १७०७ ॥
अनुष्टुप्
genderक्लीneut.
पटोले स्याद्राजफलं तस्य मूले तु रम्यकम् ।सूत्रपुष्पस्तु कार्पासे जीर्णपर्णं कदम्बकम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
कदंबकस्तु शुभकः सर्षपोऽस्मिन् पुनः सिते ।त्रिष्टुभभ्रात्ररक्षोघ्नाः शठः सिद्धार्थतोटकौ ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
सन्दोहनिवहव्यूहसमूहनिकराकराः ।समुदायः समुदयो निकुरुंबं कदम्बकम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
कदम्बक as a meaning in nānārtha verses
- धरणिकोश भद्रभद्रं मुस्तकसाधुनोः सुतसुखश्रेष्ठेषु भद्रा पुन- र्गम्भारीजघनेफलासुरसरिद्रास्नार्धचन्द्रासु च । भद्रो मेरुकदम्बके च वृषभे भद्रस्तथा खञ्जने भद्रः कुञ्जरजातिभेदकरणे भद्रं स्मृतं मङ्गलम् ॥ Dharaṇikośa 26.3.2
- कोषकल्पतरु भद्रभद्रो हरे स्याद्वृषभे च मेरु- कदम्बके वारणजातिभेदे । स्याद्रामदूतेऽपि च खञ्जरीटे श्रेष्ठे तु साधुन्यपि वाच्यलिङ्गः ॥ ४५ ॥ Koṣakalpataru 6.27.45
- कोषकल्पतरु मण्डलद्बादशक्षिति[प]वृन्ददेशयोः कुष्ठरोगभिदि चोपसूर्यके । बिम्बके त्रिषु कदम्बके तथा- थार्गलस्त्रिषु महोर्मिदण्डयोः ॥ १९ ॥ Koṣakalpataru 6.28.19
- नानार्थार्णवसंक्षेप जातक्लीबं तु रक्तकुमुदे जातं त्वस्त्री कदम्बके । त्रिरुत्पन्ने जन्मनि क्ली जामिस्तु स्त्री कुलस्त्रियाम् ॥ ४७५ ॥ Nānārthārṇavasaṃkṣepa 2.5.475
- नानार्थार्णवसंक्षेप प्रकरप्रवाहस्तु प्रकृष्टाश्वे जलवेगे प्रवर्तने । परम्परायामपि च प्रकरस्तु कदम्बके ॥ १२७ ॥ Nānārthārṇavasaṃkṣepa 3.2.127
- शब्दरत्नावली पेटकपेचकः स्यादुलूके तु गजलाङ्गुलमूलके । पेटकं पुस्तकादीनां न्यासपात्रे कदम्बके ॥ Śabdaratnāvalī 7.1.109
- शब्दरत्नाकर ओघओघः परंपरासंख्यप्रवाहेषु कदम्बके । कामः काम्यस्मरेच्छासु कलहेऽन्त्ययुगे कलिः ॥ १८७९ ॥ Śabdaratnākara 4.1.1879