All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
गान्ताः · गद्विः
इति खान्ताः ।
तुङ्गा पवित्रपत्रायां तुङ्गश्चोचे च केसरे ।नागस्ताले भद्रमुस्ते पुन्नागे नागकेसरे ॥ ८२ ॥
3.1.82 · p. 8
अनुष्टुप्
नागा पुत्रजनन्यां च नागं सीसकरङ्गयोः ।पिङ्गं तु वालके पिङ्गी शम्या पिङ्गा तु रामठे ॥ ८३ ॥
3.1.83 · p. 8
अनुष्टुप्
रोचनायां हरिद्रायां पूगः क्रमुकतूदयोः ।भृङ्गं नखे त्वचायां भृङ्गो भृङ्गारके मार्गः ॥ ८४ ॥
3.1.84 · p. 8
अनुष्टुप्metre not read in every line
आघाटे मृगनाभौ युगं तु ऋद्धौ च वृद्धौ च ।वङ्गं सीसके रङ्गे वङ्गस्तु वयनीफले ॥ ८५ ॥
3.1.85 · p. 8
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 द्धौ (wrong syllable); pāda 3, syllable 1 व (syllables merged)
वार्ताकेऽप्यथ वेगस्तु महाकालफलेऽपि च ।मेघनादेऽथ शृङ्गी स्यादाम्रातवटपिप्पले ॥ ८६ ॥
3.1.86 · p. 9
अनुष्टुप्