कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शर्वरी

śarvarīस्त्री · fem.

In 18 kośas: 17 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.51 · p. 9
निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा ॥ १४१ ॥त्रियामा यामिनी भौती तमी तमा विभावरी ।रजनी वसतिः श्यामा वासतेयी तमस्विनी ॥ १४२ ॥उषा दोषेन्दुकान्ताथ तमिस्रा दर्शयामिनी ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.4
प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी ॥ ३ ॥निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.107 · p. 13
तमी तमिस्रा कथिता तमस्विनी,विभावरी नक्तमुखा च शर्वरी ।क्षपा त्रियामा क्षणदा निशीथिनी,निशा च दोषा रजनी च यामिनी ॥ १०७ ॥
वंशस्थम्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.51 · p. 70
रजनी यामिनी याम्या त्रियामा क्षणदा क्षपा ।तमी तमस्विनी रात्रिः शर्वरी च विभावरी ।आद्यक्तं तिमिरं ध्वान्तं तामिस्रं शार्वरं तमः ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त रात्रिसंज्ञा Gaṇitanāmamālā 19.83 · p. 5
निशीथिनी क्षपा रात्रिः प्रोक्ता नक्तं च शर्वरी ॥ ८३ ॥
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.15 · p. 21
रजनी यामिनी यम्या त्रियामा क्षणदा क्षपा ।तमा तमस्विनी रात्रिर्विभावरिरितीर्यते ।तमिस्रा क्षणमीक्षाणी शर्वरी च निशीथिनी ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.36 · p. 409
उमा हतार्चिः पैशाची शर्वरी नक्तमव्ययम् ।क्षपा तमस्विनी तुङ्गा तमिर्वासरकन्यका ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.39 · p. 44
पूर्वेद्युः स्यात्पूर्वदिनमुत्तरेद्युस्तदुत्तरम् ।अस्मिन्दिनेऽद्याव्ययं स्यात्तद्भवेऽद्यतनं त्रिषु ।[28b]निशीथिनी निषद्वरी विभावरी च *र्वरी ।तमस्विनी च यामिनी स तन्यतुस्तमा तमी ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly पञ्चचामरम्
genderस्त्रीfem.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.40 · p. 44
निशान्धिका च सर्वरी तमीश्च शर्वरीनिशौ ।उषा क्षपा च वाशुरा हिमांशुकामिनी तथा ॥ ४० ॥
पञ्चचामरम्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.129 · p. 21
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.79 · p. 9
प्रातः प्रभातं प्रत्यूषो उषः कल्यमहर्मुखम् ।रजनी यामिनी रात्रिस्त्रियामा शर्वरी निशा ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.130 · p. 19
शर्वरी शार्वरी श्यामा वसतिर्वासुरा तथा ।निशीथिनी निशा नक्ता शताक्षी क्षणदा क्षपा ॥ १३० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.252 · p. 18
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.34 · p. 179
तमी तमा तामसी च वसतिर्वासतेय्यपि ।शार्वरी सर्वरी दन्त्यतालव्यादिरुषा उषः ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.236 · p. 32
प्रदोषः स्याद्रात्रिमुखमथ संध्या पितृप्रसूः ।रात्रिस्तु वासतेयी रजनितमीशर्वरीतमस्विन्यः ॥ २३६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 36 · p. 533
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.57 · p. 21
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.48 · p. 173
शर्वरी तु हरिद्रा स्याच्छर्वरी वनिता निशा ।शर्करी लेखनी ज्ञेया शर्करी छन्दसो भिदि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.84 · p. 329
सुन्दर्युक्ता वृक्षयोषिद्विभेदेरात्रौ नार्यां शर्वरीं प्राहुरार्याः ।तुम्बर्युक्ता कुक्कुरावार्द्रयोश्चशक्वर्युक्ता मेखलायां च नद्याम् ॥ ८४ ॥
शालिनी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1793 · p. 203
क्ली स्त्री तु शर्वरी रात्रौ सन्ध्यायामपि योषिति ।अथ स्त्री शमिता चूर्णे गोधूमस्येति यादवः ॥ १७९३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.102 · p. 273
शम्बरं सलिले क्लीबं ना देत्यमृगभेदयोः ।शम्बरी स्यादासुपर्ण्यां मायायामपि च स्त्रियाम् ॥शर्वरी स्त्री तु यामिन्यां प्रमदायामपि स्त्रियाम् ।शर्करा कर्परांशेऽपि सिता शार्करदेशयोः ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.84 · p. 263
पापेऽपि वृजिनं केशे पुमानिन्दुस्तु शर्वरः ।स्त्री रात्रिसन्ध्याशर्वर्यो र्दैत्ये ना शंबरोऽप्सु षण् ॥ ८४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.5 · p. 281
शर्वर्यास्तु हरिद्रायां प्रियंगुव्रततौ स्त्रियाः ।ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ ५ ॥
अनुष्टुप्

शर्वरी as a meaning in nānārtha verses