कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तुङ्गा

tuṅgāस्त्री · fem.

In 6 kośas: 6 synonym verses, 2 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.370 · p. 173
तालं नीलाम्बरं नीलं तुङ्गा तु वंशरोचना ।क्षीरी वांशी च शुभ्रापि वनेन्दुर्वंशशर्करा ॥ ३७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.311 · p. 283
शमी तु केशदमनी शान्ता तुङ्गा शुभङ्करी ।हविर्गन्धा शिवेशाना सुरभिः पापनाशनी ॥ ३११ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.36 · p. 409
उमा हतार्चिः पैशाची शर्वरी नक्तमव्ययम् ।क्षपा तमस्विनी तुङ्गा तमिर्वासरकन्यका ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 147
लक्ष्मीस्तुङ्गापि मङ्गल्या स्निग्धपिच्छिलपत्रिका ।स्यान्मर्कटीफला चेयं बहला केशहृत्फला ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.72 · p. 41
शम्यां सक्तुफला लक्ष्मीः शिम्बा तुङ्गाग्निपादपः ।अजप्रिया भस्मकाष्ठा शङ्करः शिवकीलिका ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1484 · p. 179
तुङ्गा क्षीरी वंशभवा वंशाख्या तृणकेतकी ।शृङ्गवक्त्रा महाघोषा शृङ्गी कर्कटभृङ्गिका ॥ १४८४ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.548 · p. 89
तुङ्गस्तु पुंसि पुन्नागद्रुमे प्रांशौ तु स त्रिषु ।स्त्रियां तु तुङ्गा स्याद्वंशरोचनासंज्ञभेषजे ॥ ५४८ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र गद्विः Śivakoṣa 3.1.82 · p. 8
तुङ्गा पवित्रपत्रायां तुङ्गश्चोचे च केसरे ।नागस्ताले भद्रमुस्ते पुन्नागे नागकेसरे ॥ ८२ ॥
अनुष्टुप्