कटु
kaṭuपुं · masc.In 19 kośas: 45 synonym verses, 16 as a nānārtha head word, 3 as a meaning of another word.
अम्लस्तु पाचनो दन्तशठोऽथ लवणं सरः ॥ १३८८ ॥सर्वरसोऽथ कटुः स्यादोषणो मुखशोधनः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कटुः कटम्भराशोकरोहिणी कटुरोहिणी ॥ ८५ ॥मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी ।
अनुष्टुप्
genderस्त्रीfem.
शुण्ठी तु रूषणं विश्वभेषजं सिंहलं कटुः ।पिप्पली माधवी शौण्डी वृषलण्डूषणा बला ॥ २७४ ॥
अनुष्टुप्
genderपुंmasc.
तत्र कृष्णा काण्डरुहाप्यरिष्टा कटुरोहिणी ।आमघ्न्यरिष्टा केदारकटुः कट्वञ्जनी कटुः ॥ ३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderस्त्रीfem.
पलाण्डुस्तु कटुः पञ्चवर्द्धनः पञ्चरक्षकः ।हस्ताञ्जनविधौ शस्तो जीर्णज्वरहरश्च सः ॥ ३१७ ॥
अनुष्टुप्
genderपुंmasc.
कटुश्चापि सुवल्ली च सुकाष्ठा पशुमेहनी ।तोयवल्ली वृक्षरुहा घनवल्ल्यमृतस्रवा ॥ ४४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृ (wrong syllable)
genderपुंmasc.
अपूर्वदैवकार्यादौ युगं दृष्टं तथा कटु ।असेद्वृद्धः स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
लवणः स्यात्सर्वरसः * * पटुरथास्य मृट् (?) ।कटूषण-कटोलाश्च मुखभेदी तु तिक्तकः ।तीक्ष्णः क्षारश्च सकटु लवणात्मक उच्यते ।तुबरस्तूबरश्चास्त्री कषायस्तद्वति त्रिषु ॥ ४९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
स्वाद्वी स्वादुः[38a] कटुः कट्वी पटुः पट्वीति संग्रहः ।लावण्यं पाटवं क्लीबे पटिमा स्यान्नृलिङ्गकः ॥ ५४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कणामूलं च पत्राङ्गं विरूपं मागधं तथा ।पिप्पली मागधी कृष्णा वैदेही चपला कटुः ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
राहुच्छत्रं च भद्रं च कटु चार्द्रकमित्यपि ।कटुकन्दं शृङ्गवेरं कटुभद्रं तु आर्द्रकम् ॥पिप्पलीविश्वमरिचैस्त्रिकटु स्यात्कटुत्रयम् ।व्योषं त्र्यूषणमेतत्तु सग्रन्थि चतुरूषणम् ॥पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।पञ्चकोलं समरिचं त्वेतदुक्तं षडूषणम् ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
वृक्षपर्णी दीपनी च कृष्णपाठा सुवीवरा ।कटुः कट्वी मत्स्यपित्ता मत्स्यविन्ना च रोहिणी ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
सर्षपः स्यात्सरिषपस्तन्तुभश्च कदम्बकः ।कटुश्च कटुकस्नेहो रक्षोघ्नो भूतनाशनः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
कुस्तुम्बरी हृद्यगन्धा वेसना कटु मद्रिका ।कुस्तुम्बरु स्त्रियां न स्याद्धन्याकं च वितुन्नकम् ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
छर्द्दन्योष्ठफला गाह्ला काञ्चनी तिन्तिडी च सा ।कटिल्लकः कारवेल्लो नासासंवेदनः कटुः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
परञ्जं कटु स्यादकार्येऽट्ट-कष्टेविधौ दिष्टमह्नो मुखे व्युष्टमुक्तम् ।गिरि म्लिष्टमिष्टं क्रतोः कर्मणि स्या-ल्ललाटं करोटं कृपीटं च रिष्टम् ॥ ९६ ॥
भुजङ्गप्रयातम्
genderक्लीneut.
कटम्बरा काण्डरुहा रास्ना तिक्तकरोहिणी ।तिक्ताऽरिष्टा कटुर्मत्स्या चक्राङ्गी शकुलादनी ॥ २९९ ॥
अनुष्टुप्
genderस्त्रीfem.
अर्शोघ्नी मुसली ताली तालमूली खलिन्यपि ।खञ्जोऽरिष्टो ग्रहोच्छिष्टो रसोनो गृञ्जनः कटुः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
दीर्घवृन्ते रामपूगो लतापूगे तु योजनः ।भूपूगे तु लघूकः स्यात्क्षुद्रो भोधः कटुः खिलः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
स्त्री शुण्ठिरूषणं विश्वभेषजं सिंहलं कटुः ।पिप्पली मागधी शौण्डी ग्रन्थिनी तीक्ष्णतण्डुला ॥ २२० ॥
अनुष्टुप्
genderपुंmasc.
ओषणो वक्त्रभेदी च कटुतिक्तौ समावुभौ ।सरः सर्वरसश्चैव लवणोऽपि तथोच्यते ॥ २८२ ॥
अनुष्टुप्
genderपुंmasc.
कटुः स्यादोषणो वक्त्रशोधनश्च समो मतः ।वक्त्रभेदी तु तिक्तः स्याद्विशेषोऽयं निरीक्ष्यताम् ॥ २८३ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गारकर्कर्याङ्गारी कृशरा खिच्चिका वला ।द्वैदलं सूपकः सूपो सूपपूषः कटुः सरः ॥ २६९ ॥
अनुष्टुप्
genderपुंmasc.
सुस्वादो मधुरो मिष्टः चुक्रोऽम्लः कटुकः कटुः ।कषायस्तूबरः क्षारी लवणः तिक्ततीक्ष्णकौ ॥ ३०६ ॥
अनुष्टुप्
genderविadj.
मिष्टं स्वादुश्च मधुरः कषायस्तुवरो रसः ।पाचनोऽम्लो दन्तशठः कटुकः कटुरुषणः ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अथोष्णाश्च कटुस्तीक्ष्णस्तिग्मस्तीव्रत्रस्तथा खरः ॥ २५१७ ॥
metre not recognised
genderविadj.
genderविadj.
अस्त्री कषायो मधुरो लवणः कटुरेव च ।तिक्तोऽम्लश्च षट्पुमांसो रसाः स्युर्गुणवाचकाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
कटुकी कटुकाशोकरोहिणी शकुलादनी ।मत्सपित्ता रोहिणी च कृष्णभेदी कटुम्भरा ॥स्यादशोकापि च कटुश्चक्राङ्गी कटुरोहिणी ।शूकशिम्बिः शूकशिम्बी शुकशिम्बिश्च वानरी ॥
अनुष्टुप्
genderस्त्रीfem.
अतिच्छत्रा सुगन्धा च छत्रकं कुटुकं कटुः ।छत्राकारे सुगन्धाख्ये तृणभेदोजलोद्भवे ॥
अनुष्टुप्
genderपुंmasc.
गन्धे परिमलामोदौ सौरभ्यं सौरभोऽस्त्रियाम् ।घ्राणतर्पणगन्धे तु कषायः सुरभिः कटुः ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
कषाये तुवरः स्वादौ मधुरो लवणः कटुः ।अम्लस्तिक्तो रसाः पुंसि षडेते तद्वति त्रिषु ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
अशोका रोहिणी कृष्णा मेदिका कटुरोहिणी ।कटुः कटुंभरा तिक्ता चक्राङ्गी शकुलादिनी ॥ ५९० ॥
अनुष्टुप्
genderस्त्रीfem.
सुकन्दकः कटुः कञ्जो महाकन्दो महौषधम् ।कायाङ्गं लशुनं दीप्यं जीर्णकं गुल्मनाशनम् ॥ ६५३ ॥
अनुष्टुप्
genderपुंmasc.
महिष्यजाविकाश्वानां रासभोष्ट्रकदन्तिनाम् ।टङ्कणं स्यात् क्रामणको लोहसंश्लेषणः कटुः ॥ १४७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्रा (wrong syllable)
genderपुंmasc.
गुग्गुलौ कालनिर्यासो देवधूपो महेश्वरः ।श्रीमान् स्निग्धः सर्वसहः श्लेष्मी तिक्तः कटुर्लघुः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
वाट्यालोऽतिबलायां तु पुष्पवीर्या जनी सहा ।अश्वकन्दस्त्वश्वगन्धी तिक्ते तु कटुपर्पटौ ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
खञ्जेऽरिष्टो गृहोछिष्टो रसोनो गृंजनः कटुः ।कायांगं लशुनं दिव्यं महाकन्दामृतोद्भवे ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
मरीचं तु विरावृत्तमुषणं धर्मपत्तनम् ।(मरिचं) पलितं श्यामं वेल्लनं पेलवं कटु ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कटुः कटुंभराशोका रोहिणी कटुरोहिणी ।कृष्णभेदी मत्स्यपित्ता चक्रांगी शकुलादनी ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
टंकणस्तु क्रामणको लोहसंश्लेषकः कटुः ।रसयोनिः पावनको मालतीतीरसंभवः ॥ १३० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क्रा (wrong syllable); pāda 3, syllable 5 पा (wrong syllable)
genderपुंmasc.
अम्लस्तु पाचनः शुक्तो लवणस्तु पटुः सरः ।ऊषणस्तु कटुस्तीक्ष्णस्तिक्तस्तु विसरः कटुः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
सुरभ्यसुरभी गन्धौ विभिन्नौ तौ च योगतः ।बहुधा तत्र सुरभिः कटुस्तिक्तः कषायकः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
अतिरिक्तोऽतिशयितो दृढः समधिकोऽधिकम् ।चतुरं पेशलं दक्षं कटु तूल्बणमुत्कटम् ॥ १३७ ॥
अनुष्टुप्
genderविadj.
कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः ।शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
अनुष्टुप्
meaningsसौरभ्य
क्लीबे दूषणके विशेष्यवदसौ स्यान्मत्सरिक्रू[270b]रयो-श्छत्रायां लवणे पटोलदलके दक्षे तु भेद्ये पटुः ॥ ८ ॥
metre not recognised
doubtful
लशुने टङ्कने गन्धभेदे सौरभ्यसंज्ञके ।ऊषणाख्यरसे चाथ प्राक् शुण्ठेर्भेद्यलिङ्गकम् ॥ १६५ ॥
अनुष्टुप्
doubtful
पूर्वोक्तगन्धरसयोरेकयुक्ते समत्सरे ।अप्रियाकार्यतीक्ष्णेषु क्ली शुण्ठौ मरिचेऽपि च ॥ १६६ ॥
अनुष्टुप्
doubtful
स्त्रियां तु कटुरोहिण्यां कम्बुस्तु द्वे मतङ्गजे ।त्रये तु तण्डुलकणे शङ्खे सङ्ख्यान्तरे तथा ॥ १६७ ॥
अनुष्टुप्
meaningsकटुरोहिणी
ज्योतिष्मत्यां काकमात्यामथ त्रिकटुके कटु ।कुटो हुतभुजि स्त्री तु गन्धकुट्यां कुटी कुटिः ॥ ११७ ॥
अनुष्टुप्
कुलीरे कर्कटो राशौ कृष्टिः कर्षे बुधे पुमान् ।अप्रियेऽपि कटुः कुम्भे कुटो ना भवने द्वयोः ॥ ९४ ॥
अनुष्टुप्
meaningsअप्रिय
कटु as a meaning in nānārtha verses
- कोषकल्पतरु तिक्ततिक्तो रसे ना सुरभौ च षण्ढे किरातके पर्पटके स्त्रियां तु कट्व्या[288b]मथो रिक्तमरण्य उक्तं शून्येऽन्यवत्स्याद्धुसृणे तु रक्तम् ॥ ३५ ॥ Koṣakalpataru 6.16.35
- कोषकल्पतरु तीव्रस्त्रियां पुनः षण्मुखमातरि स्या- त्तीव्रं नितान्ते त्रिषु तीक्ष्णकट्वोः । स्त्री गण्डदूर्वाकटुकासुरीषु तृप्रः पुरोडाशगतः पुमान्स्यात् ॥ ५४ ॥ Koṣakalpataru 6.27.54
- त्रिकाण्डशेष तीव्रइतिकर्तव्यता तन्त्रमुपायश्च द्विसाधकः । तीव्रं कटुनितान्तञ्च दर्दरः शैलभुग्नयोः ॥ ३५५ ॥ Trikāṇḍaśeṣa 3.3.355