कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

त्वाष्ट्र

tvāṣṭraपुं · masc.

In 5 kośas: 3 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.

गणितनाममाला Gaṇitanāmamālā · हरदत्त नक्षत्रनामानि Gaṇitanāmamālā 1.9 · p. 1
उग्रार्यमास्ततो हस्त अर्कं चैव तथार्कभम् ।करं सवित्तृ सूर्यर्क्षं चित्रा त्वाष्ट्रं चत्वष्ट्रभम् ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.22 · p. 64
बाणो बिन्ध्याबलिपुतस्त्वाष्ट्रो वृत्रोऽप्यहिश्च सः ।दमघोषसुतश्चैद्यश्चेदिराट् शिशुपालकः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.108 · p. 92
वासवो वैष्णवस्त्वाष्ट्रः सौम्यो माधुरवेजनौ ।संघातिकारणिर्न क्ली कुशा वरुणकाष्ठिका ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.531 · p. 88
तृणसम्बन्धिनि त्रिः स्यात् त्राको धर्मे नृलिङ्गकः ।त्रि स्याच्छरणदेशीये त्वाष्ट्रस्तु क्षपके पुमान् ॥ ५३१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.532 · p. 88
अरत्नीनां च यूपस्य स्यादरत्नौ चतुर्दशे ।त्वाष्ट्री तु स्त्री सूर्यपत्नीभेदे त्वष्टुः पुनस्त्रिषु ॥ ५३२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.533 · p. 88
सम्बन्धिमात्रे यस्यापि त्वष्टा स्याद्देवतात्र च ।अपत्ये तु द्वयोस्त्वष्टुरथ तापिर्नृलिङ्गकः ॥ ५३३ ॥
अनुष्टुप्
doubtful

त्वाष्ट्र as a meaning in nānārtha verses