शङ्कर
śaṅkaraपुं · masc.In 15 kośas: 14 synonym verses, 22 as a meaning of another word.
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥
अनुष्टुप्
शम्भुपुंईशपुंपशुपतिपुंशिवपुंशूलिन्पुंमहेश्वरपुंईश्वरपुंशर्वपुंईशानपुंशङ्करपुंचन्द्रशेखरपुंभूतेशपुंखण्डपरशुपुंगिरीशपुंगिरिशपुंमृडपुंमृत्युञ्जयपुंकृत्तिवासस्पुंपिनाकिन्पुंप्रमथाधिपपुंउग्रपुंकपर्दिन्पुंश्रीकण्ठपुंशितिकण्ठपुंकपालभृत्पुंवामदेवपुंमहादेवपुंविरूपाक्षपुंत्रिलोचनपुंकृशानुरेतस्पुंसर्वज्ञपुंधूर्जटिपुंनीललोहितपुंहरपुंस्मरहरपुंभर्गपुंत्र्यम्बकपुंत्रिपुरान्तकपुंगङ्गाधरपुंअन्धकरिपुपुंक्रतुध्वंसिन्पुंवृषध्वजपुंव्योमकेशपुंभवपुंभीमपुंस्थाणुपुंरुद्रपुंउमापतिपुंअहिर्बुध्न्यपुंअष्टमूर्तिपुंगजारिपुंमहानटपुं
genderपुंmasc.
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः ।सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः ।अजो मः प्रहसः शूली भोगः संजश्च शङ्करः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
शम्यां सक्तुफला लक्ष्मीः शिम्बा तुङ्गाग्निपादपः ।अजप्रिया भस्मकाष्ठा शङ्करः शिवकीलिका ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
स तु चतुर्मुखो ब्रह्मा द्विमुखस्तु वरार्गलः ।षण्मुखस्तु कार्तिकेयः पञ्चमुखस्तु शङ्करः ॥ १४२ ॥
metre not recognised
genderपुंmasc.
तत्पिता शङ्करः शम्भुः शिवः स्थाणुर्महेश्वरः ।त्र्यम्बको धूर्जटिः शर्वः पिनाकी प्रमथाधिपः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
गङ्गाधरस्त्रिनयनः शङ्करश्चन्द्रशेखरः ।रुद्रः स्थाणुः पशुपतिर्भगः शूली पिनाकधृक् ॥ ३८९ ॥
अनुष्टुप्
genderपुंmasc.
शिवः शम्भुः वृषाङ्कश्च रुद्रः शर्वश्च शङ्करः ॥ २३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
genderविadj.
गिरीशो गिरिशस्तीव्रः कपर्दी चन्द्रशेखरः ।महेश उग्रः श्रीकण्ठः शङ्करः प्रमथाधिपः ॥
अनुष्टुप्
genderपुंmasc.
ईश्वरः शङ्करे प्रोक्तः पार्वत्यामीश्वरी च ॥ २४४ ॥
genderपुंmasc.
उः शङ्करो वर्त्तुलाक्षी भूतः कल्याणवाचकः ।अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
क्षेमङ्करोऽरिष्टतातिः स्थान्मद्रङ्करशङ्करौ ।आमुष्यायणज्ञिातौ पुत्रान्नादः कुटीचकः ॥ १ ॥
metre not recognisedimpossible sign sequence: ुष्यायणज्ञिातौ पुतnearly अनुष्टुप्: pāda 3, syllable 4 य (wrong syllable)
genderविadj.
शंकरो गिरिशो रुद्रो गिरीशः शशिभूषणः ।भद्रेश्वरश्चन्द्रमौलिः पिनाकी शशिशेखरः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शङ्कर as a meaning in nānārtha verses
- धरणिकोश सर्वज्ञसर्वज्ञः शंकरे बुद्धे क्षेत्रज्ञः शिक्षितात्मनोः । Dharaṇikośa 9.1.1
- नानार्थार्णवसंक्षेप कीलकश्चिन्नद्यामिति प्राह कीलस्तु नरयोषितोः । ज्वालाशङ्कुकफोणीषु बाहौ पुंसि तु शङ्करे ॥ २१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.213
- नानार्थार्णवसंक्षेप शूलिन्बले सुखे च श्रूषा तु शाकभेदे स्त्रियामियम् । वैजयन्त्यां कासमर्दे स्माह शूली तु शङ्करे ॥ १४०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1408
- नानार्थार्णवसंक्षेप रैवतआरग्वधे शैलभेदे शङ्करे रभसोऽपठीत् । रेवतीकालजाते च तथा मेढ्रवति स्मृतः ॥ १५२५ ॥ Nānārthārṇavasaṃkṣepa 4.1525
- शब्दरत्नावली शङ्कुशल्कन्तु वल्कले शकले शको जात्यन्तरे नृपे । शङ्कर्ना शङ्करे कीले संख्यास्त्रपापजन्तुषु ॥ Śabdaratnāvalī 7.1.21
- शब्दरत्नावली वृषभध्वजवृषभध्वज इत्युक्तो वृद्धभेदे च शङ्करे । मुनिभेषजमगस्त्ये हरितक्याञ्च लङ्घने ॥ Śabdaratnāvalī 7.8.38
- शब्दरत्नावली डडस्त्रासे शङ्करेध्वाने दस्युवृन्दे खलेऽपि च । Śabdaratnāvalī 7.13.1
- शब्दरत्नावली गणाधिपतिगिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता । विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥ शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि । पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः । भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥ अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः । रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥ पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् । Śabdaratnāvalī 7.16.178
- शब्दरत्नावली विभुदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
- शब्दरत्नावली हीरहिंस्रा त्वेलावलीमांस्योः स्त्रियां स्यात्त्रिषु घातुके । हीरो ना शङ्करे वज्रे हीरा लक्ष्मयम्बुतैलयोः ॥ होरा स्त्री शास्त्रभेदे स्याल्लग्ने राश्यर्द्धरेखयोः । Śabdaratnāvalī 7.27.51
- शब्दरत्नावली ईश्वरआशरो राक्षसे पुंसि तथा वैश्वानरेऽपि च । इत्वरी कुलटायां स्त्री पथिकक्रूरयोस्त्रिषु ॥ ईश्वरः शङ्करे कामे नाट्ये स्वामिनि वाच्यवत् । ईश्वरा चेश्वरी गौर्य्यां लक्ष्मीवाण्यादिशक्तिषु ॥ Śabdaratnāvalī 7.27.58
- शब्दरत्नावली शल्वरविदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः । विवरं दूषणे गर्ते विसरः प्रसरे व्रजे ॥ विहारी भमणे स्कन्धे सुगतालमलीलयोः । शल्वरः(?) शङ्करम्लेच्छविशेषखलभित्सु च ॥ Śabdaratnāvalī 7.27.101
- शब्दरत्नावली तुङ्गीशगिरीशः पर्वतपतौ गीष्पतौ च महेश्वरे । तुङ्गीशः शङ्करे कृष्णे सूर्ये हिमकरेऽपि च ॥ Śabdaratnāvalī 7.30.16
- शब्दरत्नावली खण्डपर्शुउपदंशोऽवदंशे स्याच्शिश्नरोगविशेषके । क्रूरदृक्पिशुने मत्ते भौमे शनिग्रहेऽपि च ॥ खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि । खण्डामलकभैषज्ये राहौ भग्नरदद्विपे ॥ Śabdaratnāvalī 7.30.29
- शब्दरत्नाकर पांसुचन्दननीपे धूलिकदम्बो ना क्लीबे तु रजसां गणे । चन्द्रेऽपि देवतोच्छिष्टः शंकरे पांसुचन्दनः प्राचीनबर्हिरिन्द्रेऽग्नौ पुरुषव्याघ्र इत्ययम् ॥ २२३६ ॥ Śabdaratnākara 4.1.2236
- तन्त्राभिधान डडः स्मृतिर्दारुको नन्दिरूपिणी योगिनी प्रियः । ----------------------------------- कौमारी शङ्करस्त्रासस्त्रिवक्त्रो(क्रो) नदको ध्वनिः ॥ ९५ ॥ Tantrābhidhāna 2.30.95
- तन्त्राभिधान वउत्कारीशस्तु नीवीको वज्रं स्फिक् सागरः शुचिः । त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥ १५२ ॥ Tantrābhidhāna 2.46.152
- तन्त्राभिधान उइ-कार उच्यते कामो लक्ष्मी-री-कार उच्यते । उ-कारः शङ्करः प्रोक्त ऊ-कारश्चापि रक्षणे ॥ २ ॥ Tantrābhidhāna 3.2
- तन्त्राभिधान डबृहद्ध्वनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले । ड-कारः शङ्करः प्रोक्तस्त्रासध्वन्योः प्रकीर्त्तितः ॥ १७ ॥ Tantrābhidhāna 3.17
- त्रिकाण्डशेष सर्वज्ञसंज्ञा सूर्यप्रियायां च सर्वज्ञः शङ्करे जिने । Trikāṇḍaśeṣa 3.3.92
- त्रिकाण्डशेष रैवतशैलभेदे सुवर्णालौ शङ्करेऽपि च रैवतः । स्वर्णाद्यक्तेऽपि रसितं कस्तूरीपृक्कयोर्लता ॥ १८१ ॥ Trikāṇḍaśeṣa 3.3.181
- त्रिकाण्डशेष ईशप्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके । दिगम्बरे कपै कीशः केशो वालप्रचेतसोः ॥ ४२७ ॥ Trikāṇḍaśeṣa 3.3.427