All kośas › Abhidhānaratnamālā (Halāyudha)
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha)
889 verses · 7,659 words tagged · 1,100 marked doubtful (dashed)
अनेकार्थकाण्डम्
इति श्रीभट्टहलायुधकृतायामभिधानरत्नमालयां सामान्यकाण्डं चतुर्थं समाप्तम् ॥ ४ ॥
पञ्चममनेकार्थकाण्डम्
एकोऽर्थो बहुभिः शब्दैः कथितः कथ्यतेऽधुना ।एकस्यैव तु शब्दस्य बहुष्वर्थेषु वर्तनम् ॥ ७८७ ॥
5.787 · p. 91
अनुष्टुप्
रुद्रेऽपि खण्डपरशुर्वैश्रवणेऽप्येककुण्डलः प्रोक्तः ।द्वारेऽपि प्रतिहारः प्राकाराग्रेऽपि कपिशीर्षम् ॥ ७८८ ॥
5.788 · p. 91
आर्या
पर्याप्तेऽपि कृतं स्यादाहवनीयादिषु त्रिषु त्रेता ।सन्देहेऽपि द्वापरमाहुः कलहेऽपि कलिशब्दम् ॥ ७८९ ॥
5.789 · p. 91
आर्या
सेनायामपि कटकं प्राणिद्यूतं वदन्ति युद्धेऽपि ।रक्षस्यपि पुण्यजनं मृद्भाण्डेऽप्युष्ट्रिकामार्याः ॥ ७९० ॥
5.790 · p. 91
आर्या
श्वेतं रजतेऽप्युक्तं रजतं हारे शरेऽपि किंशारुः ।दम्भेऽपि गह्वरं स्यादुपह्वरं सन्निधानेऽपि ॥ ७९१ ॥
5.791 · p. 91
आर्या
नयनच्छदेऽपि वर्त्म प्रतिग्रहः सैन्यपृष्ठभागेऽपि ।श्लेष्मण्यपि खेटः स्याज्जामिः कुलबालिकायां च ॥ ७९२ ॥
5.792 · p. 91
आर्या
गन्धो लेशेऽप्युक्तः करुणाप्रतिपादने तपस्वी च ।मणिबन्धकनिष्ठकयोर्मध्यविभागेऽपि करभः स्यात् ॥ ७९३ ॥
5.793 · p. 91
आर्या
चिन्तायामपि चर्चा जगती राजप्रधानलोकेऽपि ।ऋतुरङ्गनारजस्यपि विकटं श्रेष्ठेऽपि निर्दिष्टम् ॥ ७९४ ॥
5.794 · p. 92
आर्या
कवचेऽपि वारवाणं जीमूतं पर्वतेऽपि कथयन्ति ।व्यूहं रचनायामपि दार्वाघाटेऽपि शतपत्त्रम् ॥ ७९५ ॥
5.795 · p. 92
आर्या
करणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः ।मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥
5.796 · p. 92
metre not recognised
वृजिनः केशेऽप्युक्तः स्थाणुः कीलेऽपि कुञ्जरे नागः ।गञ्जो भाण्डागारे गोमुखमुपलेपनेऽपि स्यात् ॥ ७९७ ॥
5.797 · p. 92
metre not recognised
तेजस्यपि धाम स्यादाधारेऽप्याशयो घटा गोष्ठ्याम् ।कुल्या कुलस्त्रियामपि तारो मुक्तागुणेऽप्युक्तः ॥ ७९८ ॥
5.798 · p. 92
metre not recognised
कर्मविपाकेऽपि दशागती स्मृते काननेऽपि दवदावौ ।चूडाशिखे शिरस्यपि हस्तिन्यां धेनुकागणिके ॥ ७९९ ॥
5.799 · p. 92
आर्या
प्रतिपत्प्रतिपत्तावपि शादः शष्पे घृणा जुगुप्सायाम् ।उत्तालमुन्नतेऽपि श्रेष्ठेऽपि निगद्यते सुरभिः ॥ ८०० ॥
5.800 · p. 92
आर्या
संवर्तः परिवर्तश्च हायने कथ्यतेऽम्बरे नाकः ।परिमाणेऽपि प्रस्थः सर्वात्मनि सर्वसन्नाहः ॥ ८०१ ॥
5.801 · p. 92
आर्या
पत्न्यामपि द्वितीया दर्भेऽपि पवित्रमवधिरवटेऽपि ।प्रकृतावपि प्रधानं विवक्षितं शोभनेऽपि स्यात् ॥ ८०२ ॥
5.802 · p. 92
आर्या
अतिमात्रेऽप्यतिवेलं कायेऽप्युत्सेध इष्यते सद्भिः ।पृष्ठास्थन्यपि वंशः कदली करिवैजयन्त्यां च ॥ ८०३ ॥
5.803 · p. 92
आर्या
जालं कपटेऽप्युक्तं कपालमुक्तं घटादिशकलेऽपि ।रिष्टं पापाशुभयोररिष्टमशुभेऽपि निर्दिष्टम् ॥ ८०४ ॥
5.804 · p. 93
आर्या
व्यासेऽपि विग्रहः स्यान्मानविशेषेऽपि पौरुषव्यामौ ।हेला प्रस्तावेऽपि प्रग्रह आबन्धनेऽप्युक्तः ॥ ८०५ ॥
5.805 · p. 93
आर्याmetre not read in every line
कुञ्जरकरेऽपि शुण्डा ग्रावा शैले भवश्च संसारे ।बालेऽपि बालिशः स्यात्कलधौतं शातकुम्भेऽपि ॥ ८०६ ॥
5.806 · p. 93
आर्या
शाखायामपि परिधिर्वसतिर्जैनाश्रमेऽपि निर्दिष्टा ।अन्वेषणेऽपि मार्गो भद्रो वृषभे वके ध्वाङ्क्षः ॥ ८०७ ॥
5.807 · p. 93
आर्या
मणिदोषेऽपि त्रासो वत्सः संवत्सरेऽपि निर्दिष्टः ।वामः प्रतिकूलेऽपि प्रोक्तौ शुक्लेऽपि शुचिरामौ ॥ ८०८ ॥
5.808 · p. 93
metre not recognised
ह्यस्तनदिनेऽपि कल्यं नेत्रं मूले रजस्यपि परागः ।भ्रूणो गर्भिण्यामपि भूतिर्विभवे बलः काके ॥ ८०९ ॥
5.809 · p. 93
आर्या
गिरिसानुन्यपि वप्रं तल्पं दारेषु चक्षुषि ज्योतिः ।चौर्यादावपि हिंसा प्रसरः प्रणयेऽपि निर्दिष्टः ॥ ८१० ॥
5.810 · p. 93
आर्या
संघातेऽपि ग्रामो भूतेन्द्रियशब्दविषयकरणानाम् ।षण्डश्च पादपानां स्कन्धः करिनरतुरङ्गाणाम् ॥ ८११ ॥
5.811 · p. 93
आर्या
नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
5.812 · p. 93
आर्या
कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः ।शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
5.813 · p. 93
अनुष्टुप्
आर्यः स्यात्सौविदल्लेऽपि व्रीहावप्यणुरिष्यते ।चण्डालेऽपि दिवाकीर्तिर्विवस्वान् देवतास्वपि ॥ ८१४ ॥
5.814 · p. 94
अनुष्टुप्
स्नेहेऽप्यपह्नवः प्रोक्तो द्वेषेऽप्यनुशयः स्मृतः ।सुरतेऽपि व्यवायः स्यान्नैगमश्च ऋतावपि ॥ ८१५ ॥
5.815 · p. 94
अनुष्टुप्
दुर्गमार्गेऽपि कान्तारं गृहवाट्यां च निष्कुटः ।रूपं मृगेऽपि विज्ञेयं बभ्रुः स्यान्नकुलेऽपि च ॥ ८१६ ॥
5.816 · p. 94
अनुष्टुप्
अन्तर्देहेऽपि कोष्ठः स्याच्चत्वरं प्राङ्गणेऽपि च ।दुश्चर्मण्यपि निर्दिष्टः शिपिविष्टो मनीषिभिः ॥ ८१७ ॥
5.817 · p. 94
अनुष्टुप्
संस्तरः प्रस्तरेऽप्युक्तो हनौ कुञ्जो रणे स्पशः ।गर्जन्मेघेऽपि पर्जन्यः सन्धा स्यादवधावपि ॥ ८१८ ॥
5.818 · p. 94
अनुष्टुप्
व्यवस्थायां च संस्था स्यात्संवित्तावपि वेदना ।यात्रा स्यादनुवृत्तौ च संज्ञायां च समाह्वयः ॥ ८१९ ॥
5.819 · p. 94
अनुष्टुप्
क्लीवो विक्रमहीनेऽपि समयेऽपि कटः स्मृतः ।कलङ्कं लाञ्छने दोषेऽप्यद्रिः प्रोक्तो रवावपि ॥ ८२० ॥
5.820 · p. 94
अनुष्टुप्
समितिः सङ्गतिसभयोः ककुदं शृङ्गे विदुः प्रधानेऽपि ।टङ्कः स्यादभिमाने प्रस्तरघटनोपकरणे च ॥ ८२१ ॥
5.821 · p. 94
आर्या
सङ्केते चैतन्ये च सूरिभिः कथ्यते तथा संज्ञा ।दण्डो दमने सैन्ये कुतपो दर्भेऽपराह्णे च ॥ ८२२ ॥
5.822 · p. 94
metre not recognised
कारुण्येऽप्यनुषङ्गः स्यात्प्रोक्तो गुह्येऽप्यवस्करः ।वेदिकाऽङ्गुलिमुद्रायां लाक्षायां च कृमिस्तथा ॥ ८२३ ॥
5.823 · p. 94
अनुष्टुप्
नीवी परिपणेऽप्युक्ता कटिदेशेऽपि मेखला ।प्रत्यवायेऽपि विश्लेषे विधुरं स्मर्यते बुधैः ॥ ८२४ ॥
5.824 · p. 95
अनुष्टुप्
निदानमवसानेऽपि स्वामिन्यपि भवेदिनः ।जठरः कठिनेऽप्युक्तः प्राज्ञैः परिणतेऽपि च ॥ ८२५ ॥
5.825 · p. 95
अनुष्टुप्
काले कल्पेऽपि विधिर्घनाघनः शक्रवर्षुकाम्बुदयोः ।अत्ययशब्दः प्राज्ञैः कृच्छ्रे चातिक्रमे च निर्दिष्टः ॥ ८२६ ॥
5.826 · p. 95
गीतिः
उदरे जले कृपीटं सम्बाधः सङ्कटे भगेऽप्युक्तः ।पार्ष्णिः प्रत्यासारे च रणस्य च पश्चिमे भागे ॥ ८२७ ॥
5.827 · p. 95
आर्या
रतिभुक्त्योः सम्भोगः पथिदेये स्त्रीधने च शुल्कं स्यात् ।वंशाङ्कुरे करीरं वृक्षविशेषेऽपि कथयन्ति ॥ ८२८ ॥
5.828 · p. 95
आर्या
अनूकमन्वये शीले गोत्रं नाम्नि तथान्वये ।पुलाकं भक्तसिक्थे च क्षुद्रधान्ये च कथ्यते ॥ ८२९ ॥
5.829 · p. 95
अनुष्टुप्
अकार्ये गुह्ये कौपीनं कीलालं रुधिरे जले ।कुकूलं शङ्कुमद्गर्ते तुषाग्नौ च निगद्यते ॥ ८३० ॥
5.830 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह्ये (wrong syllable)
चैत्यं बुद्धाण्डकेऽप्युक्तं देवतायतने तथा ।छत्त्रके वृक्षजातौ च शिलीन्ध्रं स्मर्यते बुधैः ॥ ८३१ ॥
5.831 · p. 95
अनुष्टुप्
अर्थव्ययसहे व्यालस्तथा हिंस्रपशौ स्मृतः ।पोत्रमित्युच्यते प्राज्ञैर्हलशूकरयोर्मुखम् ॥ ८३२ ॥
5.832 · p. 95
अनुष्टुप्
मन्दस्वच्छन्दयोः स्वैरं कक्षः स्यात्कच्छवीरुधोः ।करेणुर्गजहस्तिन्योः पीलुश्च गजवृक्षयोः ॥ ८३३ ॥
5.833 · p. 95
अनुष्टुप्
शलाकायुधयोः शल्यं बाधा दुःखनिषेधयोः ।स्थूणास्तब्धत्वयोः स्तम्भ इला वागघ्न्ययोरपि ॥ ८३४ ॥
5.834 · p. 96
अनुष्टुप्
अर्चनामूल्ययोरर्घो विसर्गो मुक्तिवर्चसोः ।मुनिकुक्कुटयोर्दक्षः सन्धिः संश्लेषरन्ध्रयोः ॥ ८३५ ॥
5.835 · p. 96
अनुष्टुप्
अवश्यभृशयोर्वाढं दायादस्तुक्सपिण्डयोः ।कुलीनश्रेष्ठयोर्जात्यं कोटिरुत्कर्षसंख्ययोः ॥ ८३६ ॥
5.836 · p. 96
अनुष्टुप्
ब्रध्नस्तण्डुगिरिशयोः स्थितिः स्थानव्यवस्थयोः ।वीकाशः स्फुटरहसोः काष्ठा कालप्रकर्षयोः ॥ ८३७ ॥
5.837 · p. 96
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ण्डु (wrong syllable); pāda 3, syllable 4 स्फु (wrong syllable)
नदीसमुद्रयोः सिन्धुर्देशपर्वतयोर्मरुः ।मैथुनं कथ्यते सद्भिः सम्बन्धग्राम्यधर्मयोः ॥ ८३८ ॥
5.838 · p. 96
अनुष्टुप्
प्रह्वबन्धनयोः प्राध्वं मोहः स्यान्मौढ्यमूर्छयोः ।व्यवस्थानेऽम्भसो वेला रविः पर्वतसूर्ययोः ॥ ८३९ ॥
5.839 · p. 96
अनुष्टुप्
अग्न्युत्पातौ धूमकेतू श्वशुर्यौ श्यालदेवरौ ।दिव्यार्थसंग्रहौ कोशौ नरेन्द्रौ नृपवार्त्तिकौ ॥ ८४० ॥
5.840 · p. 96
अनुष्टुप्
आडम्बरो गजानां पटहरवे गर्जिते प्रपञ्चे च ।ग्रहशब्दः सूर्यादिषु भूतादिष्वभिनिवेशे च ॥ ८४१ ॥
5.841 · p. 96
आर्या
अव्यक्तः परमात्मनि मूर्खे स्पष्टेतरे च निर्दिष्टः ।कक्षा गुह्यपिधाने काञ्च्यां गेहे प्रकोष्ठे च ॥ ८४२ ॥
5.842 · p. 96
आर्या
प्रतियत्नः संस्कारे लिप्सोपग्रहणयोश्च निर्दिष्टः ।अभिहारः सन्नाहे स्यादभियोगे परस्वहरणे च ॥ ८४३ ॥
5.843 · p. 96
गीतिः
दानविशेषे लब्धौ दायो भागार्हपित्र्यरिक्थे च ।लिपिसंख्यायां शास्त्रे द्रव्ये च ग्रन्थशब्दमिच्छन्ति ॥ ८४४ ॥
5.844 · p. 97
metre not recognised
द्यूताक्षसारिफलकास्त्रयोऽप्याकर्षसंज्ञकाः ।संसर्गाभिभवाक्रोशेष्वभिषङ्गः प्रकीर्त्तितः ॥ ८४५ ॥
5.845 · p. 97
अनुष्टुप्
त्वाष्ट्रे तमसि शत्रौ च वृत्रशब्दस्त्रिषु स्मृतः ।मन्युर्दैन्ये क्रतौ कोपे नाडीस्वर्गक्षितिष्विडा ॥ ८४६ ॥
5.846 · p. 97
अनुष्टुप्
उक्तानामप्यनुक्तानां शब्दानामिह संग्रहः ।कशब्दः सुखवाय्वम्बुब्रह्ममस्तकवाचकः ॥ ८४७ ॥
5.847 · p. 97
अनुष्टुप्
प्रत्ययाः शपथज्ञानहेतुविश्वासनिश्चयाः ।विस्तारे कदके शून्ये वितानं स्यात्क्रतौ क्षणे ॥ ८४८ ॥
5.848 · p. 97
अनुष्टुप्
देहावयवमासार्धपतत्रगृहभित्तिषु ।परिग्रहे समीपे च पक्षः षट्सु निगद्यते ॥ ८४९ ॥
5.849 · p. 97
अनुष्टुप्
अग्निधनरश्मिरत्नत्रिदशविशेषेषु भवति वसुशब्दः ।चेष्टात्मजन्मसत्ताभिप्रायेष्वभिहितो भावः ॥ ८५० ॥
5.850 · p. 97
आर्या
कालविशेषेऽवसरेऽव्यापारे पारतन्त्र्ये च ।मध्ये तथोत्सवे च क्षणशब्दः कथ्यते सद्भिः ॥ ८५१ ॥
5.851 · p. 97
metre not recognised
आचारे नयनादौ द्यूतविशेषे तथा रथावयवे ।अक्षं विभीतकेऽपि प्रयुञ्जते पञ्चसु प्राज्ञाः ॥ ८५२ ॥
5.852 · p. 97
आर्या
निष्ठा क्लेशेऽवसाने च व्यवस्थोत्कर्षयोर्व्रते ।श्रेष्ठे स्थाम्नि धने शुक्रे मज्ज्ञि सार उदाहृतः ॥ ८५३ ॥
5.853 · p. 97
अनुष्टुप्
दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु ।भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥
5.854 · p. 98
अनुष्टुप्
भूषायां लाङ्गूले प्रधानशृङ्गप्रभावपुण्ड्रेषु ।ध्वजलक्ष्मतुरङ्गेषु च नवसु ललामं प्रचक्षते प्राज्ञाः ॥ ८५५ ॥
5.855 · p. 98
गीतिः
पृथिव्यादिषु भूतेषु शरीरेषु रसादिषु ।लोहेषु च स्मृतो धातुः स्वभावे गैरिकादिषु ॥ ८५७ ॥
5.857 · p. 98
अनुष्टुप्
द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाण्डमुखे ।अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम् ॥ ८५८ ॥
5.858 · p. 98
आर्या
चतुर्विधेषु जीवेषु पृथिव्यादिषु पञ्चसु ।अतीते देवयोनौ च भूतशब्दं प्रचक्षते ॥ ८५९ ॥
5.859 · p. 98
अनुष्टुप्
शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते ।गीतक्रमे स्तुतौ वेषे वर्णशब्दं प्रचक्षते ॥ ८६० ॥
5.860 · p. 98
अनुष्टुप्
शृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे ।निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥
5.861 · p. 98
आर्या
योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि ।पुण्यक्षेत्रे तथा पात्रे तीर्थ स्याद्दर्शनेषु च ॥ ८६२ ॥
5.862 · p. 98
अनुष्टुप्
अकारादिषु वर्णेषु षड्जादिषु च सप्तसु ।उदात्तादिषु विज्ञेयः प्राणिनां च स्वने स्वरः ॥ ८६३ ॥
5.863 · p. 99
अनुष्टुप्
सत्त्वादीनां साम्यावस्थां प्रकृतिं वदन्ति तत्त्वज्ञाः ।पौरामात्यादीनि च कारणकारुस्वरूपाणि ॥ ८६४ ॥
5.864 · p. 99
metre not recognised
सत्त्वादौ रूपादौ शौर्यादौ तन्तुषु प्रयोगज्ञाः ।गुणशब्दं सिञ्जिन्यां प्रयोजयन्त्यप्रधानेऽपि ॥ ८६५ ॥
5.865 · p. 99
metre not recognised
उपकरणे करणे च द्रविणे लिङ्गे च यातनायां च ।सेनाङ्गे संसिद्धौ साधनशब्दप्रयोगः स्यात् ॥ ८६६ ॥
5.866 · p. 99
आर्या
अभिधेयाभिप्रायप्रयोजनद्रव्यवाचकेष्वर्थः ।प्रस्तावे संघाते कुत्सायामायुधे जले काण्डम् ॥ ८६७ ॥
5.867 · p. 99
गीतिः
वेदाध्यात्मब्राह्मणहिरण्यगर्भेषु कथ्यते ब्रह्म ।प्रकृतिगुणे सत्तायां स्थामनि भूते च सत्त्वं स्यात् ॥ ८६८ ॥
5.868 · p. 99
आर्या
इराशब्दो बुधैर्ज्ञेयो भुवि वाच्यशनेऽम्भसि ।निमेषादौ यमे वर्णे कालो मृत्यौ च कीर्त्यते ॥
5.83 · p. 99
अनुष्टुप्
तन्त्रं तन्तुषु मन्त्रेषु सिद्धान्तपरिच्छदप्रधानेषु ।उत्साहनसूचनयोः प्रकाशने गन्धनं प्रोक्तम् ॥ ८७० ॥
5.870 · p. 99
आर्याmetre not read in every line
वस्त्रे मध्ये तथा छिद्रे व्यवधानेऽन्तरात्मनि ।अवकाशे बहिर्योगे विशेषेऽवसरेऽन्तरम् ॥ ८७१ ॥
5.871 · p. 99
अनुष्टुप्
प्रागेव नामपर्याये निपाताः केऽपि कीर्तिताः ।कथ्यन्ते केचिदन्येऽपि दिष्ट्या स्यान्मङ्गलादिषु ॥ ८७२ ॥
5.872 · p. 100
अनुष्टुप्
चिराय चिररात्राय दीर्घकाले प्रयुज्यते ।चिरं चिराच्चिरेणेति वा विकल्पोपमानयोः ॥ ८७३ ॥
5.873 · p. 100
अनुष्टुप्
परितः सर्वतो विष्वक् समन्ताच्च समन्ततः ।प्रत्यक्षसदृशोः साक्षाद्वार्त्तासम्भाषयोः किल ॥ ८७४ ॥
5.874 · p. 100
अनुष्टुप्
शोचने सम्प्रहर्षे च हन्तशब्दः प्रयुज्यते ।ई दुःखभावने क्रोधे प्रत्यक्षे सन्निधावपि ॥ ८७५ ॥
5.875 · p. 100
अनुष्टुप्
पृथग्विनान्तरेणर्ते व्यतिरेकार्थवाचकाः ।प्रत्यारम्भे मुहुः प्रोक्तो हुं सम्प्रश्नवितर्कयोः ॥ ८७६ ॥
5.876 · p. 100
अनुष्टुप्
इतिह स्यात्सम्प्रदाये प्रेत्यामुत्र भवान्तरे ।साकं सार्धं समं सत्रं सहार्थे सम्प्रकीर्तिताः ॥ ८७७ ॥
5.877 · p. 100
अनुष्टुप्
अधरस्तादधरतः स्यादधस्तादधोऽधरे ।अत इत्युच्यते हेतौ निन्दायां विस्मये वत ॥ ८७८ ॥
5.878 · p. 100
अनुष्टुप्
समयानिकषाशब्दौ सामीप्ये कीर्तितौ बुधैः ।तर्कनिश्चययोर्नूनं कच्चित्स्यात्प्रश्नकामयोः ॥ ८७९ ॥
5.879 · p. 100
अनुष्टुप्
आहो उताहो सन्देहे नु स्वित्प्रश्नवितर्कयोः ।वर्तमाने च युक्ते च साम्प्रतं सम्प्रचक्षते ॥ ८८० ॥
5.880 · p. 100
अनुष्टुप्
प्रकाशे सम्भवे प्रादुः प्रधानसदृशोः प्रति ।हि स्याद्विशेषणे हेतौ तु स्याद्भेदेऽवधारणे ॥ ८८१ ॥
5.881 · p. 100
अनुष्टुप्
अयि प्रश्ने सानुनये सत्ये शीघ्रे तथाञ्जसा ।ईषत्किञ्चिन्मनाक् प्रोक्ताः किञ्चनस्तोकवाचकाः ॥ ८८२ ॥
5.882 · p. 101
अनुष्टुप्
तूष्णीं जोषं भवेन्मौने स्म स्यात्संस्मरणादिषु ।अङ्गेत्यामन्त्रणे हं हो भो भो इति च कथ्यते ॥ ८८३ ॥
5.883 · p. 101
अनुष्टुप्
अनेकार्थे भवेन्नाना ननु प्रश्नेऽवधारणे ।आकस्मिकार्थे सहसा तत्काले च निगद्यते ॥ ८८४ ॥
5.884 · p. 101
अनुष्टुप्
विस्तारेऽङ्गीकृतावूरी कथ्यत उररी तथा ।असंशये भवेदद्धा सहार्थान्तिकयोरमा ॥ ८८५ ॥
5.885 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 थ्य (wrong syllable)
अथानन्तरकल्याणसम्प्रश्नादिषु कथ्यते ।अथो इति तथा प्रोक्तो नामाभ्युपगमादिषु ॥ ८८६ ॥
5.886 · p. 101
अनुष्टुप्